द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 77, कुल 176 में से
संदर्भ में पढ़ेंद्रव्यगुणाः। ६८ फलं वेत्रस्य वातघ्नमम्लपित्तविनाशकृत् ॥ २० ॥ मातुलुङ्गफलं हृद्यमम्लं लध्वग्निदीपनम् । श्वासकासारुचिहरं तृष्णाघ्नं कण्ठशोधनम् ॥ २१ ॥ बीजपूरस्य तिक्ता त्वग् दुर्जरा कफवातहृत् ॥ २२ ॥ तन्मांसं स्वादु शीतञ्च गुरु मारुतपित्तजित् ॥ २३ ॥ केशरन्तु लघु ग्राहि गुल्मार्शोघ्नं हि दीपनम् । मेध्यं शूलानिलच्छर्दिकफारोचकनाशनम् ॥ २४ ॥ एवम्प्रकारा विज्ञेया वृष्या च मधुकर्कटी ॥ २५ ॥ कपित्थमांसं कण्ठघ्नं विषघ्नं ग्राहि वातलम् । मधुराम्लकषायत्वात् सौगन्ध्याच्च रुचिप्रदम् । तदेव सिद्धं दोषघ्नं विषघ्नं ग्राहि गुर्व्वपि ॥ २६ ॥ जाम्बवं वातलं ग्राहि रूक्षं पित्तकफापहम् ॥ २७ ॥ मातुलुङ्गफलस्य प्रत्यवयवगुणं निर्द्दिशन्नाह बीजपूरस्येति । बीजपूरस्येति मातुलुङ्गस्य कफवातहृदिति कफवातनाशिनी तिक्ता त्वग्दुर्जरा तस्य वातक्रिमिकफापहेत्युक्तेः ॥ २२ ॥ मांसमिति त्वक्केशरमध्यभागः ॥ २३ ॥ मेध्यं मेधाहितं प्रभावात् ॥ २४ ॥ मधुकर्कटी मधुर इति ख्याता । मातुलुङ्गापेक्षया महा- प्रमाणा बहुमांसाल्पकेशरा ॥ २५ ॥ तदेवेति । कपित्थं सिद्धमिति कालवशात् पक्वम् ॥ २६ ॥ जम्बूस्त्रिविधा राजजम्बूर्महाफला । काकजम्बूर्व्वनजम्बू-