द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 79, कुल 176 में से
संदर्भ में पढ़ेंद्रव्यगुणाः । ७१ अम्लोष्णं लघु संग्राहि स्निग्धं पित्ताग्निवर्द्धनम् ॥ ३० ॥ अनुपाकिफलं स्वादु वातपित्तविनाशनम् ॥ ३१ ॥ क्षीरिवृक्षफलं विद्याद्गुरु विष्टम्भि शीतलम् । कषायमधुरं साम्लं नातिमारुतकोपनम् ॥ ३२ ॥ तस्मात् तेजोमयं पित्तं पित्तोष्मा यः स पक्तिमान् । इति अत्रोच्यते वह्निपित्तयोः पारमार्थिके हि अभेदे तीक्ष्णः पित्तेनाग्निरिति कार्यकारणभावो न स्यात् तथा कट्वजीर्ण- विदाह्यम्लचाराद्यैः पित्तमुल्बणम् । आप्लावयन्त्यनलमिति चरकवचनञ्च विरुध्यते । तथा पित्तशमकमपि घृतमग्निमेधे करोतीत्युक्तमसङ्गतं स्यात् । तथा समदोषः समाग्निश्चेति वचनेऽपि पौनरुक्त्यं दुष्परिहरं स्यात् । अभेदसाधकानुमाने चासिद्धो हेतुः । घृतस्य पित्तशमकस्यापि अग्निवर्द्धकत्वात् । तथा कट्वजीर्णविदाह्यम्लस्य च पित्तजननावान्तरव्यापारस्या- ग्न्युपघातकत्वात् । यदप्यभेदसाधकं पित्तं तेजःप्रतापनादिति वचनं तथा पित्तोष्मा यः स पक्तिमानिति च तदपि पित्ता- द्भिन्नस्य तदवयवस्य तेजसोऽग्नित्वं वदति । तस्मात् अवयवावय- विरूपेणाग्निपित्तयोर्भेदो विद्यत एव । सुश्रुतेन तु अवयवा- वयविनोरभेद एव विवक्षित इति न विरोधः । अभेदा- श्रयञ्च पित्तवर्द्धनैः प्रायो वर्द्धनमग्नेस्तच्छमकैश्च प्रायः शम- मग्नेरिति प्रतिपादनायैव । पित्ततेजोरूपतायाञ्च वह्ने- स्तेजोविपरीतपित्तद्रवांशवर्द्धकाजीर्णविदाह्यम्लादिभिर्व्यङ्गीभूत- द्रवपित्तजननादग्नेर्निर्वापणं युक्तमेवेति ॥ ३० ॥ अनुपाकीति । अनुया इति ख्यातम् ॥ ३१ ॥ क्षीरिवृक्षा न्यग्रोधोदुम्बराश्वत्थप्लक्षायः ॥ ३२ ॥