द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 80, कुल 176 में से
संदर्भ में पढ़ें७२ द्रव्यगुणः । वाकुलं मधुरं स्निग्धं कषायं विषदञ्च तत् । स्थिरीकरञ्च दन्तानां संग्राहि फलमिष्यते ॥३३॥ परूषकं समधुरं कषायानुरसं लघु । वातघ्नं पित्तजननमत्यम्लं तदुदाहृतम् ॥ ३४ ॥ पक्वं समधुरं तच्च वातपित्तनिवर्हणम् ॥ ३५ ॥ कफानिलहरं तीक्ष्णं स्निग्धं संग्राहि दीपनम् । कटुतिक्तकषायोष्णं बालविल्वमुदाहृतम् ॥ तदेव विद्यात्सम्पक्वं मधुरानुरसं गुरु । विदाहि विष्टम्भकरं दोषकृत् पूतिमारुतम् ॥३६॥ आमपक्वभेदेन परूषकस्य गुणमाह परूषकमिति । अयञ्चामपरूषकगुणः । पक्वस्य वक्ष्यमाणत्वात् । परूषकं स्वनामख्यातम् ॥ ३४ ॥ तदिति परूषकम् ॥ ३५ ॥ विल्वस्याप्यामकभेदेन गुणमाह कफानिलहरमिति । बालविल्वं विल्वशलाटु । अत्र कफानिलहरमित्यारभ्य उदाहृतमित्यन्तञ्च प्रथमावस्थविल्वगुणः । तदेवेत्याद्यर्द्धश्लोकेन मध्यावस्थविल्वगुणः । विदाहीत्यादिः पूतिमारुतमित्यन्तः स्वादु- पक्वविल्वगुण इति । सम्पक्वमिति परिणतं मध्यावस्थमित्यर्थः । युक्तञ्चैतत् सुपक्वस्य हि मधुरानुरसता न युज्यते यतः पक्वस्य मधुर एव रसो नत्वन्यो रस इति । पूतिमारुतमिति पूति- शब्दोऽयं सुगन्धिवचनः । यथा पूतिः खट्वासः । यथा वनजा मधुकुकुटी पूतिपुष्पा सुगन्धिपुष्प्येत्यर्थः । तेन पूतिः सुगन्धि- मारुतो यस्य तत्तथा एतच्च विशेषणं सुपक्वावस्थाप्रदर्शनपरम् ।