द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 81, कुल 176 में से
संदर्भ में पढ़ेंद्रव्यगुणः। ७३ द्राक्षा तु मधुरा स्निग्धा शीता वृष्यानुलोमनी । रक्तपित्तज्वरश्वासतृष्णादाहक्षयापहा ॥ ३७ ॥ गोस्तनी या गुरुर्हृद्या द्राक्षा सा वातपित्तनुत्॥३८ केश्यं रसायनं मेध्यं काश्मर्य्याः फलमुच्यते ॥३६॥ खर्जूरं मधुरं वृष्यं स्निग्धं शोणितपित्तजित् । क्षतक्षयापहं हृद्यं शीतलं तर्पणं गुरु ॥ ४० ॥ मधूकस्य फलं पक्वं वातपित्तप्रणाशनम् । तस्य पुष्पं बृंहणीयमहृद्यं गुरु शीतलम् ॥४१॥ नारिकेलं गुरु स्निग्धं पित्तघ्नं स्वादु शीतलम् । यतः सुपक्वबिल्वसंसर्गी बाह्यपवनः सुगन्धिर्भवतीति । तदेव दोषत्रयकरं प्रभावात् । अन्ये तु पूतिमारुतं दुर्गन्धिकुक्षिवात- करमित्याचक्षते । तन्न सम्यक्प्रतीतेः मध्यबिल्वगुणनिर्देशा- चेति । नहि य एव बालविल्वस्य गुणः स एव मध्यस्यापि युज्यते इति चन्द्रिका । चक्रस्तु तदेव विद्यादित्यादिः पूतिमारुत- मित्यन्तः पक्वबिल्वगुण इत्याह । यतश्चरकेऽपि दुर्ज्जरं विल्व- सिद्धन्तु इत्यादिना द्विविधमेव वाग्भटेऽप्येवम् ॥ ३६ ॥ अनुलोमनी सरा मलभेदिनीति यावत् ॥ ३७ ॥ गोस्तनी बृहत्प्रमाणद्राक्षा ॥ ३८ ॥ काश्मरी गाम्भारी ॥ ३६ ॥ खर्जूरं द्विविधं महाप्रमाणं स्वल्पप्रमाणञ्च । तत्राद्यं पिण्ड- खर्जूरं पारसीयदेशोद्भवम् । स्वल्पप्रमाणञ्च विट्खर्जूरम् ॥ ४०॥ मधूकस्य पुष्पाणां फलवदुपयोगात् तत्समानगुणत्वाच्चात्रा- भिधानं बोध्यम् । अहृद्यमिति मदजनकत्वात् ॥ ४१ ॥ ७