भारतकोश
संग्रह पर लौटें

द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs

पं. जीवनानन्द विद्यासागर द्वारा

DevanagariHindipublished176 पृष्ठ

द्रव्यगुणः। ७३ द्राक्षा तु मधुरा स्निग्धा शीता वृष्यानुलोमनी । रक्तपित्तज्वरश्वासतृष्णादाहक्षयापहा ॥ ३७ ॥ गोस्तनी या गुरुर्हृद्या द्राक्षा सा वातपित्तनुत्॥३८ केश्यं रसायनं मेध्यं काश्मर्य्याः फलमुच्यते ॥३६॥ खर्जूरं मधुरं वृष्यं स्निग्धं शोणितपित्तजित् । क्षतक्षयापहं हृद्यं शीतलं तर्पणं गुरु ॥ ४० ॥ मधूकस्य फलं पक्वं वातपित्तप्रणाशनम् । तस्य पुष्पं बृंहणीयमहृद्यं गुरु शीतलम् ॥४१॥ नारिकेलं गुरु स्निग्धं पित्तघ्नं स्वादु शीतलम् । यतः सुपक्वबिल्वसंसर्गी बाह्यपवनः सुगन्धिर्भवतीति । तदेव दोषत्रयकरं प्रभावात् । अन्ये तु पूतिमारुतं दुर्गन्धिकुक्षिवात- करमित्याचक्षते । तन्न सम्यक्प्रतीतेः मध्यबिल्वगुणनिर्देशा- चेति । नहि य एव बालविल्वस्य गुणः स एव मध्यस्यापि युज्यते इति चन्द्रिका । चक्रस्तु तदेव विद्यादित्यादिः पूतिमारुत- मित्यन्तः पक्वबिल्वगुण इत्याह । यतश्चरकेऽपि दुर्ज्जरं विल्व- सिद्धन्तु इत्यादिना द्विविधमेव वाग्भटेऽप्येवम् ॥ ३६ ॥ अनुलोमनी सरा मलभेदिनीति यावत् ॥ ३७ ॥ गोस्तनी बृहत्प्रमाणद्राक्षा ॥ ३८ ॥ काश्मरी गाम्भारी ॥ ३६ ॥ खर्जूरं द्विविधं महाप्रमाणं स्वल्पप्रमाणञ्च । तत्राद्यं पिण्ड- खर्जूरं पारसीयदेशोद्भवम् । स्वल्पप्रमाणञ्च विट्खर्जूरम् ॥ ४०॥ मधूकस्य पुष्पाणां फलवदुपयोगात् तत्समानगुणत्वाच्चात्रा- भिधानं बोध्यम् । अहृद्यमिति मदजनकत्वात् ॥ ४१ ॥ ७

७४ द्रव्यगुणः । बलमांसकरं हृद्यं वृंहणं वस्तिशोधनम् ॥ ४२ ॥ तालं स्वादुरसं पक्वं गुरु पित्तविनाशनम् । तद्बीजं स्वादुपाकन्तु मूत्रलं वातपित्तजित् ॥४३॥ कदलं मधुरं हृद्यं कषायं नातिशीतलम् । वातपित्तहरं रुच्यं वृष्यं श्लेष्मकरं गुरु ॥ ४४ ॥ श्लेष्मलं मधुरं शीतं श्लेष्मातकफलं गुरु ॥४५॥ पनसं सकषायन्तु स्निग्धं स्वादुरसं गुरु । पथ्या पञ्चरसायुष्या चक्षुष्या लवणा सरा । मेध्योष्णा दीपनी दोषशोथकुष्ठज्वरापहा ॥ ४६ ॥ धात्री तद्वद्विशेषेण वृष्या शीतैव वीर्य्यतः । हन्ति वातं तदम्लत्वात् पित्तं माधुर्य्यशैत्यतः । कफं कटुकषायत्वात् फलेभ्योऽप्यधिकञ्च तत्॥४७ अक्षं भेदनरूक्षोष्णं वैस्वर्य्यं क्रिमिनुत् कटु । तद्बीजमिति तालबीजम् ॥ ४३ ॥ कदलं कदलीफलं तच्च नानाविधं ज्ञेयम् ॥ ४४ ॥ श्लेष्मातको बहुवारः ॥ ४५ ॥ अलवणा सती पञ्चरसा इत्यर्थः ॥ ४६ ॥ अत्र दोषोपशमने यत् कारणं वर्णितं तद्यद्यपि पित्ता- दिसमानतया पित्तादिवर्द्धनमपि युज्यते तथाप्यामलक्याः शिव- त्वप्रभावात् दोषशमनमेव परं करोति न प्रकोपमिति ज्ञेयम् । एतदेवाह फलेभ्योऽप्यधिकञ्च तत् । अधिकमिति श्रेष्ठं शिवत्व- प्रभावयोगादिति भावः ॥ ४७ ॥

द्रव्यगुणाः । ७५ चक्षुष्यं स्वादुपाकञ्च कषायं कफपित्तनुत् ॥४८॥ पथ्या मज्जा तु चक्षुष्यो वातपित्तहरो गुरुः ॥४६॥ वैभीतको मदकरः कफमारुतनाशनः ॥ ५० ॥ कोलमज्जा तु मधुरः कषायः पित्तनाशनः । तृष्णाच्छर्द्यनिलघ्नश्च धात्रीमज्जापि तद्गुणः ॥५१॥ पियालमज्जा मधुरो वृष्यः पित्तानिलापहः ॥५२॥ यस्य यस्य फलस्येह वीर्य्यं भवति यादृशम् । तस्य तस्यैव वीर्य्येण मज्जानमपि निर्द्दिशेत् ॥५३॥ भल्लातकास्थ्याग्निसमं त्वङ्मांसं स्वादु शीतलम् ॥५४ करञ्जकिंशुकारिष्टफलं जन्तुप्रमेहनुत् । रूक्षोष्णं कटुकं पाके लघु वातकफापहम् ॥५५॥ तिक्तमीषद्विषहितं विडङ्गं क्रिमिनाशनम् ॥५६॥ फलेषु परिपक्कं यद् गुणवत् तदुदाहृतम् । प्रसङ्गान्मज्जगुणमाह पथ्येति ॥ ४६ ॥ वैभीतको विभीतकमज्जा ॥ ५० ॥ अनुक्तमज्जगुणातिदेशार्थमाह यस्येति । वीर्य्यं रसादि येन कुर्व्वन्ति तद्वीर्य्यमित्युक्तेः ॥ ५३ ॥ अग्निसममिति स्फोटादिजनकत्वात् ॥ ५४ ॥ करञ्जो वृत्तकरञ्जः किंशुकः पलाशः अरिष्टो निम्बः जन्तुः क्रिमिः ॥ ५५ ॥ ईषत्तिक्तमित्यन्वयः ॥ ५६ ॥ इदानीं यादृशावस्थं फलमुपादेयं तदाह फलेष्विति ।

७६ द्रव्यगुणः। बिल्वादप्यत्र तज्ज्ञेयमामं तद्धि गुणोत्तरम् ॥५७॥ व्याधितं क्रिमिजुष्टञ्च पाकातीतमकालजम् । वर्जनीयं फलं सर्वमपर्य्यागतमेव च ॥ ५८ ॥ इति फलवर्गः । धारं कारन्तु तौषारं हैमं खाम्बु चतुर्विधम् ॥१॥ धारन्वच द्विधा प्रोक्तं गाङ्गं सामुद्रमेव च ॥ २ ॥ बिल्वादप्यत्रेति बिल्वमेव परमपक्वं श्रेष्ठम्। गुणोत्तरमिति गुणतः श्रेष्ठम् ॥ ५७ ॥ यादृशं फलमनुपादेयं तदाह व्याधितमिति ॥ पाकातीत- मिति अतीतपाककालम् अतिपाके क्लिन्नमित्यर्थः । अकालज- मनुचितकालसम्भूतम् । अपर्य्यागतमपरिणतम् ॥ ५८ ॥ इति फलवर्गः । पूर्व्वमन्नमुक्तं तदुपकरणानि च मांसशाकफलान्युक्तानि इदानीं पानं वक्तव्यम्। पानेषु पानीयस्य प्राधान्यात् प्रथमं तद्गुणा वाच्याः । तत्रान्तरीक्षजलस्य सर्वजलश्रेष्ठत्वात् तद्भेदमाह धारमिति । धाराभवं धारमैन्द्रमित्यर्थः । करकापर्य्यायः कर- शब्दः तद्भवं कारम् । तौषारं शिशिरभवम् । हैमं संहतिभूत- हिमभवम् । चरके तु हिमतुषारयोरभेदात् त्रिविधमेवोक्तम् ॥ १ ॥ तत्र धारभेदमाह धारमिति। ननु चरके धाराख्यमान्तरी- क्षजलमेकविधमेवोक्तं यथा जलमेकविधं सर्वं पतत्यैन्द्रं नभस्तलात् ।

द्रव्यगुणाः। ७० येनाभिवृष्टममलं शाल्यन्नं राजतस्थितम् । अक्लिन्नमविवर्णं वा तत् पेयं गाङ्गमन्यथा । तत् पतत् पतितञ्चैव देशकालावपेक्षते ॥ इति। सत्यं तत्राप्यान्तरिक्षजलस्य धूलोमलविषलूतादि- सम्बन्धात् सदोषत्वे तदसम्बन्धाच्च निर्दोषत्वमिति द्वैविध्यमुक्त- युक्तरेव। अतोऽत्रापि सामुद्रगाङ्गशब्दयोः सदोषनिर्दोष- त्वमात्रमर्थः। न पुनः समुद्रादुद्धृतं सामुद्रम् गङ्गाया उद्धृतं मेघैर्गाङ्गमित्यर्थः। तथा सति गङ्गावदपरनदीप्रभृतिभेदादपि भेदकल्पनापत्तेः। अत्र गङ्गाशब्दो नदोप्रभृतीनां समुद्र- व्यतिरिक्तजलाशयानामुपलक्षक इत्युच्यते। तथापि चरकेण समं विरोधो दुष्परिहर एव। किञ्च यदि समुद्रादुद्धृतं सामु- द्रमित्येवार्थः तदा तस्य त्रिदोषकारित्वात् सामुद्रं तन्न पातव्यं मासादाश्वयुजादिनेत्यनेनाश्वयुजेऽपि ग्रहणं वक्ष्यमाणं नोपपद्यते। न च कालविशेषो जलान्तरवत् समुद्रजल- मपि निर्दोषीकर्त्तुं प्रभवति तस्मात् प्रथमैव व्याख्या युक्ता। यत् पुनः सामुद्रमप्याश्वयुजे गाङ्गवद्भवतीति सुश्रुतवचनम् तदा- श्वयुजे आन्तरिक्षस्य निर्दोषतापरम् तदा हि सतोऽपि लूतादि- दोषसम्बन्धस्य अगस्त्येन हननात्। कालमहिम्ना च बाधित- त्वात्। तदुक्तं जतूकर्णे वर्षासु चरन्ति घनैः सहोरगा वियति कीटलूताश्च । तद्विषजुष्टमपेयं खजलमगस्त्योदयात् पूर्वमिति ॥ २ ॥ गाङ्गसामुद्रयोर्भेदेन ज्ञानोपायमाह येनेति। येनाम्बुना अभिवृष्टमाभिमुख्यतः सिक्तं शाल्यन्नं रजतपात्रस्थितमक्लिन्न- मविवर्णञ्च भवति तद्गाङ्गं जलमिति ज्ञात्वा पेयंम् उपयोज्य- मित्यर्थः। तेन स्नानावगाहयोरपि ग्रहणम्। अन्यथा एतल्ल-

७८ द्रव्यवर्गः । सामुद्रं तन्न पातव्यं मासादाश्वयुजाद् विना ॥३॥ खाम्बु गाङ्गाभवं हृद्यं ह्लादि बुद्धिप्रबोधनम् । तन्व्यव्यक्तरसं सृष्टं शीतं लघ्वमृतोपमम् ॥ जीवनं तर्पणञ्चैव तदन्नाभसभूमिगम् ॥ ४ ॥ कारकं तोयममृतं नैहारं सर्वदोषकृत् । अवश्य्यायभवं रूक्षं वातलं लघु शीतलम् ॥ दाहासृक्पित्ततृट्छर्द्दि सक्थिस्तम्भादिपूजितम्॥५ क्षणविपर्य्ययेण सामुद्रमिति ज्ञात्वा तन्न पातव्यम् । अथ किं सदैव तन्न पातव्यमित्यत आह मासादाश्वयुजाद्विनेति । एतच्च आन्तरिक्षजलग्रहणादिकालप्रदर्शनपरम् । तेन कार्त्तिकेऽपि शरद्रूपे हेमन्ते चान्तरिक्षजलग्रहणमविरुद्धं भवति । यदाह हारीतः प्रवृत्तायां शरदद्यस्मात् पश्चाद्वाते प्रवाति च । हेमन्ते चापि गृह्णीयात्तज्जलं मृण्मयैर्घटैरिति ॥ ३ ॥ तत्र प्रशस्तस्य धाराख्यान्तरिक्षजलस्य गुणमाह खाम्बु इति । हृद्यमिति मनःप्रसादकत्वात् । तनु स्वच्छम् । सृष्टमित्यास्वाद- सुखम् । जीवनं जीवनहेतुत्वात् ओजोवृद्धिकरमित्यरुणः । सौम्यधातुवर्धनमित्यन्ये । तर्पणं क्लमहृत् । भौमजलेऽपि क्वचिदान्तरिक्षजलगुणानतिदिशति तद्वन्नाभसभूमिगमिति । नाभसी नभोगुणभूयिष्ठा भूमिः तद्गतं जलमपि तद्वदान्तरिक्ष- गाङ्गजलवदित्यर्थः । सुश्रुतेऽप्युक्तम् आकाशगुणभूयिष्ठायामव्यक्त- रसं तत् पेयमान्तरीक्षालाभ इति ॥ ४ ॥ कारतौषारहैमानापि क्रमेण गुणानह कारकमित्यादि ।

द्रव्यगुणः । ७८

नादेयं वातलं रूक्षं दीपनं लघु लेखनम् ॥ ६ ॥ नादेऽभिष्यन्दि मधुरं सान्द्रं गुरु कफापहम् ॥७॥ सारसं तुवरं बल्यं तृष्णाघ्नं मधुरं लघु ॥ ८ ॥ ताड़ागं वातलं स्वादु कषायं कटु पाकि च ॥ ६ ॥ वाप्यं सक्षारकटुकं पित्तलं कफवातनुत् ॥१०॥ कौपं कफघ्नं सक्षारं पित्तलं लघु दीपनम् ॥ ११ ॥ चौण्डमग्निकरं रूक्षं मधुरं कफकारि च ॥ १२ ॥ नैर्भरं लघु पथ्यञ्च दीपनं कफनाशनम् ॥ १३ ॥ औद्भिदं पित्तशमनं मधुरं न विदाहि च ॥ १४ ॥ अवश्यायसंहतीभूतं हिमम् । सक्थिस्तम्भ ऊरुस्तम्भः । तद्ध- न्तृत्वञ्च श्लेष्ममेदोहरत्वात् । तदुक्तं मेदः श्लेष्मसुपूजितमिति ॥ ५ ॥ नादेयादिभेदभिन्नानां भौमजलानां गुणमाह नादेयमिति । नादेयं गङ्गादिनदीभवम् । लेखनं कर्षणम् ॥ ६ ॥ नदः शोणभद्रादिः तत्र यज्जलं तत् एवंगुणमित्यर्थः । कफा- पहं कफहारम् ॥ ७ ॥ सरो दिव्यखातं पुरुषव्यापारं विना ॥ ८ ॥ तट उच्चप्रदेशस्तस्मादागो गतिर्यस्य स तड़ागः । स पुन- रुच्चप्रदेशादागच्छज्जलस्य निम्नप्रदेशे बन्धनाद्भवति ॥ ६ ॥ वापी इष्टकादिबद्धसोपाना दीर्घिका ॥ १० ॥ कूपो मृत्पट्टेष्टकादिबद्धसोपानः ॥ ११ ॥ चुण्डो नवकूपः प्रत्यासन्नजलः स पुनर्नाद्यादिसमीपे तत्कालकृता लघुकूपिका ॥ १२ ॥ नैर्भरम् उच्चप्रदेशात् प्रस्रवज्जलम् ॥ १३ ॥

८० द्रव्यगुणाः । वैकिरं लघु सक्षारं श्लेष्मलं वह्निदीपनम् ॥१५॥ कैदारं पाल्वलं स्वादु विपाके गुरु दोषलम् ॥१६॥ सामुद्रं लवणं विस्रं सर्वदोषप्रकोपणम् ॥ १७ ॥ आनूपं वार्य्यभिष्यन्दि मधुरं पिच्छिलं गुरु । स्निग्धं वह्निहरं सान्द्रं जाङ्गलं वार्य्यतोऽन्यथा ॥१८॥ साधारणं वारि शीतं दीपनं मधुरं लघु ॥१९ ॥ पश्चिमोदधिगाः शीघ्रवहा याश्चामलोदकाः । पथ्याः समस्तास्ता नद्यो विपरीतास्ततोऽन्यथा॥२०॥ औद्भिदं निम्नप्रदेशादूर्द्धमुत्तिष्ठज्जलम् ॥ १४ ॥ विकिरं वालुकादीन् विकीर्य्य गृह्यमाणजलस्थानं तद्भव- वम् ॥ १५ ॥ केदारः प्रसिद्धः । पाल्वलं तृणाद्याच्छन्नमन्दसरः ॥ १६ ॥ नद्याद्याधारवशेन जलधर्मानभिधायानूपादिदेशभवत्वेन पुनर्जलगुणमाह आनूपमिति । मधुरमिति व्यक्तरसत्वेन तद्वि- परीतन्तु अव्यक्तरसत्वेनेत्यर्थः ॥ १८ ॥ यद्यप्यानूपादावपि नद्यादिस्थितस्यैव जलस्यामी गुणा- स्तथापि अनन्तरोक्तनादेयादिगुणेन समं न विरोधः । यतो- ऽन्नद्रव्यप्रकृतिरक्तशाल्यादेस्तथा पेयादेस्तद्विकारस्य च पृथगुक्तं गुणयोरिवात्रापि बलाबलनिरूपणं विरोधे सति चिन्तनीयम् । उभयानुगुणतया तु गुणस्योत्कर्ष एव भवतीति प्रतिपादि- तम् ॥ १९ ॥ इदानीं नदीनां गम्यदेशविशेषात् तथा वेगावेगाभ्यां गुण- दोषानाह पश्चिमेति । अतोऽन्येति पूर्वसमुद्रगास्तथा मृदु- वहास्तथा कलुषोदकाश्चेत्यर्थः । विपरीता इत्यपथ्या इत्यर्थः ॥२०॥

[Header] द्रव्यगुणाः। ८१

उपलास्फालनाक्षेपविच्छेदैः खेदितोदकाः । हिमवन्मलयोद्भूताः पथ्यास्ता एव च स्थिराः ॥ क्रिमीपदहत्कण्ठशिरोरोगान् प्रकुर्वते ॥२१॥ पारियात्रभवा याश्च विन्ध्यसह्यभवाश्च याः । शिरोहृद्रोगकुष्ठानां ता हेतुः श्लीपदस्य च ॥२२॥ रक्षोघ्नं शीतलं ह्लादि ज्वरदाहविषापहम् । चन्द्रकान्तोद्भवं वारि पित्तघ्नं विमलं स्मृतम् ॥२३॥ दिवाककिरणैर्जुष्टं जुष्टमिन्दुकरैर्निशि ।

इदानीं नदीनां प्रभवस्थानविशेषेणापि गुणविशेषमाह उपलेति। खेदितं जातक्षोभम् । उपलेत्यादिविशेषणेन हिम- वन्मलयाधित्यकाभवानामेव पथ्यत्वमिति बोधयति। तेन सुश्रुते हिमवन्मलयप्रभवाणामपथ्यत्वमुक्तं यत्तदुपत्यकाभवनद्यभिप्राये- णेति चरकेण समं न विरोध इत्याहुः ॥ २१ ॥ अत्र पारियात्रदरीभवनदीजलाभिप्रायेण हृद्रोगादिकार- णत्वमुक्तम् । सुश्रुते तु पारियात्रतड़ागोद्भावनदीबलादिकष्टं- तयोक्तेति न विरोधः । तदुक्तं विश्वामित्रेण । तड़ागजं दरोजञ्च तड़ागाद्यत् सरिज्जलम् । बलारोग्यकरं तद्धि दरोजं दोषलं मतमिति ॥ २२ ॥ चन्द्रकान्तमणिप्रभवजलगुणमाह रक्षोघ्नमिति । इदन्तु चन्द्रकिरणानुप्रवेशान्नाभसं मणिप्रभावाच्च भौममित्युभयात्मक- मिति डल्लनः ॥ २३ ॥ भौमजलानामप्यर्कसोमसंस्कारजगुणविशेषं दर्शयन्नाह दिवेति। अत्रार्थलभ्यमपि दिवानिशिपदं समस्तवारात्रि-

८२ द्रव्यगुणः । अरूक्षमभिष्यन्दि तत्तुल्यं गगनाम्बुना ॥ २४ ॥ नारिकेलोदकं वृष्यं स्वादु स्निग्धं हिमं गुरु । हृद्यं पित्तपिपासाघ्नं दीपनं वस्तिशोधनम् ॥ २५ ॥ नारीकेलजलं जीर्णं गुरु विष्टम्भि पित्तकृत् ॥ २६ ॥ बालक्रमुकतोयन्तु तृष्णापित्तास्रजिद्गुरु ॥ २७ ॥ तालाम्बु पित्तजिच्छुक्रस्तन्यवृद्धिकरं गुरु ॥ २८ ॥ मूर्च्छापित्तोष्णदाहेषु विषे रक्ते मदात्यये । श्रमक्लमपरीतेषु तमके वमथौ तथा ॥ व्याष्ट्यर्थम् । चन्द्रशब्दो हि हिमाधारतया नैशहिमोपलक्षकः । अन्यथा पौर्णमास्यामेव परं सम्पूर्णां निशां व्याप्य चन्द्रांशु- योगः स्यात् । अरूक्षमिति चन्द्रकरसंस्पर्शात् । अनभिष्य- न्दीति अर्ककरसंस्पर्शात् । अत्र निषेधमुखेन प्रणयनं स्नेह- रौक्ष्ययोरतिशैत्योष्णयोरिव दोषवत्त्वसूचनार्थम् । तत्तुल्यं गग- नाम्बुनेति एतेन गगनजलालाभे तत्कार्ये तदेवोपयुज्यत इति दर्शयति ॥ २४ ॥ नारिकेलोदकगुणमाह नारिकेलेति । नारिकेलोदकमिति ईषत्पक्वनारिकेलमिति जेज्जडः। पित्तपिपासाघ्नमिति पित्त- जनितपिपासाघ्नं तेनामजादिपिपासाहरं न भवतीति चक्रः । जेज्जड़स्तु गुर्वित्यत्र लध्विति पठति । तत्तु मधुरे वृष्ये स्निग्धे च अनुपपन्नम् । प्रभावात्तद्वर्णनं नागमान्तरसाधितमिति चक्रः ॥ २५ ॥ इदानीं शैत्यस्य प्रशस्तत्वेन तद्विषयं सापवादमाह मूर्च्छेति । उष्ण आतपस्तदुपलक्षितो ग्रीष्मः शरच्चेति चन्द्रिका । आत-

ऊर्ध्वगे रक्तपित्ते तु शीतमम्भः प्रशस्यते ॥ २६ ॥ पार्श्वशूले प्रतिश्याये वातरोगे गलग्रहे । आध्माने स्तिमिते कोष्ठे सद्यःशुद्धे नवज्वरे ॥ हिक्कायां स्नेहपीते च शीताम्बु परिवर्जयेत् ॥ ३० ॥ उष्णोदकं सदा पथ्यं कासश्वासज्वरापहम् । कफवातामदोषघ्नं दीपनं वस्तिशोधनम् ॥ ३१ ॥ पजनितदाह इति चक्रः। तमके श्वासविशेषे मोह इति वा ॥ २६ ॥ कुत्र पुनस्तन्नोपयुज्यत इत्याह पार्श्वशूल इति । स्तिमिते कोष्ठे आमकोष्ठ इति गयदासः । सद्यः शुद्ध इति सद्यः कृत- शोधने । सद्यःशब्दोऽयं तस्मिन्नेव शोधनक्रियाव्याप्तेऽह्नि निवृ- त्तत इत्येके । अन्ये सद्यःशब्दोऽयं सप्तरात्रे वैद्यकव्यवहारा- द्बोध्यः । यथा सद्यः प्राणहराणि सप्तरात्राभ्यन्तरे मारयन्ती- त्याहुः । एषु शीताम्बुनिषेधादुष्णजलस्य विधिरित्यर्थलब्धमेव सविशेषणे इत्यादि न्यायात् ॥ ३० ॥ तस्यैवोष्णोदकस्य गुणमाह उष्णोदकमिति । यद्यप्यौष्ण्यं जलस्य स्पर्शदोष इति सुश्रुते नोक्तं तथापि अवस्थायां व्याधि- विशेषहरत्वेनोपादेयमपीति केचित् । वस्तुतस्तु भूबाष्पजनि- तौष्ण्यमेव स्पर्शदोषत्वेन तत्रोक्तं इदन्तु अग्न्यातपकृतमिति न विरोधः । पथ्याः स्रोतसां हितं पथ्यं स्रोतः शुद्धिकरमित्यर्थः । वस्तिशोधनमिति वस्तिशब्देन तात्स्थ्यान्मूत्रमुच्यत इत्यरुणः । यद्वा यथा यथा सलिलस्याग्निगुणसंयोगप्रकर्षस्तथा तथा कफा- दिहरत्वप्रकर्षोऽपि बोध्यः । उष्णोदकन्तु तन्त्रान्तरप्रसिद्धया साधनीयम् । तदुक्तमग्निवेशतन्त्रे ।

८४ द्रव्यगुणः । शृतशीतं त्रिदोषघ्नं यदन्तर्वाष्पशीतलम् । शीतीकृतन्तु विष्टम्भि दुर्जरं पवनाहतम् ॥ ३२ ॥ न तत् पर्युषितं देयं कदाचिदपि जानता । व्यम्लीभवेत् पर्युषितं कफक्लेदि पिपासवे ॥ ३३ ॥ शृतं तोयं दिवा रात्रौ गुरु रात्रिश्रुतं दिवा ॥ ३४ ॥ क्वाथ्यमानन्तु यत्तोयं निष्फेनं निर्मलीकृतम् । भवत्यर्द्धावशिष्टन्तु तदुष्णोदकमिष्यते ॥ ३१ ॥ शृतशीतजलगुणमाह शृतशीतमिति । अन्तर्वाष्पं सत् कालप्रतीक्षया शीतलमित्यर्थः । पवनाहतं पवनेन शीतीकृत- मिति भावः ॥ ३२ ॥ तदिति शृतशीतलं जलम् । अत्र देशादिभेदेन कथन- प्रकर्षापकर्षावपि बोध्यौ यदाह वृद्धवाग्भटः । क्षीणपादत्रिभागाद्धं देशर्त्तु गुरुलाघवात् । धन्वसाधारणानूपेषु देशेषु तथा शीतोष्णवर्षोपलक्षिते च ऋतुत्रये यथाक्रमं क्षयितचतुर्भागत्रिभागाद्धं सलिलमुपयोज्य- मित्यर्थः । अत्रैवार्थे माधवकरस्तन्त्रान्तरमन्यादृशं लिखति तद्यथा शारदं सार्द्धपादोनं पादहीनन्तु हैमनम् । शिशिरे च वसन्ते च ग्रीष्मे चार्द्धावशेषितम् ॥ अष्टभागावशिष्टन्तु कारयेत् प्रावृषं जलम् । तदुभयमपि प्रमाणं स्मृतिद्वैविध्यवत् ॥ ३३ ॥ अस्यैव शृतजलस्य विशेषान्तरमाह शृतमिति । दिवा शृतं तोयं रात्रौ गुरु भवति । रात्रिश्रुतन्तु दिवा गुरु भवती- त्यर्थः ॥ ३४ ॥

द्रव्यगुणः। ८५ भौमानाम्भसां प्रातः सर्वेषां ग्रहणं मतम्। तदा हि शैत्यं नैर्मल्यं तौ चापां परमौ गुणौ ॥ ३५ आन्तरीक्षन्तु वर्षासु कौपमौद्भिदमेव च। अगस्त्योदयनैर्मल्यात् सर्वं शरदि शस्यते ॥ सरस्तड़ागसम्भूतं हेमन्ते जलमिष्यते। कौपचौण्डे वसन्ते तु ग्रीष्मे प्रास्रवणौद्भिदे ॥ कौपं प्रावृषि सर्वं वा संस्कृतं वारि चेष्यते ॥ ३६ ॥ हठशैवलपङ्कादिसञ्छन्नं दोषलञ्च तत्। इदानीं भौमानां जलानां ग्रहणकालमाह भौमाना- मिति ॥ ३५ ॥ इदानीं कालविशेषे जलविशेषोपयोगमाह आन्तरीक्ष- मिति ॥ ३६ ॥ ननु वर्षासु आन्तरीक्षमिति यदुक्तं तन्नोपपद्यते जतूकर्णि- दिविरोधात्। तथा हि वर्षासु चरन्ति घनैः महोरगा वियति कीटलूताश्च। तद्विषजुष्टमपेयं खजलमगस्त्योदयात् पूर्वम् ॥ इत्यनेन खजलस्य वर्षासु निषेधात्। अन्यत्राप्युक्तम्। वलाहकाद्याः सविषाः कीटलूताश्च खेचराः। तद्विषोत्सर्गसंसर्गादग्राह्यं तत्तदा जलम् ॥ इति। अत्र केचित् वर्षाशब्दो वर्षान्ते आश्वयुजे वर्त्तते तेनाश्विने गृहीतस्यान्तरीक्षस्यैव तत्रोपयोगः। भाद्रे तु आन्त- रीक्षजलानुकारिणो भौमजलस्य कौपौद्भिदयोर्वा उपयोग इति न विरोध इत्याहुः। तन्न। आश्विने अगस्त्योदयेन सर्वजल- स्यैव प्रसन्नत्वादिति प्रतिनियमानुपपत्तेः। किञ्च माहेन्द्रं तप्त- ८

८६ द्रव्यगुणः। वाय्वर्ककिरणास्पृष्टं न पेयं साधनावृते ॥ ३७ ॥ श्रौतं वा कौपं सारसमेव वेत्यनेन चरके श्रावणभाद्ररूपवर्षा- स्वेव माहेन्द्रजलोपयोग उक्तः। न च तत्रापि भाद्राश्विनौ वर्षा इति वक्तुं शक्यते। तस्याशितीयोक्तर्त्तुक्रमानुसारेणैव ऋतु- चर्य्याभिधानस्य तत्रोपक्रान्तत्वात्। अन्यथा प्रकरणविरोधः स्यात्। अन्ये तु ऋत्वन्तरगृहीतमान्तरीक्षं जलं वर्षासु पेय- मित्याहुः। अस्मद्गुरुचरणास्तु द्विविधं हि आन्तरीक्षं लूतादि- सम्बद्धासम्बद्धञ्च। तत्राद्यं सदोषं तत्परमेव जतूकर्णवचनमव- गन्तव्यम्। द्वितीयन्तु निर्दोषं न च वर्षासु सर्पादिविषसहित- मेव जलं मेघा वर्षन्तीत्यागमोऽस्ति। एतदभिप्रायेणैव सुश्रु- तादौ गाङ्गसामुद्रव्यवस्था। तेन वर्षास्वेव यदा सविषप्राण्यादि- सम्बन्धो भवति तदा सदोषं सामुद्रशब्दाभिधेयम्। अन्यथा तु निर्दोषं गाङ्गशब्दाभिधेयम्। तद्वर्षास्वपि ग्राह्यमेव अतएव गाङ्गसामुद्रपरीक्षापि तत्रोपपन्ना। अन्यथा वर्षाव्यतिरिक्त- काले लूतादिसम्बन्धस्य कालमहिम्नैवापगतत्वेन परीक्षाया अकिञ्चित्करत्वादित्याहुः। प्रपञ्चितमेतच्चरकतत्त्वदीपिकाया- मेव अस्माभिरिति नेह प्रतन्यते। अगस्त्योदयनैर्मल्यात् सर्वं शरदि शस्यते। इत्यत्र शरच्छब्देनाश्विनस्याप्युपग्रहो बोध्यः। चरके तस्याशितीये अन्यत्रापि आश्विनकार्त्तिकरूपशरद्येव सर्व- जलप्रसादस्योक्तत्वात्। नैर्मल्यहेतोरगस्त्योदयस्य तत्रापि विद्य- मानत्वाच्च। किंवा माघादिमासद्वयात्मकत्तुक्रमानुसारेण वर्षा- दयोऽत्र बोध्याः। तथा सति शरच्छब्देनाश्विनकार्त्तिकयोरेव ग्रहणम्। अस्मिंस्तु पक्षे हेमन्तविधानेन हेमन्ततुल्यतया शि- शिराभिधानं समाधेयम्। यदुक्तम्

द्रव्यगुणाः। ८७ अरोचके प्रतिश्याये प्रसेके श्वयथौ क्षये । मन्दाग्नावुदरे कुष्ठे ज्वरे नेवामये तथा ॥ व्रणे च मधुमेहे च पानीयं मन्दमाचरेत् ॥ ३८ ॥ इति पानीयवर्गः । ——— हेमन्तशिशिरे तुल्ये शिशिरेऽल्पविशेषणम् । तस्माद्धैमन्तिकः सर्व्वः शिशिरे विधिरिष्यते ॥ इति। तथा कौपं प्रावृषीत्यत्र प्रावृट्शब्देन वर्षाप्रथम- कालः श्रावणप्रथमरूपो बोध्यः। सरस्तड़ागैत्यादि हेमन्ते सारसं कषायलघुत्वात्। ताड़ागञ्च कषायतया कटुपाकितया च चीयमानकफहरम्। तथा वसन्ते कौपं सक्षारत्वात् चौण्डं रूक्षत्वाच्च कफहरं युज्यते। ग्रीष्मे प्रास्रवणं पथ्यत्वात् शैत्याच्च। औद्भिदं मधुरत्वाच्च पित्तशमनं युक्तम्। कौपं प्रावृषीति तदा- काशजलेनानतिजुष्टत्वात्। सर्व्वं वा संहृतमिति सर्व्वस्यैवाति- वर्षणेन दुष्टत्वात्। संस्कारः क्वथनरूपः कार्य्य इत्यर्थः ॥ ३७ ॥ यादृशं जलं नोपयुज्यते तदाह इठेत्यादि। इठकुम्भिका पाङ्गा इति ख्यातः। दोषलमिति स्पर्शादिदोषयुक्तम्। तदुक्तं जलस्य स्पर्शरूपरसगन्धवीर्य्यविपाकदोषाः षड्भवन्ति। तत्र खरता पैच्छिल्यमौष्ण्यं दन्तग्राहिता च स्पर्शदोषाः। पङ्क- सिकता शैवालवर्णता रूपदोषाः। व्यक्तरसता रसदोषः। अनि- ष्टगन्धता गन्धदोषः। यदुपयुक्तं तृष्णागौरवशूलकफप्रसेका- नापादयति स वीर्य्यदोषः। यदुपयुक्तं चिराद्विपच्यते विष्टम्भयति च स विपाकदोष इति। साधनाहृत इति साधनं संस्कारः संस्कारश्चाग्निक्कथनसूर्य्यतापादिभिः सुश्रुतोक्तैः कार्य्यः ॥ ३७ ॥

३. तृतीय वर्ग: कर्पूरादि एवं चन्दनादि वर्ग (कर्पूर, चन्दन, उशीर, कुङ्कुम)

८८ द्रव्यगुणाः। क्षीरमष्टविधं गव्यमाजमौरभमाहिषे । कारेणवमथौष्ट्रञ्च वाड़वं मानुषं तथा ॥ १ ॥ क्षीरं स्वादुरसं स्निग्धमोजस्यं धातुवर्द्धनम् । वातपित्तहरं वृष्यं श्लेष्मलं गुरु शीतलम् ॥ २ ॥ गोक्षीरमनभिष्यन्दि स्निग्धं स्वादु रसायनम् । रक्तपित्तहरं शीतं मधुरं रसपाकयोः ॥ जीवनीयं तथा वातपित्तघ्नं परमं मतम् ॥ ३ ॥ यत्र यत्र जलस्यातियोगो न कार्य्यस्तदाह अरोचक इ- त्यादि । मन्दमतिस्तोकम् ॥ ३८ ॥ इति पानीयवर्गः । ———— पयःक्षीरसंज्ञासामान्यात् पय इव जीवनत्वादिगुणयोगाच्च तोयवर्गानन्तरं क्षीरवर्गः प्रस्तूयते । तत्र गव्यस्य प्रधानत्वात् तत्पूर्वमष्टविधं क्षीरं निर्द्दिशति क्षीरमिति । यद्यपि खङ्गि- मृगादीनामपि क्षीरमस्ति तथापि तस्यानुपयोगादिहानभि- धानम् । तन्लेष्वप्यष्टावेव क्षीराख्युक्तानि ॥ १ ॥ तत्र क्षीरसामान्यगुणमाह क्षीरमिति । धातुवर्द्धनत्वेन वृष्यत्वे सिद्धे वृष्यमिति वचनं अतिशयेन शुक्रजनकत्वं बोध- यति ॥ २ ॥ सामान्यगुणमभिधाय गव्यादिविशेषगुणमाह गोक्षीर- मिति । अनभिष्यन्दीति । नञ् ईषदर्थे । सुश्रुते अल्पाभिष्य- न्दीति वचनात् । अभिष्यन्दित्वञ्च दोषधातुमलस्रोतसां क्लेद- जनकत्वम् । रक्तपित्तहरत्वमवस्थाविशेषे ज्ञेयम् ॥ ३ ॥

द्रव्यगुणः । ८८ छागं कषायमधुरं शीतं ग्राहि पयो लघु । रक्तपित्तातिसारघ्नं क्षयकासगरापहम् ॥ अजानामल्पकायत्वात् कटुतिक्तानिषेवणात् । नात्यम्बुपानाद् व्यायामात् सर्वव्याधिहरं पयः॥४॥ मेषीक्षीरं गुरु स्वादु स्निग्धोष्णं कफपित्तकृत् । शुद्धेऽनिले भवेत् पथ्यं सेके चानिलशोणिते ॥५॥ महिषीणां गुरुतरं गव्याच्छीततरं पयः । स्नेहादूनमनिद्राणामत्यग्नीनां हितञ्च तत् ॥६॥ सर्व्वव्याधिहरमिति। सर्व्वदोषहरं कारणे कार्य्योपचारात् व्याधिशब्दो दोषे वर्त्तते । अतएव चरकेणोक्तम् । समानो हि रोगशब्दो दोषेषु व्याधिषु च वर्त्तते । किंवा सर्व्वशब्दो विपुल- वचनः ॥ ४ ॥ उष्णमिति। सामान्योक्तक्षीरशीतगुणापवादरूपम्। एव- मन्यत्राप्येवंजातीये व्याख्येयम् । कफपित्तकृदिति । कफपित्त- करम् । पित्तश्लेष्मलमाविकमिति चरकवचनात् । शुद्धेऽनिले इति। दोषान्तरेणासम्पृक्ते अनावृते च । अनिलशोणिते शोणि- तावृतवाते सेके परिषेकनिमित्तं हितमित्यर्थः ॥ ५ ॥ महिषीक्षीरं गव्यात् क्षीरात् गव्यक्षीरमपेक्ष्य गुरुतरमति- शयेन गुरु तथा शीततरञ्च स्नेहात् पुनरूनं हीनमित्यर्थः। इदं पुनरसङ्गतं प्रत्यक्षविरोधात् । प्रत्यक्षमेव महिषीक्षीरादधि- कमिव घृतं दृश्यते तथा जतूकूर्णेऽप्युक्तम् । गुरु शीतस्निग्धतरं माहिषमतिबल्यंबृंहणञ्चाग्न्यामिति । सुश्रुतेऽप्युक्तं पद्यते स्निग्धतरमिति । तस्मादत्र गव्यस्नेहादूनमिति योज्यम् । तेन

६० द्रव्यगुणः। हस्तिनीनां पयो बल्यं गुरु स्थैर्य्यकरं वरम्। ईषद्रूक्षोष्णलवणमौष्ट्रकं दीपनं लघु ॥ शस्तं वातकफानाहक्रिमिशोफोदरार्शसाम् ॥७॥ उष्णमैकशफं बल्यं शाखावातहरं पयः। ईषदम्लं स्वादु रूक्षं लवणानुरसं लघु ॥ ८ ॥ नार्य्यास्तु मधुरं स्तन्यं कषायानुरसं हिमम्। नस्याश्च्योतनयोः पथ्यं जीवनं लघु दीपनम् ॥६॥ क्षीरसन्तानिका वृष्या स्निग्धा पित्तानिलापहा १० पयोऽभिष्यन्दि गुर्वामं प्रायशः परिकीर्त्तितम्। तदेवोक्तं लघुतरमनभिष्यन्दि वै शृतम् ॥ ११ ॥ महिषीक्षीरं गव्यस्नेहादूनं हीनम्। गव्यक्षीरात् पुनः स्नेहा- धिकमेवेत्यर्थ इति चन्द्रिका। अन्ये तु स्नेहान्यूनमिति पठित्वा स्नेहाधिकमित्यर्थं कुर्व्वन्ति ॥ ६ ॥ एकः शफः खुरो यासां ता एकशफाः। अत्राश्वाया इति वक्तव्ये यदैकशफमिति सामान्यशब्दप्रयोगं करोति तद्बेगसरी- प्रभृतीनामप्येकशफानां क्षीरग्रहणार्थम्। शाखावातहरमि- त्यत्र केचित् शाखाशब्देन बाहुसक्थ्यौ चाहुः। अन्ये तु वक्रादीनाहुः। धान्याम्लस्येवोभयत्राधारशक्तिप्रभावेण परस्पर- विरुद्धकार्य्यद्वयं भवति। तद्यथा वह्निरन्तः पित्तहरकरत्वम्। एवं शाखागतवातहरत्वम्। कुक्षिगतवातकरत्वञ्चास्याधारशक्ति- प्रभावेण मन्तव्यमित्याहुः ॥ ८ ॥ आश्च्योतनमक्षिपूरणम् ॥ ६ ॥ क्षीरसन्तानिका दुग्धसरः ॥ १० ॥

[Header] द्रव्यगुणः। ६१

वर्जयित्वा स्त्रियाः स्तन्यमाममेव हि तद्धितम् ॥१२ धारोष्णं गुणवत् क्षीरं विपरीतमतोऽन्यथा ॥१३॥ तदेवातिशृतं सर्वं गुरु बृंहणमुच्यते ॥ १४ ॥ अनिष्टगन्धमम्लञ्च विवर्णं विरसञ्च यत् । वर्ज्यं सलवणं क्षीरं यच्च विग्रथितं भवेत् ॥१५॥ दध्यम्लं मधुरं ग्राहि गुरुष्णं वातनाशनम् । मेदःशुक्रबलश्लेष्मपित्तरक्ताग्निशोफकृत् ॥ असंस्कृतस्य तथा संस्कृतस्य क्षीरस्य क्रमेण गुणमाह पय इत्यादि । आममित्यशृतम् ॥ ११ ॥ स्त्रीस्तन्यस्य पुनः शृतत्वं दोषायेत्याह वर्जयित्वेति ॥ १२ ॥ सर्वक्षीराणामेव दोहकालधारापातोष्णानां गुणमाह । धा- रोष्णमिति सद्योदोहधारासम्बन्धोष्णतायुक्तम् । गुणवदिति प्रशस्तरसायनत्वगुणयुक्तम् । यदुक्तं भोजे । पयोऽभिष्यन्दि गुर्वामं शृतोष्णं कफवातजित् । शृतशीतन्तु पित्तघ्नं सद्यो दुग्धं रसायनम् ॥ इति । विपरीतमतोऽन्येति न तथा प्रशस्तगुणम् ॥ १३ ॥ अतिशृतमित्यतिपाकेन घनीभूतम् ॥ १४ ॥ क्षीरस्यैवावस्थाविशेषेण वर्जनीयतामाह अनिष्टगन्धमिति । अम्लत्वं सलवणत्वञ्चैव विदाहात् । गवादीनामत्यर्थलवणसेव- नाद्वा सलवणम् । विग्रथितमिति अम्लादियोगेन विग्रथित- तामापन्नम् ॥ १५ ॥ क्षीरमनु क्षीरकार्य्यतया तद्विकारेऽभिधातव्ये मङ्गल्यतया प्रथमं दधिगुणमाह दधीति । अत्राम्लमधुरत्वेन सुजातत्वं लक्षयति। मन्दजातस्यास्य अनम्ल-

६२ द्रव्यगुणः । रोचिष्णु शस्तमरुचौ शीतके विषमज्वरे ॥ पीनसे मूत्रकृच्छ्रे च रूक्षन्तु ग्रहणीगदे ॥ १६ ॥ गव्यं दधि च मङ्गल्यं वातघ्नं शुचि रोचकम् । स्निग्धं विपाके मधुरं दीपनं बलवर्द्धनम् ॥१७॥ दध्याजं कफपित्तघ्नं लघु वातक्षयापहम् । दुर्नामश्वासकासेषु हितमग्नेश्च दीपनम् ॥ विपाके मधुरं वृष्यं रक्तपित्तप्रसादनम् । बलाश्ववर्द्धनं स्निग्धं विशेषाद्दधि माहिषम् ॥१८॥ त्वात् सुजातकालात्यये चात्यम्लत्वात् अत्राम्लत्वोष्णत्वस्निग्ध- त्वाल्लभ्यमानमपि वातनाशनत्वं यत् पुनरुच्यते तत् प्रकर्षार्थम् । तथाम्लत्वादियुक्तस्यापि वातहन्तृत्वादिव्यभिचारदर्शनाच्चेति ज्ञेयम् । व्यभिचारोदाहरणानि मन्दकामन्दजातमद्यादीन्यनु- सर्त्तव्यानि । न्यायश्चायमेवंजातीये सर्वत्रैव बोध्यः । अरुचौ शस्तमित्युक्तापि रोचिष्णु इति वचनम् अरोचकहरस्यापि तिक्तरसस्य रोचिष्णुत्वं व्यभिचारदर्शनाज्ज्ञेयम् । शीतक इति विषमज्वरविशेषणम् । पीनस इति चतुर्विधपीनसे प्रभावात् हितम् । किंवा पीनसपाचकत्वात् सर्वत्र हितम् । अन्ये तु पीनसे शस्तमिति यद्यपि सामान्यत एवोक्तम् तथापि योग्यतया वातिकपीनसे एव शस्तमित्याहुः । रूक्षमुद्धृतसारं पुनर्ग्रहणी- गदे हितमिति योज्यम् ॥ १६ ॥ सामान्यगुणमभिधाय विशेषगुणमाह गव्यमिति । मङ्ग- ल्यत्वमिह प्रभावात् ॥ १७ ॥ अत्र विशेषादिति पदं स्निग्धमित्यनेन बलाश्र्ववर्द्धनमित्य- नेन च सम्बध्यते ॥ १८ ॥