द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 85, कुल 176 में से
संदर्भ में पढ़ेंद्रव्यगुणाः। ७० येनाभिवृष्टममलं शाल्यन्नं राजतस्थितम् । अक्लिन्नमविवर्णं वा तत् पेयं गाङ्गमन्यथा । तत् पतत् पतितञ्चैव देशकालावपेक्षते ॥ इति। सत्यं तत्राप्यान्तरिक्षजलस्य धूलोमलविषलूतादि- सम्बन्धात् सदोषत्वे तदसम्बन्धाच्च निर्दोषत्वमिति द्वैविध्यमुक्त- युक्तरेव। अतोऽत्रापि सामुद्रगाङ्गशब्दयोः सदोषनिर्दोष- त्वमात्रमर्थः। न पुनः समुद्रादुद्धृतं सामुद्रम् गङ्गाया उद्धृतं मेघैर्गाङ्गमित्यर्थः। तथा सति गङ्गावदपरनदीप्रभृतिभेदादपि भेदकल्पनापत्तेः। अत्र गङ्गाशब्दो नदोप्रभृतीनां समुद्र- व्यतिरिक्तजलाशयानामुपलक्षक इत्युच्यते। तथापि चरकेण समं विरोधो दुष्परिहर एव। किञ्च यदि समुद्रादुद्धृतं सामु- द्रमित्येवार्थः तदा तस्य त्रिदोषकारित्वात् सामुद्रं तन्न पातव्यं मासादाश्वयुजादिनेत्यनेनाश्वयुजेऽपि ग्रहणं वक्ष्यमाणं नोपपद्यते। न च कालविशेषो जलान्तरवत् समुद्रजल- मपि निर्दोषीकर्त्तुं प्रभवति तस्मात् प्रथमैव व्याख्या युक्ता। यत् पुनः सामुद्रमप्याश्वयुजे गाङ्गवद्भवतीति सुश्रुतवचनम् तदा- श्वयुजे आन्तरिक्षस्य निर्दोषतापरम् तदा हि सतोऽपि लूतादि- दोषसम्बन्धस्य अगस्त्येन हननात्। कालमहिम्ना च बाधित- त्वात्। तदुक्तं जतूकर्णे वर्षासु चरन्ति घनैः सहोरगा वियति कीटलूताश्च । तद्विषजुष्टमपेयं खजलमगस्त्योदयात् पूर्वमिति ॥ २ ॥ गाङ्गसामुद्रयोर्भेदेन ज्ञानोपायमाह येनेति। येनाम्बुना अभिवृष्टमाभिमुख्यतः सिक्तं शाल्यन्नं रजतपात्रस्थितमक्लिन्न- मविवर्णञ्च भवति तद्गाङ्गं जलमिति ज्ञात्वा पेयंम् उपयोज्य- मित्यर्थः। तेन स्नानावगाहयोरपि ग्रहणम्। अन्यथा एतल्ल-