भारतकोश
द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs

पं. जीवनानन्द विद्यासागर द्वारा

DevanagariHindipublished176 पृष्ठ

पृष्ठ 84, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 84

७६ द्रव्यगुणः। बिल्वादप्यत्र तज्ज्ञेयमामं तद्धि गुणोत्तरम् ॥५७॥ व्याधितं क्रिमिजुष्टञ्च पाकातीतमकालजम् । वर्जनीयं फलं सर्वमपर्य्यागतमेव च ॥ ५८ ॥ इति फलवर्गः । धारं कारन्तु तौषारं हैमं खाम्बु चतुर्विधम् ॥१॥ धारन्वच द्विधा प्रोक्तं गाङ्गं सामुद्रमेव च ॥ २ ॥ बिल्वादप्यत्रेति बिल्वमेव परमपक्वं श्रेष्ठम्। गुणोत्तरमिति गुणतः श्रेष्ठम् ॥ ५७ ॥ यादृशं फलमनुपादेयं तदाह व्याधितमिति ॥ पाकातीत- मिति अतीतपाककालम् अतिपाके क्लिन्नमित्यर्थः । अकालज- मनुचितकालसम्भूतम् । अपर्य्यागतमपरिणतम् ॥ ५८ ॥ इति फलवर्गः । पूर्व्वमन्नमुक्तं तदुपकरणानि च मांसशाकफलान्युक्तानि इदानीं पानं वक्तव्यम्। पानेषु पानीयस्य प्राधान्यात् प्रथमं तद्गुणा वाच्याः । तत्रान्तरीक्षजलस्य सर्वजलश्रेष्ठत्वात् तद्भेदमाह धारमिति । धाराभवं धारमैन्द्रमित्यर्थः । करकापर्य्यायः कर- शब्दः तद्भवं कारम् । तौषारं शिशिरभवम् । हैमं संहतिभूत- हिमभवम् । चरके तु हिमतुषारयोरभेदात् त्रिविधमेवोक्तम् ॥ १ ॥ तत्र धारभेदमाह धारमिति। ननु चरके धाराख्यमान्तरी- क्षजलमेकविधमेवोक्तं यथा जलमेकविधं सर्वं पतत्यैन्द्रं नभस्तलात् ।

द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश) · पृष्ठ 84, कुल 176 में से · BharatKosha