द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 84, कुल 176 में से
संदर्भ में पढ़ें७६ द्रव्यगुणः। बिल्वादप्यत्र तज्ज्ञेयमामं तद्धि गुणोत्तरम् ॥५७॥ व्याधितं क्रिमिजुष्टञ्च पाकातीतमकालजम् । वर्जनीयं फलं सर्वमपर्य्यागतमेव च ॥ ५८ ॥ इति फलवर्गः । धारं कारन्तु तौषारं हैमं खाम्बु चतुर्विधम् ॥१॥ धारन्वच द्विधा प्रोक्तं गाङ्गं सामुद्रमेव च ॥ २ ॥ बिल्वादप्यत्रेति बिल्वमेव परमपक्वं श्रेष्ठम्। गुणोत्तरमिति गुणतः श्रेष्ठम् ॥ ५७ ॥ यादृशं फलमनुपादेयं तदाह व्याधितमिति ॥ पाकातीत- मिति अतीतपाककालम् अतिपाके क्लिन्नमित्यर्थः । अकालज- मनुचितकालसम्भूतम् । अपर्य्यागतमपरिणतम् ॥ ५८ ॥ इति फलवर्गः । पूर्व्वमन्नमुक्तं तदुपकरणानि च मांसशाकफलान्युक्तानि इदानीं पानं वक्तव्यम्। पानेषु पानीयस्य प्राधान्यात् प्रथमं तद्गुणा वाच्याः । तत्रान्तरीक्षजलस्य सर्वजलश्रेष्ठत्वात् तद्भेदमाह धारमिति । धाराभवं धारमैन्द्रमित्यर्थः । करकापर्य्यायः कर- शब्दः तद्भवं कारम् । तौषारं शिशिरभवम् । हैमं संहतिभूत- हिमभवम् । चरके तु हिमतुषारयोरभेदात् त्रिविधमेवोक्तम् ॥ १ ॥ तत्र धारभेदमाह धारमिति। ननु चरके धाराख्यमान्तरी- क्षजलमेकविधमेवोक्तं यथा जलमेकविधं सर्वं पतत्यैन्द्रं नभस्तलात् ।