द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 88, कुल 176 में से
संदर्भ में पढ़ें८० द्रव्यगुणाः । वैकिरं लघु सक्षारं श्लेष्मलं वह्निदीपनम् ॥१५॥ कैदारं पाल्वलं स्वादु विपाके गुरु दोषलम् ॥१६॥ सामुद्रं लवणं विस्रं सर्वदोषप्रकोपणम् ॥ १७ ॥ आनूपं वार्य्यभिष्यन्दि मधुरं पिच्छिलं गुरु । स्निग्धं वह्निहरं सान्द्रं जाङ्गलं वार्य्यतोऽन्यथा ॥१८॥ साधारणं वारि शीतं दीपनं मधुरं लघु ॥१९ ॥ पश्चिमोदधिगाः शीघ्रवहा याश्चामलोदकाः । पथ्याः समस्तास्ता नद्यो विपरीतास्ततोऽन्यथा॥२०॥ औद्भिदं निम्नप्रदेशादूर्द्धमुत्तिष्ठज्जलम् ॥ १४ ॥ विकिरं वालुकादीन् विकीर्य्य गृह्यमाणजलस्थानं तद्भव- वम् ॥ १५ ॥ केदारः प्रसिद्धः । पाल्वलं तृणाद्याच्छन्नमन्दसरः ॥ १६ ॥ नद्याद्याधारवशेन जलधर्मानभिधायानूपादिदेशभवत्वेन पुनर्जलगुणमाह आनूपमिति । मधुरमिति व्यक्तरसत्वेन तद्वि- परीतन्तु अव्यक्तरसत्वेनेत्यर्थः ॥ १८ ॥ यद्यप्यानूपादावपि नद्यादिस्थितस्यैव जलस्यामी गुणा- स्तथापि अनन्तरोक्तनादेयादिगुणेन समं न विरोधः । यतो- ऽन्नद्रव्यप्रकृतिरक्तशाल्यादेस्तथा पेयादेस्तद्विकारस्य च पृथगुक्तं गुणयोरिवात्रापि बलाबलनिरूपणं विरोधे सति चिन्तनीयम् । उभयानुगुणतया तु गुणस्योत्कर्ष एव भवतीति प्रतिपादि- तम् ॥ १९ ॥ इदानीं नदीनां गम्यदेशविशेषात् तथा वेगावेगाभ्यां गुण- दोषानाह पश्चिमेति । अतोऽन्येति पूर्वसमुद्रगास्तथा मृदु- वहास्तथा कलुषोदकाश्चेत्यर्थः । विपरीता इत्यपथ्या इत्यर्थः ॥२०॥