द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 66, कुल 176 में से
संदर्भ में पढ़ें५८ द्रव्यगुणः । वाराहकन्दः श्लेष्मघ्नः कटुको रसपाकतः । मेहकुष्ठक्रिमिहरो बल्यो वृष्यो रसायनः ॥ १३॥ तालस्य नारिकेलस्य खर्जूरस्य शिरांसि च । कषायस्निग्धमधुरबृंहणानि गुरूणि च ॥ १४ ॥ गुवाकस्य शिरस्तद्वद् भेदनं मदकारकम् ॥ १५॥ बालं ह्यनार्त्तवं जीर्णं व्याधितं क्रिमिभक्षितम् । कन्दं विवर्जयेत् सर्वं·यो वा सम्यक् न रोहति ॥ १६॥ शणस्य कोविदारस्य कर्बूदारस्य शाल्मलेः । पुष्पं संग्राहि शस्तञ्च रक्तपित्ते विशेषतः ॥ १७॥ वृषागस्त्यस्य पुष्पाणि क्षयकासापहानि च ॥ १८॥ आगस्त्यं नातिशीतोष्णं नक्तान्धानाञ्च शस्यते ॥ १९॥ राजवृक्षस्य निम्बस्य मुष्ककार्काशनस्य च । कफपित्तहरं पुष्पं कुष्ठघ्नं कुटजस्य च ॥ २० ॥ सतिक्तमधुरं शीतं पद्मं पित्तकफापहम् ॥ २१ ॥ वाराहकन्दो वकालुक इति ख्यातः ॥ १३ ॥ मूलप्रसङ्गेनाग्रगुणमपि केषाञ्चिदाह तालस्येति ॥ १४ ॥ हेयं कन्दमाह बालमिति । न रोहति न जायते ॥ १६ ॥ पुष्पशाकगुणमाह शणस्येति ॥ १७ ॥ आगस्त्यो वङ्गसेनः । तयोर्मध्ये आगस्त्यस्य विशेषगुणमाह आगस्त्यमिति ॥ १८ ॥ राजवृक्षः स्वर्णालुः । निबन्धसंग्रहस्तु रक्तवृक्षस्येति पठि- त्वा रक्तचन्दनस्येति व्याचष्टे । मुष्कको घण्टापारुलौ ॥ २० ॥