गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 101, कुल 286 में से
संदर्भ में पढ़ें३.] गदनिग्रहः । ८३ प्रणोदत्युल्बणानेतानष्टमग्निं च दीपयेत् । समस्तव्यञ्जनोपेतं भक्तं कृत्वा तु भोजने ॥ १३७ ॥ प्रदद्यादस्य चूर्णस्य विडालपदकं भिषक् । ततस्तद्भवतां याति कोष्णत्वं च प्रपद्यते ॥ १३८ ॥ एतदग्निमुखं चूर्णं चूर्णराजो निगद्यते । ब्रह्मणा निर्मितं ह्येतदश्विभ्यां परिकीर्तितम् ॥ १३९ ॥ अग्निमान्द्ये वैश्वानरं चूर्णम् । लवणयवानीदीप्यककणनागरमुत्तरोत्तरं वृद्धम् । सर्वसमांशा पथ्या चूर्णो वैश्वानरः साक्षात् ॥ १४० ॥ गुल्मे द्वितीयं वैश्वानरं चूर्णम् । सैन्धवलवणात्कर्षौ द्वौ च यवान्यास्त्रयोऽजमोदायाः । पिप्पल्याश्चापि पलं पञ्चकर्षाणि शुण्ठ्याश्च ॥१४१ ॥ द्वादश हरीतकीनां चूर्णमिदं कारयेच्छ्लक्ष्णम् । मद्योष्णोदकयूषैः पिबेद्धि तक्रेण सर्पिषा वापि ॥१४२॥ गुल्मे तथा रुजायां पार्श्वोदरबस्तियोनिशूलेषु । वातानुलोमनकरं चूर्णं वैश्वानरं नाम ॥ १४३ ॥ गुल्मे तृतीयं वैश्वानरं चूर्णम् । माणिमन्थस्य भागौ द्वौ यवान्यास्तद्वदेव च । भागास्त्रयोऽजमोदाया नागराद्भागपञ्चकम् ॥ १४४ ॥ दश चैव हरीतक्याः सूक्ष्मचूर्णीकृताः शुभाः । मस्त्वारनालमद्येन सर्पिषोष्णोदकेन वा ॥ १४५ ॥ पीतं जयत्यामवातं गुल्मं हृद्वस्तिजं गदम् । वातानुलोमनं श्रेष्ठं चूर्णं वैश्वानरं स्मृतम् ॥ १४६ ॥ अग्निदीप्त्यर्थे ज्वालामुखं चूर्णम् । हिङ्ग्वम्लवेतसकटुत्रिकचित्रकेभ्यः सक्षारपौष्करफलत्रिकदाडिमेभ्यः ।