गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 104, कुल 286 में से
संदर्भ में पढ़ें४६ आयुर्वेदौयग्रन्थमाला । [चूर्णाधिकारः तमकश्वासे शठ्याद्यं चूर्णम् । शठीचोरकजीवन्तीत्वग्मुस्तापुष्कराह्वयम् । सुरसातामलक्येलापिप्पल्यगरुनागरम् ॥ १६९ ॥ वालकं च समं चूर्णं कृत्वाष्टगुणशर्करम् । सर्वथा तमके श्वासे हिक्कायां च प्रयोजयेत् ॥ १७० ॥ दन्तरोगे तिक्तकं चूर्णम् । मुस्तं त्रिकटुकं पाठां त्वग्बीजं वत्सकस्य च । निम्बं पटोलं कटुकां हरिद्रां धन्वयासकम् ॥ १७१ ॥ जातीप्रवालं भूनिम्बं मधुकं सरसाञ्जनम् । त्रायमाणां गुडूचीं च त्रिफलां चेति चूर्णयेत् ॥ १७२ ॥ चूर्णोऽयं तिक्तको नाम कवलः प्रतिसारिणम् । दन्तमूलास्यगलजाञ्रोगानाशु व्यपोहति ॥ १७३ ॥ दन्तरोगे पीतकं चूर्णम् । पटोलदार्बीमधुकं प्रियङ्गुमतिविषा घनम् । सनागपुष्पं त्रायन्ती भूनिम्बं तिक्तरोहिणी ॥ १७४ ॥ विभीतकं दाडिमत्वग्घरिहालं मनःशिला । समांशानि त्रिभागांशं सशैलेयं रसाञ्जनम् ॥ १७५ ॥ पीतकं चूर्णमेतद्धि मध्वाक्तं प्रतिसारणम् । दन्तमूलगलास्योष्ठजिह्वातालुविकारिणाम् ॥ १७६ ॥ गलरोगे कालकं चूर्णम् । गृहधूमो यवक्षारः पाठा व्योषं रसाञ्जनम् । तेजोह्वा त्रिफला रोध्रं चित्रकं चेति चूर्णयेत् ॥ १७७ ॥ सक्षौद्रं धारयेदेतद्गलरोगविनाशनम् । कालकं नाम चूर्णं तु दन्तास्यगलरोगनुत् ॥ १७८ ॥ मुखरोगे द्वितीयं पीतकं चूर्णम् । मनःशिला यवक्षारो हरितालं ससैन्धवम् । दार्बी त्वगेति तच्चूर्णं माक्षिकेण समायुक्तम् ॥ १७९ ॥