गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 107, कुल 286 में से
संदर्भ में पढ़ेंगदनिग्रहः । ८९ दिने दिने प्रयोक्तव्यं जीर्णे भोज्यं यथेप्सितम् वर्जयित्वा कुलत्थांश्च काकमाचीं कपोतकान् ॥२०३॥ योगराजोऽयमाख्यातो योगोऽयममृतोपमः । रसायनमिदं श्रेष्ठं सर्वरोगहरं शिवम् ॥ २०४ ॥ पाण्डुरोगं विषं कासं यक्ष्माणं विषमज्वरम् । कुष्ठान्यजरकं मेहान् श्वासं हिक्कामरोचकम् । विशेषाद्गन्त्यपस्मारं कामलां गुदजानि च ॥ २०५ ॥ कुष्ठे त्रिफलाद्यं चूर्णम् । त्रिफलातिविषाकटुकानिम्बकलिङ्गवचापटोलानाम् । मागधिकरजनीद्वयपद्मकमार्गीमूर्वाविशालानाम् २०६॥ भूनिम्बपलाशानां दद्याद्विपलं त्रिवृत्त्रिगुणा । तैश्च समाना ब्राह्मी तच्चूर्णं सुसितुत् परम् ॥ २०७ ॥ मन्दाग्नौ व्योषाद्यं चूर्णम् । सव्योषं क्रिमिजित्सपञ्चलवणं साजाजिकं साभयं सक्षारं सहुताशनं सचविकं सग्रन्थिकं सत्रिवृत् । एतच्चूर्णमुदश्विता प्रपिबतोष्णेन वा वारिणा वह्निर्वृद्धिसुपैति सर्वगदजिद्ब्राजिष्णुतामावहेत् ॥२०८॥ पाण्डुरोगे खण्डसमकं चूर्णम् । त्रिफलाव्योषबिल्वाब्दपिप्पलीमूलचित्रकैः । त्वगेलापत्रचविकातिन्तिण्डीकाम्लवेतसैः ॥ २०९ ॥ समांशैर्धातुमाक्षीकं सर्वैस्तुल्यं प्रदापयेत् । लौहचूर्णं समं तैश्च सर्वैः खण्डं समांशकम् ॥ २१० ॥ चूर्णितं मधुना लेह्यं वटकान् वा समाक्षिकान् । भक्षयित्वा यथासात्म्यमनुपानं प्रयोजयेत् ॥ २११ ॥ नाशयेत्कुष्ठमालस्यं प्रमेहोदरकामलाः । पाण्डुरोगं तथा कासं हलीमकशिरोरुजम् ॥ २१२ ॥