गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 108, कुल 286 में से
संदर्भ में पढ़ें९० आयुर्वेदियग्रन्थमाला । [चूर्णाधिकारः प्रसेकमरुचिं मूर्च्छां हृल्लासं मन्दवह्निताम् । रक्तपित्तं परीसर्पं श्वयथुं च नियच्छति ॥ २१३ ॥ शोफे पाठाद्यं चूर्णम् । पाठा सकुष्णा गजपिप्पली च निदिग्धिका नागरचित्रकौ च । सपिप्पलीमूलमजाजीरात्रिमस्तं च चूर्णं सुखतोयपीतम् । हन्यात्रिदोषं चिरजं च शोफं कुष्ठं च चूर्णस्य हि सुप्रयोगात् २१४ कुष्ठे बाकुचिकाद्यं चूर्णम् बाकुची त्रिफला वह्निर्भल्लातं च शतावरी । सिन्दुवारोऽश्वगन्धा च निम्बः पञ्चाङ्गसंयुतः ॥२१५॥ मासैकं भक्षितं हन्ति चूर्णमेषां समांशकम् । सर्वकुष्ठानि वातांश्च रोगिणां नात्र संशयः ॥ २१६ ॥ कुष्ठे पृथुनिम्बपञ्चकं चूर्णम् । काले त्वक्छदसारबीजकुसुमैर्निम्बस्य तुल्यांशकैः कृत्वा चूर्णमदः कटुत्रिकनिशाधात्र्यक्षपथ्यायुतैः । पञ्चारिष्टमिदं पयोमधुघृतैरुष्णाम्बुना वा पुमान् पीत्वा कासगरप्रमेहपिटिकाकुष्ठादिभिर्मुच्यते ॥ २१७॥ कुष्ठे बृहत्पञ्चनिम्बकं चूर्णम् । रसायनं प्रवक्ष्यामि ब्रह्मणाऽमिततेजसा । प्रोक्तं यच्च्यवनादिभिरुपयुक्तं महर्षिभिः ॥ २१८ ॥ पुष्पकाले तु निम्बस्य कुसुमानि समाहरेत् । फलकाले फलं चैव मूलं पत्रं त्वचं तथा ॥ २१९ ॥ चित्रकोऽथ विडङ्गानि व्याधिघातकशक्रजौ । भल्लातकं हरीतक्यः शुण्ठी चामलकैः सह ॥ २२० ॥ श्वदंष्ट्रा लोहचूर्णं च भृङ्गरस्वरसाभावितम् । अरिष्टखदिराभ्यां च भावयेत्पञ्चनिम्बकम् ॥ २२१ ॥ भावयित्वा पुनः पिष्टमेकस्थाने च कारयेत् । ततो विडालपदकं सर्पिषा माक्षिकेण वा ॥ २२२ ॥