गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 109, कुल 286 में से
संदर्भ में पढ़ेंगदनिग्रहः । ९१ सुखाम्बुना वा तत्पीतं तत्क्षणादेव जीर्यति । हन्यात्कुष्ठानि सर्वाणि सप्त चैव महाक्षयान् ॥ २२३ ॥ अर्शांसि वातगुल्मं च खालित्यं पलितानि च । वातरक्तं विशेषेण श्वित्रं कुष्ठं तथैव च ॥ २२४ ॥ कुष्ठनाशनमेतद्धि ब्रह्मणा गदितं पुरा । वातातपसहो ह्येष न चात्र नियमः कचित् ॥ २२५ ॥ ग्राम्यधर्मं च कुर्वाणो भोजनं सार्वकार्मिकम् । मासमात्रोपयोगेन जीवेद्वर्षशतं पुमान् ॥ २२६ ॥ सर्वकामप्रसक्तोऽपि सर्वरोगैः प्रमुच्यते । षण्मासमुपपयोगेन सर्पैरपि न दश्यते ॥ २२७ ॥ वर्षमात्रोपयोगेन जीवेद्वर्षशतत्रयम् । नास्मात्परमस्त्वन्यत्कुष्ठरोगस्य भेषजम् ॥ २२८ ॥ साध्यानि यानि कुष्ठानि तान्येवासुं प्रकुर्वतः । निवर्तन्ते यथा क्रुद्धे सौपर्णे पवनाशिनः ॥ २२९ ॥ मन्दाग्नौ लवणभास्करं चूर्णम् । पिप्पली पिप्पलीमूलं धान्यकं कृष्णजीरकम् । सैन्धवं च बिडं चैव पत्रं तालीसकेसरम् ॥ २३० ॥ एषां द्विपलिकान् भागान् पञ्च सौवर्चलस्य च । सारिवाजाजिशुण्ठीनामेकैकस्य पलं पलम् ॥ २३१ ॥ त्वगेला चार्धभागे च समुद्रात्कुडवद्वयम् । दाडिमात्कुडवं चैकं द्वे पले चाम्लवेतसात् ॥ २३२ ॥ एतच्चूर्णीकृतं श्लक्ष्णं गन्धाढ्यममृतोपमम् । लवणं भास्करं नाम भास्करेण विनिर्मितम् ॥ २३३॥ जगतोऽस्य हितार्थाय वातश्लेष्मामयापहम् । तक्रमस्तुसुराशुक्तसीधुकाञ्जिकयोजितम् ॥ २३४ ॥ जाङ्गलानूपमांसेषु भक्ष्येषु विविधेषु च । मन्दाग्नीनां खादयतां शक्तो भवति पावकः ॥ २३५ ॥