गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 113, कुल 286 में से
संदर्भ में पढ़ेंगदनिग्रहः । ९५ अतिसारे गङ्गाधरं चूर्णम् । अरुलुकघनशुण्ठीधातकीबिल्वरोध्रं कुटजफलसमेतं मोचनिर्यासयुक्तम् । अतिविषजलपाठाः साहकारं च बीजं मसृणमधुविमिश्रं तण्डुलाम्बुप्रपीतम् ॥ २६६ ॥ कफोद्भवं मारुतपित्तसंभवं जयेदतीसाररयं तथाऽऽमजम् । प्रवृद्धगङ्गाधरनाम चूर्णकं तथा हि दोषं ग्रहणीभवं च ॥ २६७ ॥ गुल्मे कटुत्रिकाद्यं चूर्णम् । कटुत्रिकं तिक्तकरोहिणीघनं किराततिक्तोऽथ शतक्रतोर्यवाः । ससप्तपर्णातिविषादुरालभाः पटोलमूलं सह त्रायमाणया ॥ २६८ गडूचीचव्यं सविडङ्गनिम्बकं प्रियङ्गुनीलोत्पलरोध्रमञ्जनम् । सधातकीमोचरसं सुचूर्णितं बुभुक्षितेऽद्यान्मृदुभोजनं हितम् ॥ शशैः सलावैरथवापि तित्तिरीर्निहन्ति गुल्मान् कफपित्तसंभवान्। ज्वरातिसारग्रहणीगदारुचीन् प्रमेहमूत्रक्षयवर्ध्मविद्रधीन् २७० अजीर्णपाण्डुक्षतकासशोफान् सदा प्रयुक्तः सगुडः कटुत्रिकः । स्थौल्ये व्योषाद्यं चूर्णम् । व्योषकट्वीवराशिश्रुविडङ्गातिविषास्थिराः । हिङ्गुसौवर्चलाजाजीयवानीधान्यचित्रकाः ॥ २७१ ॥ निशे बृहत्यौ हपुषा पाठा मूलं च केबुकात् । एतच्चूर्णं मधु घृतं तैलं चापि दशांशकम् ॥ २७२ ॥ शक्तुभिः षोडशगुणैर्युक्तं पीतं निहन्ति तत् । नृणां स्थौल्यादिकान्दोषान् कफमेदोभवांस्तथा ॥२७३॥ हृद्रोगकामलाश्रित्रश्वासकासगलग्रहान् । बुद्धिमेधास्मृतिकरं सन्नस्याग्नेश्च दीपनम् ॥ २७४ ॥ वातकासे विडङ्गाद्यं चूर्णम् । विडङ्गं नागरं द्राक्षा पिप्पली हिङ्गु सैन्धवम् । भार्गी क्षारश्च तच्चूर्णं पिवेद्धि घृतमात्रया ॥ २७५ ॥