गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 114, कुल 286 में से
संदर्भ में पढ़ें९६ आयुर्वेदीयग्रन्थमाला । [ चूर्णाधिकारः सकलेऽनिलजे कासे हिक्कायामनिलार्तिषु । गुल्मे वचाद्यं चूर्णम् । वचा वत्सकबीजं च कुष्ठं चित्रकमेव च ॥ २७६ ॥ पिप्पली शृङ्गवेरं च पाठा कटुकरोहिणी । यवानी च पटोलं च सैन्धवातिविषे तथा ॥ २७७ ॥ हपुषा चाजगन्धा च शठी पौष्करमेव च । एतानि समभागानि सूक्ष्मचूर्णानि कारयेत् ॥ २७८ ॥ ततो बिडालपदकं पिबेदुष्णेन वारिणा । गुल्मान् पञ्च च हृद्रोगान् कुक्षिशूलं च नाशयेत् २७९ पाण्डुरोगे किराततिक्ताद्यं चूर्णम् । किराततिक्तं सुरदारु दार्वी मुस्ता गडूची कटुका पटोलम् । दुरालभा पर्पटकं सनिम्बं फलत्रिकं वह्निकटुत्रिकं च ॥ २८० ॥ विडङ्गसारं च समांशकानि ह्ययोरजोऽर्धेन विचूर्णितानि । खादन्नरः क्षौद्रघृतेन ईपत्स्थिरांश्च घोरानथ पाण्डुरोगान् २८१ आमोद्भवान् वातसमुत्थितांश्च पित्तोद्भवांश्श्लेष्मसमुद्भवांश्च । दुष्टव्रणान्वै कफविद्रधींश्च श्वित्राणि हन्याच्छतशः प्रयोगः २८२ कुष्ठादौ खण्डसमं चूर्णम् । त्रिफलाव्योषबिल्वाब्दपिप्पलीमूलचित्रकैः । त्वगेलापत्रचविकातिन्तिडीकाम्लवेतसैः ॥ २८३ ॥ समांशं धातुमाक्षीकं सर्वैस्तुल्या सिता भवेत् । भक्षयित्वा यथा सम्यगनुपानं प्रयोजयेत् ॥ २८४ ॥ चूर्णितं मधुना लेह्यं वटकान् वा समाक्षिकान् । नाशयेत्कुष्ठमालस्यं प्रमेहोदरकामलान् ॥ २८५ ॥ पाण्डुत्वं ग्रहणीदोषं हलीमकशिरोरुजम् । प्रसेकमरुचिं मूर्च्छां हृल्लासं मन्दवह्निताम् ॥ २८६ ॥ रक्तपित्तं परीसर्पं श्वयथुं चाङ्गतापताम् । लभेताऽऽयुस्सुत्साहं बलवर्णस्थिराङ्गताम् ॥ २८७ ॥