गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
गदनिग्रहः । ९५ अतिसारे गङ्गाधरं चूर्णम् । अरुलुकघनशुण्ठीधातकीबिल्वरोध्रं कुटजफलसमेतं मोचनिर्यासयुक्तम् । अतिविषजलपाठाः साहकारं च बीजं मसृणमधुविमिश्रं तण्डुलाम्बुप्रपीतम् ॥ २६६ ॥ कफोद्भवं मारुतपित्तसंभवं जयेदतीसाररयं तथाऽऽमजम् । प्रवृद्धगङ्गाधरनाम चूर्णकं तथा हि दोषं ग्रहणीभवं च ॥ २६७ ॥ गुल्मे कटुत्रिकाद्यं चूर्णम् । कटुत्रिकं तिक्तकरोहिणीघनं किराततिक्तोऽथ शतक्रतोर्यवाः । ससप्तपर्णातिविषादुरालभाः पटोलमूलं सह त्रायमाणया ॥ २६८ गडूचीचव्यं सविडङ्गनिम्बकं प्रियङ्गुनीलोत्पलरोध्रमञ्जनम् । सधातकीमोचरसं सुचूर्णितं बुभुक्षितेऽद्यान्मृदुभोजनं हितम् ॥ शशैः सलावैरथवापि तित्तिरीर्निहन्ति गुल्मान् कफपित्तसंभवान्। ज्वरातिसारग्रहणीगदारुचीन् प्रमेहमूत्रक्षयवर्ध्मविद्रधीन् २७० अजीर्णपाण्डुक्षतकासशोफान् सदा प्रयुक्तः सगुडः कटुत्रिकः । स्थौल्ये व्योषाद्यं चूर्णम् । व्योषकट्वीवराशिश्रुविडङ्गातिविषास्थिराः । हिङ्गुसौवर्चलाजाजीयवानीधान्यचित्रकाः ॥ २७१ ॥ निशे बृहत्यौ हपुषा पाठा मूलं च केबुकात् । एतच्चूर्णं मधु घृतं तैलं चापि दशांशकम् ॥ २७२ ॥ शक्तुभिः षोडशगुणैर्युक्तं पीतं निहन्ति तत् । नृणां स्थौल्यादिकान्दोषान् कफमेदोभवांस्तथा ॥२७३॥ हृद्रोगकामलाश्रित्रश्वासकासगलग्रहान् । बुद्धिमेधास्मृतिकरं सन्नस्याग्नेश्च दीपनम् ॥ २७४ ॥ वातकासे विडङ्गाद्यं चूर्णम् । विडङ्गं नागरं द्राक्षा पिप्पली हिङ्गु सैन्धवम् । भार्गी क्षारश्च तच्चूर्णं पिवेद्धि घृतमात्रया ॥ २७५ ॥
९६ आयुर्वेदीयग्रन्थमाला । [ चूर्णाधिकारः सकलेऽनिलजे कासे हिक्कायामनिलार्तिषु । गुल्मे वचाद्यं चूर्णम् । वचा वत्सकबीजं च कुष्ठं चित्रकमेव च ॥ २७६ ॥ पिप्पली शृङ्गवेरं च पाठा कटुकरोहिणी । यवानी च पटोलं च सैन्धवातिविषे तथा ॥ २७७ ॥ हपुषा चाजगन्धा च शठी पौष्करमेव च । एतानि समभागानि सूक्ष्मचूर्णानि कारयेत् ॥ २७८ ॥ ततो बिडालपदकं पिबेदुष्णेन वारिणा । गुल्मान् पञ्च च हृद्रोगान् कुक्षिशूलं च नाशयेत् २७९ पाण्डुरोगे किराततिक्ताद्यं चूर्णम् । किराततिक्तं सुरदारु दार्वी मुस्ता गडूची कटुका पटोलम् । दुरालभा पर्पटकं सनिम्बं फलत्रिकं वह्निकटुत्रिकं च ॥ २८० ॥ विडङ्गसारं च समांशकानि ह्ययोरजोऽर्धेन विचूर्णितानि । खादन्नरः क्षौद्रघृतेन ईपत्स्थिरांश्च घोरानथ पाण्डुरोगान् २८१ आमोद्भवान् वातसमुत्थितांश्च पित्तोद्भवांश्श्लेष्मसमुद्भवांश्च । दुष्टव्रणान्वै कफविद्रधींश्च श्वित्राणि हन्याच्छतशः प्रयोगः २८२ कुष्ठादौ खण्डसमं चूर्णम् । त्रिफलाव्योषबिल्वाब्दपिप्पलीमूलचित्रकैः । त्वगेलापत्रचविकातिन्तिडीकाम्लवेतसैः ॥ २८३ ॥ समांशं धातुमाक्षीकं सर्वैस्तुल्या सिता भवेत् । भक्षयित्वा यथा सम्यगनुपानं प्रयोजयेत् ॥ २८४ ॥ चूर्णितं मधुना लेह्यं वटकान् वा समाक्षिकान् । नाशयेत्कुष्ठमालस्यं प्रमेहोदरकामलान् ॥ २८५ ॥ पाण्डुत्वं ग्रहणीदोषं हलीमकशिरोरुजम् । प्रसेकमरुचिं मूर्च्छां हृल्लासं मन्दवह्निताम् ॥ २८६ ॥ रक्तपित्तं परीसर्पं श्वयथुं चाङ्गतापताम् । लभेताऽऽयुस्सुत्साहं बलवर्णस्थिराङ्गताम् ॥ २८७ ॥
चूर्णं खण्डसमं नाम समस्तान्नाशयेद्गदान् । कुष्ठे बाकुच्याद्यं चूर्णम् । पलानि संगृह्य दशेन्दुराज्या फलत्रयस्यापि समानमेतत् । विडङ्गसारस्य पलानि सप्त शिलाजतोऽर्धं च पुरस्य चैकम् ॥२८८ शतं च भल्लातकसत्फलानां पलं तथा पुष्करमूलनाम्नः । पलत्रयं लोहभवं सुचूर्णं तुरी पलार्धं ह्यथ कर्षभागाः ॥ २८९॥ सपत्रमुस्ताकणयष्टिकानां सचित्रकग्रन्थिककेशराणाम् । न्यग्रोधमूलोषणकुङ्कुमानामेकत्र संचूर्ण्य समं तु खण्डम् ॥२९०॥ खादेद्यथाग्निः प्रयतस्तु मात्रां कुष्ठान्यशेषाण्यपयान्ति नाशम् । अर्शोविकाराः षडपि प्रवृद्धाः श्वित्राणि चित्राण्युदराणि चाष्टौ ॥ क्षयाश्च कृच्छ्रः खलु पाण्डुरोगः कण्ठामया विंशतिरेव मेहाः । उन्मादरोगज्वरनेत्ररोगा नासोद्भवा पञ्चविधाश्च गुल्माः ॥२९२ वातमशीतिविकारं चत्वारिंशत्प्रभेदजं पित्तम् । श्लेष्माणं विंशतिकं विनाशमायाति दुष्टमपि ॥ २९३ ॥ भवति रुचिरदीप्तिर्गौरवर्णो मनुष्यः समधिकशतवर्षं जीवतीह प्रगल्भम् । विघटितघनरोगो मासमात्रप्रयोगा- द्युवतिनयनहारी हृष्टपुष्टो वृषश्च ॥ २९४ ॥ उदरे भस्मार्कचूर्णम् । युगर्तुसंख्यानि दलानि भानोश्चत्वारि काण्डानि सुधाद्रुमस्य । सुरेन्द्रवल्या दश सत्फलानि पञ्चैव पत्राणि कुमारिकायाः २९५ चत्वारि वृन्ताकवरोः फलानि व्याघ्रीचतुःषष्टिफलानि युक्त्या । पञ्चाङ्गमेकं हरिपूर्णकन्दं सिद्धार्थतैलं च पलप्रमाणम् ॥२९६॥ यवाहसौवर्चलधूर्त्तवार्धैः पलं पलं स्यात्क्रमशश्चतुर्णाम् । पलानि पञ्चैव शिवाह्वयस्य गोक्षुरकं चाऽपि वदन्ति वैद्याः २९७ गुरूपदेशादधिगम्य सम्यग्भाण्डे खबुद्ध्याऽर्कदलानि मुक्त्वा । सर्वाणि चान्यानि महौषधानि सिद्धार्थतैलेन विमिश्रितानि ॥
९८ आयुर्वेदीयग्रन्थमाला । [ चूर्णाधिकारः प्रक्षिप्य संरुद्ध्य मुखं तदीयं मृत्कर्पटं सन्धिषु वेष्टनीयम् । गम्भीरगर्ते कुहरे निवेश्य प्रच्छादनीयं छगणैः प्रभूतैः ॥ २९९ उत्तार्य यत्नेन सुशीतलं तं क्षारं चतुर्भिः प्रहरैः सुसिद्धम् । सूक्ष्मीकृतं जीरककर्षषट्कं मध्ये क्षिपेदर्धपलं क्षवस्य ॥ ३०० ॥ तदाढ्यवाते ह्यथ पाण्डुरोगे भगन्दराजीर्णविषूचिकासु । आनाहबन्धे ग्रहणीविकारे पाषाणिके विद्रधिमूत्रकृच्छ्रे॥३०१॥ तक्रेण कर्षार्धमिदं प्रदेयं भस्मार्कचूर्णं दधिमस्तुना वा । श्वासे सकासे हृदयोपरोधे कण्ठग्रहे जीर्णगुडेन देयम् ॥३०२॥ तैलेन शूले मधुनोदरेषु गुल्मप्रकोपे फलपूरकेण । सौवीरकेणाथ सदा प्रयोज्यमुष्णेन सर्वत्र जलेन देयम् ॥३०३ यथा मृगेन्द्रो द्विपदर्पहन्ता वज्रं यथा भूधरमध्यभेदि । अयं तथा योगवरो जनानां निहन्ति दुष्टानपि रोगसंघान् ३०४ योगप्रदीपो मुनिभिः पुराणैर्निवेदितो मूलमसौ हितानाम् । अनेन भीमादपि गाढवह्निर्नरो भवेत्पथ्यहितोपचारैः ॥३०५॥ अर्शसि पूतीकरञ्जाद्यं चूर्णम् । पूतीकरञ्जसूरणसुरदालिकरञ्जसिन्धुजातानाम् । मौसल्यभयाशीतककङ्गुष्ठकाग्नीनां च तुल्यांशम् ॥ ३०६ ॥ चूर्णं तक्रेणैनं पिबतस्तेनैव चाश्नतो भुक्तम् । पक्वफलानीव तरोरर्शांसि पतन्ति मासेन ॥ ३०७ ॥ गुल्मे यवक्षाराद्यं चूर्णम् । यवक्षारं यवानी च पिबेदुष्णेन वारिणा । एतेन वातजं शूलं गुल्मश्चैव चिरोत्थितः ॥ ३०८ ॥ भिद्यते सप्तरात्रेण पवनेन यथा घनः । जीर्णे रसादिभिर्भोज्यं शशलावकपिञ्जलैः ॥ ३०९ ॥ ज्वरातिसारे व्योषाद्यं चूर्णम् । व्योषं वत्सकबीजं च निम्बभूनिम्बमार्कवम् । चित्रकं रोहिणी पाठा दार्वी चातिविषा समाः॥३१०॥
३.] गदनिग्रहः । ९९ सूक्ष्मचूर्णीकृताः सर्वास्तत्तुल्या वत्सकत्वचः । सर्वमेकत्र संयोज्य प्रपिबेत्तण्डुलाम्बुना ॥ ३११ ॥ सक्षौद्रं वा लिहेदेतत्पाचनं ग्राहि भेषजम् । तृष्णारुचिशमनं ज्वरातीसारनाशनम् ॥ ३१२ ॥ कामलां ग्रहणीदोषान् गुल्मं प्लीहानमेव च । प्रमेहं पाण्डुरोगं च श्वयथुं च विनाशयेत् ॥ ३१३ ॥ शोफे कृष्णाद्यं चूर्णम् । कृष्णाग्निविश्वघनजीरककण्टकारी- पाठानिशाकरिकणामगधाजटानाम् । चूर्णं कवोष्णसलिलेरवलोड्य पीतं नातः परं श्वयथुरोगहरं नराणाम् ॥ ३१४ ॥ श्वासहृद्रोगयोर्हिङ्गुपञ्चकं चूर्णम् । हिङ्गु सौवर्चलं विश्वं दाडिमं साम्लवेतसम् । श्वासहृद्रोगशमनमिदं स्याद्धिङ्गुपञ्चकम् ॥ ३१५ ॥ शोषे तिलाद्यं चूर्णम् । तिलकर्केन्धुलाजानां चूर्णं मध्वाज्यलेहितम् । क्षीरानुपानं मासेन शोषघ्नं नास्त्यतः परम् ॥ ३१६ ॥ वर्ध्मरोगे बिल्वमूलाद्यं चूर्णम् । मूलं बिल्वकपित्थयोररलुकस्याग्नेर्बृहत्योर्द्वयोः श्यामापूतिकरञ्जशिग्रुकतरोर्विश्वौषधारुष्करम् । कृष्णाग्रन्थिकवेल्लपञ्चलवणक्षारराजमोदान्वितं पीतं काञ्जिककोष्णतोयमथितैश्चूर्णीकृतं वर्ध्मजित् ३१७ सर्वमेहेष्विन्द्रयवाद्यं चूर्णम् । इन्द्रयवतीक्ष्णबीजासौवर्चलयावशूककर्षांशम् । मधुरसपाठाशुण्ठीद्विचतुरष्टांशकैर्भागैः ॥ ३१८ ॥ हिङ्ग्वर्धकर्षयुक्तं पेयं मण्डेन दध्ना वा । नाशयति सर्वमेहानर्शांसि च दीपयत्यग्निम् ॥ ३१९ ॥
१०० आयुर्वेदियग्रन्थमाला । [ चूर्णाधिकारः शूले शर्कराद्यं चूर्णम् । शर्कराहिङ्गुमरिचं सूक्ष्मचूर्णीकृतं पिबेत् । सुखोदकेन तद्ध्याशु शूलघ्नमामृतोपमम् ॥ ३२० ॥ आनाहे द्विरुत्तरं हिङ्ग्वाद्यं चूर्णम् । द्विरुत्तरं हिङ्गुवचाग्निकुष्ठं सुवर्चिका चैव विडङ्गचूर्णम् । सुखाम्बुनानाहविषूचिकार्तिहृद्रोगगुल्मोर्ध्वसमीरणघ्नम् ॥३२१ पानीयच्छायायां मुस्ताद्यं चूर्णम् । मुस्ताजमोदबृहतीद्वयवाजिगन्धा- द्विजीरकं दहनभृङ्गविडङ्गरास्नाः । भूनिम्बनिम्बभववल्कलराजवृक्ष- सौवर्चलं त्रिकटुकं त्रिफला सभागी ॥ ३२२ ॥ सुधाकराख्यो जरणः सकुष्ठस्तथाऽपरो मालवदेशजातः । शतावरी सैन्धवमेथिके च निर्गुण्डिमुण्डीमुशलीगुडूच्यः॥३२३ वातव्याधिं विषूचीं च छायामपरदेशजाम् । निहन्ति सेवितं चूर्णमेतेषां पथ्यभोजिना ॥ ३२४ ॥ मन्दाग्नौ शतपुष्पाद्यं चूर्णम् । शतपुष्पा विडङ्गानि सैन्धवं मरिचं समम् । चूर्णमुष्णाम्बुना पीतमग्निसंदीपनं परम् ॥ ३२५ ॥ गुल्मे नारायणं चूर्णम् । शतपुष्पावचाकुष्ठकारव्योऽजाजिधान्यकम् । द्वौ क्षारौ पिप्पलीमूलं यवानी कुञ्चिका सठी ॥३२६॥ स्वर्णक्षीर्यजगन्धा च विशाला चित्रकः समाः । बृहदन्ती सप्तला च देया द्वित्रिचतुर्गुणाः ॥ ३२७ ॥ नारायणमिति ख्यातं चूर्णं श्रेष्ठं विरेचने । गुल्मानाहविषाजीर्णश्वासकासगलग्रहान् ॥ ३२८ ॥ शोफार्शोग्रहणीदोषभगन्दरगदान् जयेत् । गुल्मे त्र्यूषणाद्यं चूर्णम् । त्र्यूषणत्रिफलाहिङ्गुकार्षिकं त्रिवृता पलम् ॥ ३२९ ॥
३.] गदनिग्रहः । १०१ सौवर्चलार्धकर्षं च पलार्धं चाम्लवेतसम् । तच्चूर्णं शर्करायुक्तं मद्येनाम्लेन पाययेत् ॥ ३३० ॥ गुल्मपार्श्वार्तिनुत्सिद्धं जीर्णे चास्मिन् रसोदनम् । मन्दाग्नौ सैन्धवाद्यं चूर्णम् । पालिकं सैन्धवं शुण्ठी द्वे च सौवर्चलात्पले ॥ ३३१ ॥ कुडवांशानि वृक्षाम्लं दाडिमं तिन्तिडीफलम् । एकैकं मारिचाजाज्योर्धान्यकार्धचतुर्थिका ॥ ३३२ ॥ कृत्वा चूर्णमतो मात्रामन्नपानेषु दापयेत् । रुच्यं तद्दीपनं बल्यं पार्श्वार्तिश्वासकासजित् ॥ ३३३ ॥ आमातीसारे पिप्पल्याद्यं चूर्णम् । पिप्पली चन्दनं मुस्तामुशीरं कटुरोहिणी । पाठा वत्सकबीजं च हरीतक्यो महौषधम् ॥ ३३४ ॥ एतदामसमुत्थानमतीसारं सवेदनम् । कफात्मकं सपित्तं च पुरीषं चाशु रुन्धति ॥ ३३५ ॥ पीनसे चव्याद्यं चूर्णम् । चव्याम्लवेतसकटुकत्रिकतिन्तिडीक- तालीसजीरकरुजादहनैः समांशैः । चूर्णं गुडप्रमृदितं त्रिसुगन्धियुक्तं वैस्वर्यपीनसकफारुचिषु प्रशस्तम् ॥ ३३६ ॥ कासेऽजमोदादिभस्मचूर्णम् । अजमोदा पलद्वन्द्वं हरिद्रा च बिडं तथा । सारस्तु खदिरस्यापि औद्भिदं लवणं तथा ॥ ३३७ ॥ अभया पौष्करं भार्गी एलाटङ्कणकट्फलम् । वृषापामार्गयोर्मूलं क्षारयुग्मं तथैव च ॥ ३३८ ॥ प्रत्येकं पलमानि रविपुष्यचतुष्पलम् । चूर्णीकृत्य ततो दद्यात्कुमारीरसभावनाम् ॥ ३३९ ॥
१०२ आयुर्वेदीयग्रन्थमाला । [गुटिकाधिकारः सान्तर्धूमं घटे दग्ध्वा चूर्णितं वस्त्रगालितम् । मधुना लीढमेतद्धि पञ्चकासनिवारणम् ॥ ३४० ॥ दाहरोगे द्राक्षादिचूर्णम् । द्राक्षालाजसितोत्पलं समधुकं खर्जूरगोपीतुगा- . ह्रीवेरामलकाब्दचन्दननतं ककोलजातीफलम् । चातुर्जातकणं सधान्यकमिदं चूर्णं समां शर्करां दत्त्वा शीतजलेन भक्षितमिदं पित्तं सदाहं जयेत् ३४१ मूर्च्छां छर्दिमरोचकं च प्रदरं पाण्डुं भ्रमं कामलां यक्ष्माणं समदात्ययं सतमकं तृष्णास्रपित्तं तथा॥३४२॥ पाण्डुरोगे नवायसं चूर्णम् । त्र्यूषणत्रिफलामुस्तविडङ्गदहनाः समाः । नवायोरजसो भागास्तच्चूर्णं मधुसर्पिषा ॥ ३४३ ॥ भक्षयेत्पाण्डुहृद्रोगकुष्ठार्शःशमनं परम् । राजयक्ष्मणि द्वितीयं बृहन्नवायसचूर्णम् । त्रिकटुत्रिफलैलाभिर्जातीफललवङ्गकैः ॥ ३४४ ॥ नवभागोन्मितैरेतैः समं तीक्ष्णं मृतं भवेत् । संचूर्ण्यालोडयेत्क्षौद्रे नित्यं यः सेवते नरः ॥ ३४५ ॥ कासं श्वासं क्षयं मेहं पाण्डुरोगं भगन्दरम् । ज्वरं मन्दानलं शोफं संमोहं ग्रहणीं जयेत् ॥ ३४६ ॥ इति श्रीसोढलप्रथिते गदनिग्रहे चूर्णाधिकारस्तृतीयः संपूर्णः ॥ ३ ॥ अथातो गुटिकाधिकारः प्रारभ्यते । अग्निमान्द्येऽभयाद्या गुटिका ॥ हरीतकीनां कुडवं त्र्यूषणाच्च पलत्रयम् । द्वे पले पिप्पलीूलात्तथा चैवाम्लवेतसात् ॥ १ ॥ चविकां चित्रकं धान्यमजाजीं हपुषामपि । धन्वानीं चाजमोदं च तिन्तिडीकं च दाडिमम् ॥ २ ॥
गदनिग्रहः । सौवर्चलं कारवीं च पलिकानि प्रदापयेत् । त्वगेलापत्रकनकं कर्शाशं चात्र दापयेत् ॥ ३ ॥ गुडस्य च पलान्यत्र दापयेद्द्विगुणानि च । अभयागुटिका ह्येषा मन्दाग्नेस्तु दीपनी ॥ ४ ॥ वातशोणितमानाहं गुल्मं पञ्चविधं तथा । चतुरो ग्रहणीदोषानर्शांसि षड्विधानि च ॥ ५ ॥ कासं क्षयविवन्धं च शूलं हृज्जठराश्रयम् । भक्षिता नाशयेत्येषा भोज्या नियंत्रणया स्मृता ॥ ६ ॥ अर्शसि काङ्कायनवटकः । पथ्या पञ्चपलान्येकमजाज्या जीरकस्य च । पिप्पलीपिप्पलीमूलचव्यचित्रकनागरम् ॥ ७ ॥ पलाभिवृद्ध्या क्रमशौ यवक्षारपलद्वयम् । भल्लातकफलान्यष्टौ कन्दस्तद्विगुणो मतः ॥ ८ ॥ द्विगुणेन गुडैर्नैषां वटकानक्षसंमितान् । एकैकं भक्षयेत्प्रातस्तक्रमम्लं पिवेद्वनु ॥ ९ ॥ वह्निं संदीपयत्याशु ग्रहणीपाण्डुरोगजित् । काङ्कायनेन शिष्येभ्यः शस्त्रक्षाराग्निभिर्विना ॥ १० ॥ कथितो वटको ह्येष गुदजानां विनाशनः । गुल्मे काङ्कायनगुटिका । सठीं पुष्करमूलं च वह्निं लवणपञ्चकम् । शृङ्गवेरं वचां चैव पलिकानि समाहरेत् ॥ ११ ॥ त्रिवृतायाः पलं कुर्यात्रीन् कर्षानथ हिङ्गुतः । यवक्षारपले द्वे च द्वे पले चाम्लवेतसात् ॥ १२ ॥ यवान्यजाजिमरिचं धान्याकं शीतपुष्पकम् । उपकुञ्च्यजमोदाभ्यां तथैवाष्टमिकामपि ॥ १३ ॥ मातुलुङ्गरसेनैता गुटिकाः कारयेद्भिषक् । तासामेकां पिवेद्द्वे वा तिस्रोऽथ च सुखाम्बुना॥ १४ ॥
१०४ आयुर्वेदीयग्रन्थमाला । [ गुटिकाधिकारः अम्लैश्र्च मद्यैः पातव्या घृतेन पयसा तथा । एषा काङ्कायनेनोक्ता गुटिका गुल्मनाशिनी ॥ १५ ॥ अर्शोहृद्रोगशमनी कृमीणां च विनाशिनी । गोमूत्रयुक्ता शमयेत्कफगुल्मं चिरोत्थितम् ॥ १६ ॥ क्षीरेण पित्तगुल्मं च मद्यैरम्लैश्च वातिकम् । त्रिफलारसमूत्रैश्च नियच्छेत्सान्निपातिकम् ॥ १७ ॥ रक्तगुल्मे च नारीणामुष्ट्रीक्षीरेण पाययेत् । गुल्मे निकुम्भाद्या गुटिका । निकुम्भरजनीपाठात्रिकटुत्रिफलाग्निकाः । बाला वृक्षकबीजं च चूर्णं स्यादनवो गुडः ॥ १८ ॥ पथ्याभिसहितं चूर्णं गवां मूत्रयुतं पचेत् । घनीभूतं तु गुटिकां कृत्वा खादेद्युक्तवान् ॥ १९ ॥ गुल्मप्लीहाग्निसादांस्ता नाशयेयुरशेषतः । हृद्रोगं ग्रहणीदोषं पाण्डुरोगं च दारुणम् ॥ २० ॥ विड्बन्धेऽभयावटकाः । पथ्याकटुत्रिकविडङ्गलत्वगेलाः सग्रन्थिकाः सचविकामलकाः समस्ताः । अक्षौ त्रिवृद्धवजटाचरणांघ्रिभागा दन्त्याश्च षड्गुणसितामधुमोदकाः स्युः ॥ २१ ॥ विद्भेदनाय सुकुमारतराः सुहृद्याः प्रोक्ताः प्रगाढतरविड़्भिधिकारिणस्ते । तावद्विरेचनकरा न भवन्ति याव- देभिरतः पिबति वारि नरः सुखोष्णम् ॥ २२ ॥ हृद्रोगगुल्मगुदजश्वयथुप्रमेह- पाण्डामयोदरविकारभगन्दरघ्नाः । स्थौल्याम्लवातविकृतिप्रशमार्थमेते- श्चूर्णा इमिराग्निरभयावटकाः प्रदिष्टाः ॥ २३ ॥
गदनिग्रहः । १०५ पाण्डुरोगे वज्रकगुटिका । रोहिणीं चिरबिल्वं च कुटजं च फलत्रिकम् । मुस्तकं पिप्पलीमूलं यष्ट्याह्नं निम्बनागरम् ॥ २४ ॥ पकैनैषां कषायेण भावयेच्च शिलाजतु । शिलाजतुपलान्यष्टौ तावती सितशर्करा ॥ २५ ॥ वांश्याः कर्कटशृङ्ग्याश्च मागध्याश्च पलं पलम् । धात्रीफलपलार्धं च व्याघ्रीमूलत्वचं तथा ॥ २६ ॥ पत्रत्वगेला गन्धार्थं दत्त्वा चूर्णानि कारयेत् । तं विमर्द्य यथान्यायं दद्यान्मधुपलत्रयम् ॥ २७ ॥ वर्तयेद्वटकानेतानुदुम्बरफलोपमान् । तत्रैव भक्षयेत्कल्के सानुपानं यथाबलम् ॥ २८ ॥ विडङ्गरसयूषैश्च सुरारिष्टासवादिभिः । क्षीरैर्वा दाडिमाम्लैर्वा पथ्यभोजी पिबेन्नरः ॥ २९ ॥ स जयेत्पाण्डुरोगासृग्दुष्टमेहगलग्रहान् । यक्ष्मकासांश्च वातादीन् श्वासशोफोदरामयान् ॥ ३० ॥ रोगानीकप्रणाशार्थं सृष्टा भगवता पुरा । वज्रकेति समाख्याता वटिकेऽयं महागुणा ॥ ३१ ॥ नैव दद्यात्कृतघ्नाय नास्तिकोयोद्धताय च । इष्टाय संप्रयोक्तव्या ब्राह्मणाय विशेषतः ॥ ३२ ॥ शूले शम्बूकाद्या गुटिका । पलानि त्रीणि शम्बूकाल्लोहचूर्णात्पलद्वयम् । रसाञ्जनात्पलं चैकं लोहकिट्टात्पुनः पलम् ॥ ३३ ॥ सर्वैः समां शर्करां च मधुना च परिप्लुताम् । सर्वमेतत्समाहृत्य मोदकान्कारयेद्भिषक् ॥ ३४ ॥ तान् भक्षयेत्प्रयत्नेन शूले गुल्मे हृदामये । विशेषतः पित्तशूले शोफे पाण्डूदरे भ्रमे ॥ ३५ ॥
१०६ आयुर्वेदौयग्रन्थमाला। [गुटिकाधिकारः दुर्नाम्नि कासे कृच्छ्रे च प्रमेहाश्मरिवृद्धिषु । अग्निमान्द्ये स्मृतिभ्रंशे पीनसार्धावभेदके ॥ ३६ ॥ कल्याणवटकाः । विडङ्गं पिप्पलीमूलं त्रिफलाधान्यचित्रकान् । मरिचेन्द्रयवाजाजीपिप्पलीहस्तिपिप्पली- ॥ ३७ ॥ लवणान्यजमोदं च चूर्णितं कार्षिकं पृथक् । तिलतैलं त्रिवृच्चूर्णं भागौ चाष्टपलोन्मितौ ॥ ३८ ॥ धात्रीरसस्य प्रस्थांस्त्रीन् गुडार्धकतूलां तथा । पक्त्वा मृदग्निना खादेदुत्तार्योदुम्बरोपमान् ॥ ३९ ॥ गुडान् कृत्वा विचार्या स्याद्विहाराचारयन्त्रणा । मन्दाग्नित्वं ज्वरं मूर्च्छां मूत्रकृच्छ्रमरोचकम् ॥ ४० ॥ अस्त्रमं च यकृच्छूलं कासं शोषं गरं विषम् । कुष्ठार्शःकामलामेहगुल्मोदरभगन्दरम् ॥ ४१ ॥ ग्रहणीपाण्डुरोगांश्च हन्युः पुंसवनाश्च ते । कल्याणका इति ख्याताः सर्वेष्वृतुषु यौगिकाः ॥४२॥ क्षतक्षीणे एलाद्य गुटिका । एलापत्रत्वचोऽर्धाक्षाः पिप्पल्यर्धपलं तथा । सितामधुकखर्जूरमृद्वीकाश्च पलोन्मिताः ॥ ४३ ॥ संचूर्ण्य मधुना युक्त्या गुटिकाः संप्रकल्पयेत् । अक्षतुल्यां ततश्चैकां भक्षयेत्तां दिने दिने ॥ ४४ ॥ कासं श्वासं ज्वरं हिक्कां छर्दिं मूर्च्छां मदभ्रमम् । रक्तनिष्ठीवनं तृष्णां पार्श्वशूलसमरोचकम् ॥ ४५ ॥ शोषप्लीहाढ्यवातांश्च स्वरभेदं तथा क्षयम् । गुटिका तर्पणी वृष्या रक्तपित्तं च नाशयेत् ॥ ४६ ॥ क्षतक्षीणे सर्पिर्गुटिका । बला विदारी ह्रस्वा च पञ्चमूली पुनर्नवा । पञ्चानां क्षीरवृक्षाणां शुङ्गा मुस्तंञ्चका अपि ॥ ४७ ॥
एषां कषाये द्विक्षीरे विदार्याः स्वरसांशके । जीवनीयैः पचेत् कल्कैरक्षमात्रैर्घृताढकम् ॥ ४८ ॥ सितापलानि पूतेऽस्मिञ्छीते द्वात्रिंशदावपेत् । गोधूमपिप्पलीवांशीचूर्णं शृङ्गाटकस्य च ॥ ४९ ॥ सक्षौद्रं कुडवं शीतं तत्सर्वं खजमूर्च्छितम् । स्त्यानं सर्पिर्गुडान् कृत्वा भूर्जपत्रेण वेष्टयेत् ॥ ५० ॥ ताञ्जग्ध्वा पलिकान्क्षीरं मद्यं चानुपिबेत्कफे । शोषे कासे क्षतक्षीणे श्रमस्त्रीभारकर्शिते ॥ ५१ ॥ रक्तनिष्ठीवने तापे पीनसे चोरसि स्थिते । शस्ता पार्श्वशिरःशूले भेदे च हस्तपादयोः ॥ ५२ ॥ पाण्डुरोगे मण्डूरवटकाः । पञ्चकोलं समरिचं देवदारुफलत्रिकम् । विडङ्गमुस्तं तुल्यानि भागांस्तु पलसंमितान् ॥ ५३ ॥ यावन्त्येतानि चूर्णानि मण्डूरं द्विगुणं ततः । पक्त्वाऽष्टगुणिते मूत्रे घनीभूते तदुद्धरेत् ॥ ५४ ॥ ततोऽक्षमात्रान्वटकान् पिबेत्तक्रेण तक्रभुक् । पाण्डुरोगं जयत्येष मन्दाग्नित्वमरोचकम् ॥ ५५ ॥ अर्शांसि ग्रहणीदोषशोफमूत्रहलीमकम् । क्रिमीन्प्लीहानमुदरं हृद्रोगं चाशु नाशयेत् ॥ ५६ ॥ मण्डूरवटका ह्येते रोगानीकप्रणाशनाः । पाण्डुरोगे द्वितीयो मण्डूरवटकः । त्र्यूषणं त्रिफला मुस्तविडङ्गं चव्यचित्रकौ ॥ ५७ ॥ दार्वीत्वङ्माक्षिको धातुर्ग्रन्थिकं देवदारु च । एतान् द्विपलिकान् भागांश्चूर्णं कृत्वा पृथक् पृथक् ५८॥ मण्डूरं द्विगुणं चूर्णाच्छुद्धमञ्जनसन्निभम् । मूत्रमष्टगुणं कृत्वा तस्मिंश्च प्रक्षिपेत्ततः ॥ ५९ ॥ शनैः सिद्धं ततः शीताः कार्याः कर्षसमा गुडाः ।
१०८ आयुर्वेदीयग्रन्थमाला । [गुटिकाधिकारः यथाग्नि भक्षणीयास्ते प्लीहपाण्डामयापहाः ॥ ६० ॥ ग्रहप्यर्शोनुदश्चैव तक्रवाव्याशिनः स्मृताः । शोषे क्षारगुटिका । क्षारद्वयं स्याल्लवणानि चत्वार्ययोरजो व्योषफलत्रिके च । सपिप्पलीमूलविडङ्गसारं मुस्ताजमोदामरदारुबिल्वम् ॥ ६१ ॥ कलिङ्गवं चित्रकमूलपाठे यष्ट्याह्वयं सातिविषं पलांशम् । सहिङ्गुकर्षलवणं शुष्कचूर्णं द्रोणं तथा मूलकशुण्ठिकानाम् ॥६२॥ स्याद्भस्मनस्तं सलिलेन साध्यमालोड्य यावद्धनमप्रदग्धम् । वर्ती ततः कोलसमानमात्रां कृत्वा सुशुष्कां विधिना प्रयुञ्ज्यात् ॥ प्लीहोदरश्वित्रहलीमकार्शःपाण्डामयारोचकशोषशोफान् । विषूचिकागुल्मगराश्मरींश्च सश्वासकासान् प्रणदेत्सकुष्ठान् ६४ कुष्ठे विडङ्गसाराद्या गुटिकाः । विडङ्गसारामलकाभयानां पलं पलं स्यात्रिवृतात्रयं च गुडस्य च द्वादश एष योगो मासेन त्रिंशद्गुटिकोपयोगः ॥६५ इयं हि कुष्ठज्वरगुल्मपाण्डुता- भगन्दरश्वासगरोदराशसाम् । प्रणाशनी यक्षपतिः स्वयं ददौ स माणिभद्रः किल शाक्यभिक्षवे ॥ ६६ ॥ कुष्ठे माणिभद्रवटकः । विडङ्गामलकं पथ्या पलांशाश्च समा त्रिवृत् । गुडश्च सर्वद्विगुणो मासस्यं वटकाः कृताः ॥ ६७ ॥ कुष्ठानि पिडकार्शासि कृमिगुल्मोदराणि च । कासं श्वासं च शमयेद्विशेषान्माणिभद्रकः ॥ ६८ ॥ अर्शसि सूरणवटकाः । षोडश सूरणभागा वह्नेरष्टौ महौषधस्यापि । अर्धेन भागयुक्तिर्मरिचस्य ततोऽपि चार्धेन ॥ ६९ ॥ १ त्रिंशद्वटकाः कार्या इत्यर्थः ।
.] गदनिग्रहः । १०९ त्रिफला कणा समूला तालीसारुष्करकृमिघ्नानाम् । भागा महौषधसमा दहनांशा तालमूली च ॥ ७० ॥ भागः सूरणतुल्यो दातव्यो वृद्धदारुकस्यापि । भृङ्गेले मरिचांशे चूर्णेऽस्मिन्योजयेन्मतिमान् ॥ ७१ ॥ द्विगुणेन गुडेन युतः सेव्योऽयं मोदकः प्रकामध्नैः । गुरुवृष्यमोज्यरहितेष्वितरेषूपद्रवान्कुरुते ॥ ७२ ॥ भस्मकमनेन जनितं पूर्वमगस्त्यस्य योगराजेन । भीमस्य मारुतेरपि येन ते महाशना जाताः ॥ ७३ ॥ अग्निबलवृद्धिहेतुर्न केवलं सूरणो महावीर्यः । प्रभवति शस्त्रक्षाराग्निभिर्विनाप्यर्शसामेषः ॥ ७४ ॥ श्वयथुश्लीपदगरजिद्रहणीं च कफानिलाजाताम् । नाशयति वलीपलितं मेधां कुरुते वृषत्वं च ॥ ७५ ॥ हिक्कां कासं श्वासं सराजयक्ष्मप्रमेहांश्च । प्लीहानमप्यथोग्रं हन्ति च रसायनं पुंसाम् ॥ ७६ ॥ अर्शसि लघुसूरणवटिकाः । चूर्णीकृताः षोडश सूरणस्य भागास्ततोऽर्धा नवचित्रकस्य । महौषधाद्वौ मरिचस्य चैको गुडेन दुर्नामजयाय पिण्डी ॥७७॥ अर्शोरोगे मरिचाद्या गुटिकाः । मरिचपिप्पलिनागरचित्रकान् क्रमविवर्धितभागसुचूर्णितान् । शिखिचतुर्गुणसूरणयोजितान् कुरु गुडेन गुडान् गुदजच्छिदे ॥ ७८ ॥ अर्शसि कलिङ्गाद्या गुटिकाः । कलिङ्गलाङ्गलीकृष्णायश्चपामार्गपिप्पली- । भूनिम्बसैन्धवगुडैर्गुडा गुदजनाशनाः ॥ ७९ ॥ गुल्मे गुडवटकाः । गुडविश्वौषधपथ्यामागधिकादाडिमैः कृता गुटिकाः । १०
११० आयुर्वेदीयग्रन्थमाला । [गुटिकाधिकारः विनिहन्ति भक्ष्यमाणा गुल्मार्शोविहिसादगदान् ॥ ८० ॥ अतिसारेऽभयाद्या वटकाः । अभयागुडपिप्पल्यः समांशा वटकीकृताः । मक्षिता हन्त्यतीसारमर्शःपाण्ड्वामयज्वरान् ॥ ८१ ॥ सर्वातिसारेऽङ्कोलवटिका । पलमङ्कोलमूलस्य पाठां दार्वीं च तत्समाम् । पिष्ट्वा तण्डुलतोयेन वटिकामक्षसंमिताम् ॥ ८२ ॥ छायाशुष्कां पिबेत्क्षिप्रं पिष्ट्वा तण्डुलवारिणा । वातपित्तकफप्रायान् द्वन्द्वजान् सान्निपातिकान् ॥८३॥ हन्यात्सर्वातिसारांस्तु वटिकेयं प्रयोजिता । सर्वातिसारे बृहदङ्कोलवटिका । सदार्व्यङ्कोलपाठानां मूलं तु कुटजस्य च । शाल्मलेरथ निर्यासो धातकौरौध्रदाडिमम् ॥ ८४ ॥ पिष्ट्वाऽक्षसंमितान् कृत्वा वटकांस्तण्डुलाम्भसा । तानेव मधुसंयुक्तानेकैकान् प्रातरुत्थितः ॥ ८५ ॥ पिबेदत्यन्तमापन्नो विधिसर्गेण मानवः । अङ्कोलवटका नाम्ना सर्वातीसारनाशनाः ॥ ८६ ॥ अतिसारे कट्वङ्गाद्या गुटिका । पलानि दश कट्वङ्गाङ्गे पले पञ्चकत्वचः । स्थिराया बिल्वपेश्याश्च पलान्यष्टौ पृथक् पृथक् ॥८७॥ कटुकादाञ्जनोशीररोघ्रयष्ट्याह्वमुस्तकान् । कालीयकं व्याघ्रनखं हरिद्रारक्तचन्दनम् ॥ ८८ ॥ करञ्जफलचूतास्थिदाडिमत्वग्विधुन्तुकाः केतक्यर्जुनपुष्पाणि वल्कान्यक्षपियालयोः ॥ ८९ ॥ समङ्गा शालवीजानि ग्रन्थिश्चाप्यरिमेदतः । फलस्य, वत्सकफलं संक्षुद्य पलसंमितम् ॥ ९० ॥ द्विद्रोणं विपचेदम्भः पूत्वा क्वाथं पचेदनु । पिण्डमक्षसमं तस्माद्घृतमादाय बुद्धिमान् ॥ ९१ ॥
४.] गदनिग्रहः । १११ कारयेद्गुटिकां श्लक्ष्णां ग्रसतोऽधौ सुखाम्बुना । अनृक्षतैलसंयुक्तां कफपित्तानिलार्तिषु ॥ ९२ ॥ केवले सन्निपाते च ततस्तक्रं पिबेदनु । तक्रेणैवानुभुञ्जीत नरोऽतीसारपीडितः ॥ ९३ ॥ मृत्युपाशान् जयेच्छीघ्रमियं सम्यक् प्रयोजिता । अतिसारसमुत्थानं मृत्युमप्यागतं जयेत् ॥ ९४ ॥ ग्रहण्यां चित्रकाद्या गुटिका । चित्रकं पिप्पलीमूलं द्वौ क्षारौ लवणानि च । व्योषं हिङ्ग्वजमोदं च चव्यं चैकत्र चूर्णयेत् ॥ ९५ ॥ गुटिका मातुलुङ्गस्य दाडिमस्य रसेन वा । कृता विपाचयत्यामं दीपयत्याशु चानलम् ॥ ९६ ॥ ग्रहण्यां क्षारगुटिका । द्वे पञ्चमूल्यौ त्रिवृता निकुम्भा पाठा वचास्फोटबलाश्च रास्ना । सकारवीचित्रकमर्कमूलं पृथक् पृथक् तानि पलैर्दशाख्यैः ९७ भस्मीकृतान्यम्भसि गालयित्वा पचेत्तुलां जीर्णगुडस्य सम्यक्। द्वे पञ्चमूल्यौ यवश्शूकजं च क्षारं तथा खर्जिकासंज्ञिकं च ॥९८॥ व्योषं वचां चैव हरीतकीं च पृथक् पलानां सह चित्रकेण । हिङ्ग्वम्लभल्लातकमक्षतुल्यं विपाचयेत्क्षारगुडं यथावत् ॥९९॥ ततोऽक्षमात्रा गुटिका प्रयोज्या कायाग्निहीनैरबलैर्नरैश्च । सश्लेष्मकासारुचिगुल्मवृद्धौ कफश्च कण्ठोरसि यस्य तिष्ठेत् १०० कुष्ठप्रमेहान् श्वयथुं च हन्याद्वातामयप्लीहयकृद्भवांश्च । अन्नं हि भुक्तं जरयेच्च शीघ्रं युक्तो रसैः क्षारगुडप्रयोगः १०१ तालीसाद्या गुटिका । तालीसचव्यं मरिचं पलार्धांशानि वामरात् । अध्यर्धं पिप्पलीमुलात्पिप्पल्याश्च पलं पलम् ॥ १०२॥ कर्षं तु नागपुष्पस्य त्रुटीकर्षार्धमेव च । त्वक्पत्रोशीरकर्षस्तु चूर्णानि त्रिगुणितो गुडः ॥ १०३ ॥
११२ आयुर्वेदग्रन्थमाला । [गुटिकाधिकारः ततोऽक्षमात्रा गुटिका मद्ययूषपयोरसैः । पीताऽम्भसा भक्षिता वा सर्वान् हन्याद्गुदोद्भवान् १०४ शूलं पानात्ययं छर्दिं प्रमेहं विषमज्वरान् । गुल्मं पाण्डुरुजं शोफं हृद्रोगं ग्रहणीगदान् ॥ १०५ ॥ कासहिकारुचिश्वासकृम्यतीसारकामलाः । मन्दाग्नितां मूत्रकृच्छ्रं हन्याच्छोफं च सा भृशम् १०६ एतदेव भवेच्चूर्णं सिताचूर्णचतुर्गुणम् । सपित्तेषु विकारेषु विशेषेणामृतोपमम् ॥ १०७ ॥ सा चैव गुटिका पथ्या फलत्रयविशेषिता । शोफार्शोग्रहणीरोगपाण्डुशूलापहारिणी ॥ १०८ ॥ क्षयसप्रे लघुतालीसादिवटिका । तालीसपत्रमरिचंचविकानां पलं पलम् । कृष्णा तन्मूलयोर्द्वे द्वे पले शुण्ठीपलत्रयम् ॥ १०९ ॥ चातुर्जातमुशीरं च कर्षांशं श्लक्ष्णचूर्णितम् । तत्र त्रिंशत्पलं दद्यात्कथितादमलाद्गुडात् ॥ ११० ॥ तालीसवटका ह्येते क्षयघ्ना दीपनाः परम् । लवङ्गाद्या गुटिका । पलार्धं तु लवङ्गस्य तालीसत्रुटिवल्कलम् ॥ १११ ॥ यवानीचव्यकाजाजीधान्यकं च पलोन्मितम् । द्विपलं मरिचं कृष्णा वृक्षाम्लं साम्लवेतसम् ॥११२॥ कृष्णायाश्च जटा शुण्ठी पथ्या च कुडवोन्मिता । एतत्सर्वं समाहृत्य त्रिगुणेन गुडेन तु ॥ ११३ ॥ ततोऽर्धपलिकाः कार्या गुटिकास्तु भिषग्वरैः । एकैकश्चस्तास्तु पिबेन्मद्यतक्ररसासवैः ॥ ११४ ॥ भक्षिता येन तस्यार्शःपाण्डुहृत्पार्श्वशूलनुत् । कासगुल्मारुचिश्वासहिक्कामयगलग्रहान् ॥ ११५ ॥
४.] गदनिग्रहः । ११३ ज्वरातिसारं तन्द्रां च सेविता हन्ति वेगतः । कुष्ठे तुवरास्थिवटकाः । हरीतकी शक्रयवाः पटोलफलपुष्करम् ॥ ११६ ॥ बाकुची राजवृक्षश्च वह्न्यर्कमूलमेव च । आवर्तकीफलं चैव भागवृद्ध्या यथोत्तरम् ॥ ११७ ॥ यावन्त्यमूनि तुल्यानि तुवरास्थां च संभवा । मज्जा खदिरसंसिद्धा गोमूत्रकथिता पुनः ॥ ११८ ॥ सैर्वरैभिः कर्षमात्रां गुटिकां कारयेद्भिषक् । प्राश्यैनामनुगोमूत्रं पिबेच्चापि पलत्रयम् ॥ ११९ ॥ जीर्णज्वरे तत्क्षीणे वा घृतमुष्णोदनं भजेत् । सप्ताहं तिलतैलेन निष्पावकङ्गुसेवनम् ॥ १२० ॥ तक्रानुपानं मासं च तत्परं सर्वभुग्भवेत् । क्षाराम्लवर्जी जयति सर्वकुष्ठानि मानवः ॥ १२१ ॥ कुष्ठे खदिरादिवटिका । खदिराद्वीजकान्निम्बात्कुटजाच्छाळसारतः । पञ्चाशत्पलिकान् भागान् गोमूत्रस्याढकद्वयम् ॥१२२॥ जलद्रोणद्वये चापि सुगुप्तं दिवसान् दश । दशरात्रस्थितं तत्त कषायमनुसाधयेत् ॥ १२३ ॥ अध्यर्धाढकशेषं तु पुनरग्नावधिश्रयेत् । चूर्णीकृतान्यथेमानि भेषजान्यत्र दापयेत् ॥ १२४ ॥ भल्लातकानि त्रिफलां विडङ्गानि वचां तथा । चित्रकावल्गुजौ चैव भागान् दशपलांशकान् ॥१२५॥ दद्याद्वायसिमूलाच्च पलानां पञ्चविंशतिः । घनीभूतं तु तं ज्ञात्वा गुटिकां कारयेद्भिषक् ॥ १२६॥ तां भक्षयेत कुष्ठार्तः पथ्यभोजी जितेन्द्रियः । कुष्ठानि नाशयत्येषा छिन्नाभ्राणीव मारुतः ॥ १२७॥
११४ आयुर्वेदीयग्रन्थमाला । [गुटिकाधिकारः] कुष्ठे विषगुटिकाः । त्रिफलाव्योषयष्ट्याह्वविषं तुल्यानि पेषयेत् । भृङ्गाम्बुना तु गुटिकाः कुर्याच्चणकसंमिताः ॥ १२८ ॥ एकैकां वर्धयेत्तावदष्टावसान्न वर्धयेत् । आस्तिकेन कृतो योगो विजयेद्वातजान् गदान्॥१२९॥ अशीतिं विंशतिं श्लेष्मभवांस्तप्त महाक्षयान् । अष्टादशैव कुष्ठानि सन्नमग्निं च दीपयेत् ॥ १३० ॥ कुष्ठे लाङ्गलीगुटिकाः । लाङ्गलीत्रिवृतालोहचूर्णं दशपलं पृथक् । त्रिंशत्तु गुटिकाः पथ्याः कुर्याद्भृङ्गरसप्लुताः ॥ १३१ ॥ छायाशुष्कां च तत्रार्धां गुटिकां भक्षयेत्ततः । जीर्णे रसेन रूक्षेण पेया, पूर्वं न भोजयेत् ॥ १३२ ॥ यन्त्रितो ब्रह्मचर्याद्यैः क्रमेण गुटिकामपि । खादेत्प्रातस्तु मासैकं भवेत्कामचरः क्रमात् ॥ १३३ ॥ एवं सर्वाणि कुष्ठानि जयत्यतिबलान्यपि । धीमेधास्मृतियुक्तस्तु नित्यं जीवेत्समाः शतम् १३४ कण्ड्वां त्रिजातगुटिकाः । त्रिजातत्रिफलाव्योषं सूक्ष्मचूर्णं तु कारयेत् । तत्तुल्यं त्रिवृताचूर्णं शर्कराक्षौद्रमेव च ॥ १३५ ॥ बद्ध्वात्र मोदकान्द्वै तान् भक्षयेच्च यथाबलम् । विरेक एष प्रबलस्तथा कण्डूविनाशनः ॥ १३६ ॥ मुखरोगे खदिरगुटिका । तुलां खदिरसारस्य द्विगुणां त्वरिमेदतः । प्रक्षाल्य जर्जरीकृत्य चतुर्द्रोणेऽम्भसः पचेत् ॥ १३७॥ द्रोणशेषं कषायं तु पूत्वा भूयः पचेच्छनैः । ततस्तस्मिन्घनीभूते चूर्णं कृत्वाऽक्षभागिकम् ॥ १३८ ॥ चन्दनं पद्मकोशीरं मञ्जिष्ठाधातकीघनम् । प्रपौण्डरीकयष्ट्याह्वत्वगेलापत्रकेसरम् ॥ १३९ ॥