गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
३.] गदनिग्रहः । ७३ पलानि दाडिमादष्टौ सितायाश्चैकतः कृतः । गुणैः कपित्थाष्टकवच्चूर्णोऽयं दाडिमाष्टकः ॥ ३८ ॥ अतिसारे द्वितीयं दाडिमाष्टकचूर्णम् । दाडिमस्य पलान्यष्टौ चातुर्जातं पलद्वयम् । अजाजीनां पलार्धं तु पलार्धं धान्यकस्य च ॥ ३९ ॥ पृथक्पलांशकान् भागान् त्रिकटोग्रन्थिकस्य च । त्वक्क्षीरी वालकं चैव दद्यात्कर्षसमान् भिषक् ॥ ४० ॥ शर्करायाः पलान्यष्टौ तदेकस्थं विचूर्णयेत् । आमातीसारशमनं कासहृत्पार्श्वशूलनुत् ॥ ४१ ॥ हृद्रोगमरुचिं गुल्मं ग्रहणीमग्निमार्दवम् । प्रयुक्तो नाशयत्येष चूर्णोऽयं दाडिमाष्टकः ॥ ४२ ॥ गलरोगे एलाद्यं चूर्णंम् । एला त्वग्दलनागपुष्पमरिचं स्यात्पिप्पली नागरं भागैर्भागविवर्धितं क्रमयुतैः सर्वैश्च तुल्या सिता । एतच्चूर्णमजीर्णगुल्मजठरेऽप्यर्शःसु हृद्रोगिषु कासश्वासिषु रक्तपित्तिषु हितं कण्ठे विकाराश्च ये ॥४३॥ अरोचके वृद्धैलाद्यं चूर्णम् वृद्धैला पिप्पलीमूलं चव्यचित्रकनागरम् । मरिचं दीप्यकं चैव वृक्षाम्लं चाम्लवेतसम् ॥ ४४ ॥ अजमोदाऽजगन्धा च कपित्थं चार्थकार्षिकम् । अत्यन्तपरिशुद्धायाः शर्करायाश्चतुष्पलम् ॥ ४५ ॥ चूर्णं सेव्यमिदं पुम्भिः परमं रुचिवर्धनम् । प्लीहकासमथार्शांसि श्वासशूलं वमिज्वरम् ॥ ४६ ॥ निहन्ति दीपयत्यग्निं बलवर्णकरं परम् । वातानुलोमनं हृद्यं कण्ठजिह्वाविशोधनम् ॥ ४७ ॥
७४ आयुर्वेदौयग्रन्थमाला । [ चूर्णाधिकारः अरोचके कर्पूराद्यं चूर्णम् । कर्पूरचोचकङ्कोलजातीफलदलाः समाः । लवङ्गनागमरिचकृष्णाशुण्ठ्यो विवर्धिताः ॥ ४८ ॥ चूर्णं सितासमं हृद्यं रोचनं क्षयकासजित् । वैस्वर्यश्वासगुल्मार्शश्छर्दिकण्ठामयापहम् ॥ ४९ ॥ प्रयुक्तं चानपाने हि भेषजद्वेषिणां वरम् । अरोचके त्वगेलाद्यं चूर्णम् । त्वगेलाव्योषधान्याम्लनागकेसरजीरकम् । लवलीफलकङ्कोलं लवङ्गं जातिपत्रिका ॥ ५० ॥ भागानिमान् समान् कृत्वा दद्याद्विगुणितां सिताम् । ईषत्कर्पूरसंयुक्तं चूर्णं रुचिकरं परम् ॥ ५१ ॥ गुल्मे त्रिलवणाद्यं चूर्णम् । त्रिलवणहपुषाजमोदाजगन्धावचाहिङ्गुपाठोपकुञ्चीशठी जी- रकाजाजिकुस्तुम्बरीवाष्पिकाः कारवी तुम्बरुः स्वर्जिका या- वशूको जटा पौष्करं दाडिमं तिन्तिडीकं विडङ्गानि भार्गी वरी वेधको, मिशिमरिचगजोपकुल्याऽभया पञ्चकोलं निकुम्भा विशाला यवानी सुराह्वं च तत्सर्वमेकत्र चूर्णीकृतं बीजपूरार्द्रके- णासकृद्भावितं यः पिबेत्प्रातराहारकालेऽथवा मासमात्रं हिताशी नरः। प्लुतमशिशिरवारिणा जीर्णमद्येन तक्रेण मूत्रेण कोलाम्भ- सा मस्तुना सर्पिषौष्ट्रेण दुग्धेन कौलत्थयूषेण वा क्षारनिश्चोत- तोयेन वा दाडिमाद्वा रसेनात्मवानेभिरेवौषधैः साधितं वा घृतं, हृदयगुदकटीयकृत्प्लीहजं तस्य शूलं प्रणश्येतथा गुल्मविष्टम्भ- दुर्नामकृच्छ्रोदराध्मानहिध्मारुचिश्लीपदश्वासकासाः प्रपक्तुं च शक्तो भवेत्पावकः प्राश्यमानानि पाषाणचूर्णान्यपि ॥ ५२ ॥ १ अत्र दण्डकाख्यश्छन्दः । तत्र प्रथमं द्वौ न गणौ, अनन्तरं द्वाविंशती रगणा ज्ञेयाः ।
३.] गदनिग्रहः। ७५ अरोचके सूक्ष्मैलाद्यं चूर्णम् । सूक्ष्मैला केसरं त्वक् पत्रं तालीसकं तुगा । पृथ्विका दाडिमं धान्यं जीरकं च द्विकार्षिकम् ॥५३॥ पिप्पल्यः पिप्पलीमूलं चव्यचित्रकनागरम् । मरिचं दीप्यकं चैव वृक्षाम्लं साम्लवेतसम् ॥ ५४ ॥ अजमोदाजगन्धे च दधित्थं चेति कार्षिकम् । प्रदेयमिह शुद्धायाः शर्करायाश्चतुष्पलम् । चूर्णमग्निप्रदं ह्येतत्परमं रुचिवर्धनम् ॥ ५५ ॥ अरोचके लवङ्गाद्यं चूर्णम् । लवङ्गकङ्कोलमुशीरचन्दनं शुद्धं सनीलोत्पलकृष्णजीरकम् । एला सकृष्णाऽगुरुभृङ्गकेसरं कणा सविश्वा नलदं सहाम्बुना ॥ ५६ ॥ कर्पूरजातीफलवंशरोचनाः सिताष्टभागं समसूक्ष्मचूर्णितम् । सुरोचनं तर्पणमग्निदीपनं बलप्रदं वृष्यतमं त्रिदोषजित् ॥ ५७ ॥ उरोविवन्धं तमकं गलग्रहं सकासहिध्मारुचियक्ष्मपीनसम् । ग्रहण्यतीसारमथासृजः क्षयं प्रमेहगुल्मांश्च निहन्ति सत्वरम् ॥ ५८ ॥ अरुचौ द्वितीयं लवङ्गाद्यं चूर्णम् । लवङ्गजातीफलपिप्पलीनां भागं समं कर्षमितं प्रकुर्यात् । पलार्धमेकं मरिचस्य दद्यात्पलानि चत्वारि महौषधस्य ॥५९॥ सितासमं चूर्णमिदं प्रयोजयेत्प्रसह्य रोगान्प्रबलाभिहन्यात् । कासक्षयारोचकमेहगुल्ममर्शांसि चोग्रान्यग्रहणीप्रदोषान् ॥६०॥
७६ आयुर्वेदौयग्रन्थमाला । [ चूर्णाधिकारः हृत्कण्ठनासावदनप्रवोधं करोति सन्दीपयते च वह्निम् । तृतीयं लवङ्गाद्यं चूर्णम् । लवङ्गकङ्कोलवणावराङ्गातालीसचव्यत्रुटिग्रन्थिकौन्त्यः । शृङ्गेलवालुं लवली तुरङ्गी सकेसरा सोषणपत्रिका च ॥ ६१ ॥ द्विदाडिमं तिन्तिडिकोलमम्लं रोध्रत्वचा तूणभवं च तैलम् । कर्शांशमानानि पलं च शुण्ठ्याः सिता समांशा कलचन्द्रसंज्ञः ६२ लवङ्गनामा रुचिषक्तिदाता सुगन्धी हृद्यः क्षयरोहन्ता । बलाग्निसंवर्धन एष चूर्णो वरः प्रयोज्यो नृपतेर्हिताय ॥ ६३ ॥ रक्तपित्ते चन्दनाद्यं चूर्णम् । चन्दनं नलदं रोध्रमुशीरं पद्मकेसरम् । नागपुष्पं तथा बिल्वं भद्रमुस्तं सशर्करम् ॥ ६४ ॥ ह्रीवेरं चैव पाठा च कुटजस्य फलं त्वचम् । शृङ्गवेरं चातिविषा धातकी च रसाञ्जनम् ॥ ६५ ॥ आम्रास्थि जम्बूसारं च तथा मोचरसोद्भवम् । नीलोत्पलं समङ्गा च सूक्ष्मैला दाडिमत्वचः ॥ ६६ ॥ चतुर्विशतिरेतानि समभागानि कारयेत् । तन्दुलोदकसंयुक्तं क्षौद्रेण सह योजयेत् ॥ ६७ ॥ चलतां चामगर्भाणां स्तम्भनं परमुच्यते । अश्विभ्यां विहितं पूर्वं रक्तपित्तविनाशनम् ॥ ६८ ॥ हितं लोहितपित्तिनामर्शस्सु लोहितेषु च । मूर्च्छातमोपसृष्टानां तृषार्तानां च दापयेत् ॥ ६९ ॥ प्रतिश्याये व्योषादिचूर्णम् । व्योषचित्रकतालीसतन्तिडीकाम्लवेतसैः । अजाजीचव्यतुल्यांशैरेलात्वक्पत्रपादिकैः ॥ ७० ॥ १ 'कर्मूवलीसंभूतं तोयं तूणोद्भवं विदुः । महाभिकरं तच्च दन्तदार्ढ्यकरं परम् ॥' इति हस्तलिखितपुस्तके टिप्पणमुपलभ्यते ।
३.] गदनिग्रहः । ७७ व्योषादिकमिदं नाम पुराणगुडसंयुतम् । पीनसश्वासकासघ्नं रुचिस्वरकरं परम् ॥ ७१ ॥ शोषे षाडवं चूर्णम् । पिप्पलीनां शतं चैकं द्वे शते मरिचस्य च । सिता पलचतुष्कं च नागरार्धपलं तथा ॥ ७२ ॥ धान्यसौवर्चलाजाजीत्वगेलाश्चार्धकार्षिकाः । कोलदाडिमवृक्षाम्लयवान्यम्लवेतसः ॥ ७३ ॥ कार्षिकांश्चूर्णयेत्सर्वान् हृद्यं त्वन्नप्ररोचकम् । प्लीहहृद्ग्रहणीदोषपञ्चकासनिबर्हणम् ॥ ७४ ॥ षाडवं नाम गुल्मार्त्तिविबन्धानाहशूलनुत् । शोषे महाषाडवं चूर्णम् । तालीसोषणचव्यनागलवणैस्तुल्यांशकैर्द्विस्ततः कृष्णाग्रन्थिकतिन्तिडीकहुतभुक्त्वग्जीरकाख्यैर्युतः । विश्वैलाबदराम्लवेतसघनैर्धान्याजमोदायुतै- र्द्व्यंशैर्दाडिमबीजपादसहितैः श्रेष्ठः सितार्धांशकः ७५ कण्ठास्योदरहृद्विकारशमनः कायाग्निसन्दीपनो गुल्माध्मानविषूचिकागुदरुजाश्वासकृमिच्छर्दिहां । कासारुच्यतिसारमूढमरुतां हृद्रोगिणां कीर्तित- श्चूर्णोऽयं भिषजामतीव दयितः ख्यातो महाषाडवः ७६ अरोचके दाडिमाद्यं चूर्णम् । द्वे पले दाडिमादष्टौ खण्डाद्व्योषात्पलत्रयम् । त्रिसुगन्धिपलं चैकं चूर्णमेतच्च कारयेत् ॥ ७७ ॥ रोचनं दीपनं स्वर्यं पीनसश्वासकासजित् । कासे लघुतालीसाद्यं चूर्णम् । तालीसपत्रं मरिचं नागरं पिप्पली शुभा ॥ ७८ ॥ यथोत्तरं भागवृद्ध्यास्त्वगेले चार्धभागिके ।
पिप्पल्याष्टगुणा चात्र प्रदेया सितशर्करा ॥ ७९ ॥ श्वासकासारुचिहरं चूर्णं दीपनकं परम् । हृत्पाण्डुग्रहणीदोषप्लीहशोफज्वरापहम् ॥ ८० ॥ छर्द्यतीसारशूलघ्नं मूढवातानुलोमनम् । कल्पयेद्गुटिकां चैव चूर्णं पक्त्वा सितोपलाम् ॥ ८१ ॥ गुटिका ह्यग्निसंयोगाच्चूर्णाल्लघुतरा मता । गुल्मे शार्दूलं चूर्णम् । भागवृद्ध्युत्तरं हिङ्गुवचाविडमहौषधम् ॥ ८२ ॥ यवानीमभयां चैव चूर्णं मस्वादिभिः पिबेत् । विबन्धानाहशूलार्शोवर्ध्मश्वासोदरापहम् ॥ ८३ ॥ ग्रहणीरोगशूलघ्नं शार्दूलं नाम दीपनम् । उदरे नारायणं चूर्णम् । यवानी त्रिफला धान्यं हपुषा सोपकुञ्चिका ॥ ८४ ॥ पृथ्वीका पिप्पलीमूलमजगन्धा शठी वचा । शताह्वा जीरकं व्योषं स्वर्णक्षीरी सचित्रका ॥ ८५ ॥ द्वौ क्षारौ पौष्करं मूलं कुष्ठं लवणपञ्चकम् । विडङ्गं च समांशानि दन्तीभागत्रयं तथा ॥ ८६ ॥ त्रिवृद्विशाले द्विगुणे सातला च चतुर्गुणा । एष नारायणो नाम चूर्णो रोगगणापहः ॥ ८७ ॥ एनं प्राप्य निवर्तन्ते रोगा विष्णुमिवासुराः । तक्रेणोदरिभिः पेयो गुल्मिभिर्बदराम्बुना ॥ ८८ ॥ आबद्धवाते सुरया वातरोगे प्रसन्नया । दधिमण्डेन विट्सङ्गे दाडिमाम्बुभिरर्शसि ॥ ८९ ॥ परिकर्तरि तिक्ताम्लैरूष्णाम्भोभिरजीर्णके । भगन्दरे पाण्डुरोगे कासे श्वासे गलग्रहे ॥ ९० ॥ दंष्ट्राविषे मूलविषे सगरे कृत्रिमे विषे । गवाक्षीसिंहकोष्टेन पेयमेतद्विरेचनम् ॥ ९१ ॥
३.] गदनिग्रहः । ७९ उदरे हपुषाद्यं चूर्णम् । हपुषां काञ्चनक्षीरीं त्रिफलां कटुरोहिणीम् । नीलिनीं त्रायमाणां च सप्तलां त्रिवृतां वचाम् ॥ ९२ ॥ सैन्धवं काचलवणं पिप्पलीं चेति चूर्णयेत् । दाडिमत्रिफलामांसरसमूत्रसुखोदकैः ॥ ९३ ॥ पेयोऽयं सर्वगुल्मेषु प्लीह्नि सर्वोदरेषु च । श्वित्रकुष्ठेष्वजरके सदने विषमाग्निषु ॥ ९४ ॥ शोफार्शःपाण्डुरोगेषु कामलायां हलीमके । वातपित्तकफोद्भूतान् विकारान् सन्निवारयेत् ॥ ९५ ॥ उदरे नाराचकं चूर्णम् । विडङ्गाजाजिकाचव्यत्रिफलाधान्यकं वचा । द्वौ क्षारौ पञ्चलवणं ग्रन्थिकं पुष्करं शठी ॥ ९६ ॥ यवानी कुञ्चिकी कुष्ठं विशाला धान्यकं वचा । शतपुष्पाऽजगन्धा च हेमक्षीरी सनीलिका ॥ ९७ ॥ हपुषा त्रिवृता दन्ती सातला द्विगुणोत्तरा । चूर्णं नाराचकं पीतं मद्यमस्त्वम्लकाञ्जिकैः ॥ ९८ ॥ गुल्मार्शोग्रहणीरोगान् श्वासकासोदराञ्जयेत् । उदरे सुवर्णसमकं चूर्णम् । पञ्चकोलं समरिचं द्वौ क्षारौ त्रिफला वचा ॥ ९९ ॥ यवानी कुञ्चिका हिङ्गु तिन्तिडीकाम्लवेतसौ । धान्याजगन्धात्रायन्तीदाडिमं सयवाग्रजम् ॥ १०० ॥ कटुका कौटजं बीजं सैन्धवं च समान् पृथक् । त्रिवृता सप्तला दन्ती कम्पिल्लो नीलिकाऽभया ॥ १०१ ॥ स्वर्णक्षीरी च द्विगुणा सर्वमेकत्र चूर्णयेत् । उष्ट्रमूत्रे तथा गव्ये सप्ताहं परिभावयेत् ॥ १०२ ॥ द्विगुणां शर्करां चात्र दापयेत्तत्पिबेत्त्र्यहम् । गोमूत्रत्रिफलाक्षाररसैर्मद्यैः सुखाम्बुना ॥ १०३ ॥
८२ आयुर्वेदीयग्रन्थमाला । [ चूर्णाधिकारः
गुल्मे द्वितीयमग्निमुखं चूर्णम् । चित्रकहपुषाग्रन्थिकसैन्धवसौवर्चलाजमोदाभिः । बिडधान्यसठीपुष्करकर्कूराजाजितिन्तिडीकैश्च ॥ १२५॥ चव्ययवानीदाडिमपृथ्वीकैलाम्लवेतसैश्च समैः । अग्निमुखोऽयं चूर्णः काञ्जिकमस्तूष्णवारिसीधूनाम् १२६ पीतोऽन्यतमेन नृभिर्गुल्मारुचिवाह्रिसादर्शूलानि । दुर्नामप्लीहोदरकफवातगदान्विनाशयति ॥ १२७ ॥
गुल्मे बृहदग्निमुखं चूर्णम् । द्वौ क्षारौ चित्रकं पाठा विडङ्गं लवणानि च । सूक्ष्मैला तगरं भार्गी कारवी हिङ्गु पौष्करम् ॥ १२८॥ सठी दार्वी त्रिवृन्मुस्ता वचा चेन्द्रयवास्तथा । धात्रीजी रकवृक्षाम्लश्रेयस्यः सोपकुञ्चिकाः ॥ १२९ ॥ अम्लवेतसमम्लीका दाडिमं सक्रडुत्रयम् । भल्लातकाजमोदं च यवानी सुरदारु च ॥ १३० ॥ अभयाऽतिविषा चव्या हपुषारग्वधस्तथा । तिलमुष्ककशिग्रूणां कोकिलाक्षपलाशयोः ॥ १३१ ॥ क्षाराम्यूनि तुल्यानि सूक्ष्मचूर्णानि कारयेत् । लौहकिट्टं च सप्ताहं तप्तं गोमूत्रसेचितम् ॥ १३२ ॥ विद्वान्सुभावितं कृत्वा योगेऽस्मिन्रिक्षिपेत्ततः । मातुलुङ्गरसेनैव भावयेत्तु दिनत्रयम् ॥ १३३ ॥ दिनत्रयं तु शुक्तेन तथाऽऽर्द्रकरसेन च । सुभावितं ततः कृत्वा भक्तमध्ये प्रयोजयेत् ॥ १३४ ॥ एषोऽग्निकल्पचूर्णस्तु नाशयत्यचिराद्गदान् । अजीर्णकं तथाऽऽनाहं पञ्च गुल्मान् सुदुस्तरान् ॥ १३५॥ ग्रहणीपाण्डुरोगांश्च श्वासकासांश्च दारुणान् । अपस्मारं तथोन्मादं विभ्रमं च मदालयम् ॥ १३६ ॥
३.] गदनिग्रहः । ८३ प्रणोदत्युल्बणानेतानष्टमग्निं च दीपयेत् । समस्तव्यञ्जनोपेतं भक्तं कृत्वा तु भोजने ॥ १३७ ॥ प्रदद्यादस्य चूर्णस्य विडालपदकं भिषक् । ततस्तद्भवतां याति कोष्णत्वं च प्रपद्यते ॥ १३८ ॥ एतदग्निमुखं चूर्णं चूर्णराजो निगद्यते । ब्रह्मणा निर्मितं ह्येतदश्विभ्यां परिकीर्तितम् ॥ १३९ ॥ अग्निमान्द्ये वैश्वानरं चूर्णम् । लवणयवानीदीप्यककणनागरमुत्तरोत्तरं वृद्धम् । सर्वसमांशा पथ्या चूर्णो वैश्वानरः साक्षात् ॥ १४० ॥ गुल्मे द्वितीयं वैश्वानरं चूर्णम् । सैन्धवलवणात्कर्षौ द्वौ च यवान्यास्त्रयोऽजमोदायाः । पिप्पल्याश्चापि पलं पञ्चकर्षाणि शुण्ठ्याश्च ॥१४१ ॥ द्वादश हरीतकीनां चूर्णमिदं कारयेच्छ्लक्ष्णम् । मद्योष्णोदकयूषैः पिबेद्धि तक्रेण सर्पिषा वापि ॥१४२॥ गुल्मे तथा रुजायां पार्श्वोदरबस्तियोनिशूलेषु । वातानुलोमनकरं चूर्णं वैश्वानरं नाम ॥ १४३ ॥ गुल्मे तृतीयं वैश्वानरं चूर्णम् । माणिमन्थस्य भागौ द्वौ यवान्यास्तद्वदेव च । भागास्त्रयोऽजमोदाया नागराद्भागपञ्चकम् ॥ १४४ ॥ दश चैव हरीतक्याः सूक्ष्मचूर्णीकृताः शुभाः । मस्त्वारनालमद्येन सर्पिषोष्णोदकेन वा ॥ १४५ ॥ पीतं जयत्यामवातं गुल्मं हृद्वस्तिजं गदम् । वातानुलोमनं श्रेष्ठं चूर्णं वैश्वानरं स्मृतम् ॥ १४६ ॥ अग्निदीप्त्यर्थे ज्वालामुखं चूर्णम् । हिङ्ग्वम्लवेतसकटुत्रिकचित्रकेभ्यः सक्षारपौष्करफलत्रिकदाडिमेभ्यः ।
८४ आयुर्वेदियग्रन्थमाला । [चूर्णाधिकारः कर्षान्पृथग्गुडपलान्यवचूर्ण्य बद्ध्वा ज्वालामुखोऽयमनलस्य करोति दीप्तिम् ॥ १४७ ॥ उदावर्ते नाराचकं चूर्णम् । हिङ्गु कुष्ठं वचा चैव स्वर्जिका बिडमेव च । एको द्वावथ चत्वारस्तथाऽष्टौ षोडशैव च ॥ १४८ ॥ यथाक्रमकृतान् भागांश्चूर्णमानाहभेदनम् । एष नाराचविवृतो योगो नाराचको मतः ॥ १४९ ॥ उदावर्तेषु शूलेषु गुल्मेष्वथ भगन्दरे । हृद्रोगे च प्रमेहे च योगोऽयं शमनः परः ॥ १५० ॥ सारस्वतं चूर्णम् । कुष्ठाश्वगन्धसैन्धवपिप्पलिमरिचं द्विजीरकं शुण्ठी । पाठाऽजमोदसहिता समभागा चूर्णिता च वचा १५१ प्रातर्मधुसर्पिभ्यां बिडालपदमात्रमेतदवलिह्य । सप्ताहं पथ्याशी किन्नरमधुरस्वरो भवति मर्त्यः॥१५२॥ द्विगुणीकृते च तस्मिन्मेधावी भवति मृष्टवाक्यश्च । त्रिगुणीकृते च तस्मिञ्छ्लोकसहस्रं पठत्याशु ॥ १५३ ॥ दुर्मेधसः किलायं भिक्षोराचार्यलोकसेनेन । अप्रार्थितेन दत्तो योगवरो नन्दनविहारे ॥ १५४ ॥ बृहत्सारस्वतं चूर्णम् । कुष्ठाश्वगन्धे लवणाजमोदे द्वे जीरके त्रीणि कटूनि पाठा । माङ्गल्यपुष्पी च समानि चूर्णं कृत्वा तु चूर्णेन वचोद्भवेन १५५ तुल्येन युक्तं बहुशो रसेन तद्भावितं ब्रह्मविनिर्मितायाः । सर्पिर्मधुभ्यां च ततोऽक्षमात्रं लिह्यान्नरः सप्तदिनं हिताशी १५६ सौस्वर्यमिच्छन्मनसश्च धैर्यं मेधां तथेच्छन्द्विगुणं च कालम् । पठेन्नरः श्लोकसहस्रमह्ना तद्द्ब्रह्मयुक्तं त्रिगुणं च कालम्॥१५७॥ १ प्रत्येकं कर्षमितान् हिङ्ग्वादीनां यावन्तः कर्षास्तावन्ति गुडपलानीत्यर्थः ।
३.] गदनिग्रहः । ८५ सारस्वतमिदं चूर्णं ब्रह्मणा निर्मितं स्वयम् । जगद्धितार्थं लोकानां दुर्मेधसां विचेतसाम् ॥ १५८ ॥ अर्शोरोगे यवानिकाद्यं चूर्णम् । यवान्यतिविषा कुष्ठं वचा हिङ्गु हरीतकी । कत्तृणं रोहिषं मुस्तं रास्ना विबुधदारु च ॥ १५९ ॥ पिप्पल्यः शृङ्गवेरं च मरिचं चव्यचित्रकौ । मातुलुङ्गस्य मूलानि पलाशमूलकानि च ॥ १६० ॥ त्रिफला पुष्करसठी सूक्ष्मैला त्वग्हरीतकी । अजाजी चेति तच्चूर्णं पिबेदुष्णोदकासवैः ॥ १६१ ॥ एतदर्शोविबन्धानां प्रयोगादमृतोपमम् । श्वासकासे बिभीतकाद्यं चूर्णम् । बिभीतकं सातिविषं भद्रमुस्तं च पिप्पली । भार्गी च शृङ्गवेरं च सूक्ष्मचूर्णानि कारयेत् ॥ १६२ ॥ तानि चूर्णानि मद्येन पीतान्युष्णोदकेन वा । नाशयन्ति नृणां क्षिप्रं श्वासकासापतन्त्रकान् ॥ १६३ ॥ हिक्काकासे रेणुकाद्यं चूर्णम् । हरेणुश्चोरकं मुस्तं सूक्ष्मैलासठिनागरम् । त्वगेला पुष्करं शृङ्गी ह्रीवेरागरुकेसरम् ॥ १६४ ॥ यवान्यामलकी भार्गी पिप्पली सुरसा तथा । सिताचतुर्गुणं चूर्णं तत्पीतं लीढमेव वा ॥ १६५ ॥ अन्नपानप्रयुक्तं वा भक्षितं वापि केवलम् । कासहिक्काज्वरश्वासपार्श्वशूलं च नाशयेत् ॥ १६६ ॥ हिक्काश्वासे सुरसाद्यं चूर्णम् । सुरसा चोरकं शृङ्गी सूक्ष्मैला पुष्करं सठी । पिप्पलीत्वग्विडाक्षारशुण्ठीहिङ्ग्वम्लवेतसम् ॥ १६७ ॥ भार्गी तामलकी जीवा वृक्षाम्लश्चेति चूर्णितम् । हिक्काश्वासविबन्धाशःकासहृत्पार्श्वशूलनुत् ॥ १६८ ॥ ८
४६ आयुर्वेदौयग्रन्थमाला । [चूर्णाधिकारः तमकश्वासे शठ्याद्यं चूर्णम् । शठीचोरकजीवन्तीत्वग्मुस्तापुष्कराह्वयम् । सुरसातामलक्येलापिप्पल्यगरुनागरम् ॥ १६९ ॥ वालकं च समं चूर्णं कृत्वाष्टगुणशर्करम् । सर्वथा तमके श्वासे हिक्कायां च प्रयोजयेत् ॥ १७० ॥ दन्तरोगे तिक्तकं चूर्णम् । मुस्तं त्रिकटुकं पाठां त्वग्बीजं वत्सकस्य च । निम्बं पटोलं कटुकां हरिद्रां धन्वयासकम् ॥ १७१ ॥ जातीप्रवालं भूनिम्बं मधुकं सरसाञ्जनम् । त्रायमाणां गुडूचीं च त्रिफलां चेति चूर्णयेत् ॥ १७२ ॥ चूर्णोऽयं तिक्तको नाम कवलः प्रतिसारिणम् । दन्तमूलास्यगलजाञ्रोगानाशु व्यपोहति ॥ १७३ ॥ दन्तरोगे पीतकं चूर्णम् । पटोलदार्बीमधुकं प्रियङ्गुमतिविषा घनम् । सनागपुष्पं त्रायन्ती भूनिम्बं तिक्तरोहिणी ॥ १७४ ॥ विभीतकं दाडिमत्वग्घरिहालं मनःशिला । समांशानि त्रिभागांशं सशैलेयं रसाञ्जनम् ॥ १७५ ॥ पीतकं चूर्णमेतद्धि मध्वाक्तं प्रतिसारणम् । दन्तमूलगलास्योष्ठजिह्वातालुविकारिणाम् ॥ १७६ ॥ गलरोगे कालकं चूर्णम् । गृहधूमो यवक्षारः पाठा व्योषं रसाञ्जनम् । तेजोह्वा त्रिफला रोध्रं चित्रकं चेति चूर्णयेत् ॥ १७७ ॥ सक्षौद्रं धारयेदेतद्गलरोगविनाशनम् । कालकं नाम चूर्णं तु दन्तास्यगलरोगनुत् ॥ १७८ ॥ मुखरोगे द्वितीयं पीतकं चूर्णम् । मनःशिला यवक्षारो हरितालं ससैन्धवम् । दार्बी त्वगेति तच्चूर्णं माक्षिकेण समायुक्तम् ॥ १७९ ॥
३.] गदनिग्रहः । ८७ मूर्च्छितं घृतखण्डेन कण्ठरोगेषु धारयेत् । मुखरोगेषु च श्रेष्ठं पीतकं नाम चूर्णकम् ॥ १८० ॥ कासे जीवन्त्याद्यं चूर्णम् । जीवन्ती मधुकं पाठा त्वक्क्षीरी त्रिफला सठी । मुस्तैलापद्मकं द्राक्षा द्वे बृहत्यौ वितुन्नकम् ॥ १८१ ॥ सारिवा पौष्करं मूलं कर्कटाख्यं रसाञ्जनम् । पुनर्नवा लोहरजस्त्रायमाणा यवानिका ॥ १८२ ॥ भार्गी तामलकी वृद्धिविडङ्गं धन्वयासकम् । क्षारचित्रकचव्याम्लवेतसव्योषदारु च ॥ १८३ ॥ चूर्णीकृत्य समांशानि लेहयेन्मधुसर्पिषा । चूर्णं पाणितलं कृत्वा पञ्चकासान्व्यपोहति ॥ १८४ ॥ अतिसारे भूनिम्बाद्यं चूर्णम् । भूनिम्बकटुकाव्योषमुस्तकेन्द्रयवान् समान् । द्वौ चित्रकाद्वत्सकत्वग्भागान् षोडश चूर्णयेत् ॥ १८५॥ चूर्णं मस्त्वम्बुना पीतं ग्रहणीदोषगुल्मजित् । कामलाज्वरपाण्डुत्वमेहारुच्यतिसारजित् ॥ १८६ ॥ ग्रहण्यां पाठायं चूर्णम् । पाठा प्रतितिषा मुस्तं व्योषभूनिम्बवत्सकाः । तिक्ताचित्रकदुस्पर्शास्तुल्यैस्तैः कुटजः समः ॥ १८७ ॥ गुडशीताम्बुना पीतो ग्रहणीहाऽग्निकारकः । ग्रहण्यां नागराद्यं चूर्णम् । नागरातिविपामुस्तं भूनिम्बं सरसाञ्जनम् । वत्सकत्वक्फलं बिल्वं पाठां कटुकरोहिणीम् ॥ १८८॥ पिबेत्समांशकं चूर्णं सक्षौद्रं तण्डुलाम्बुना । पैत्तिके ग्रहणीदोषे रक्तं यश्चोपवेश्यते ॥ १८९ ॥ राजयक्ष्मणि सितोपलाद्यं चूर्णम् । सितोपलां तवक्षीरीं पिप्पलीं बहुलां त्वचम् ॥ १९० ॥
४८ आयुर्वेदीयग्रन्थमाला । [ चूर्णाधिकारः
अन्त्यादूर्ध्वं द्विगुणीतं लेहयेत्क्षौद्रसर्पिषा । चूर्णकं प्राशयेच्चैतच्छ्वासकासकफातुरम् ॥ १९१ ॥ सुप्तजिह्वारोचकिनं मन्दाग्निं पार्श्वशूलिनम् । हस्तपादांशदाहेषु ज्वरे रक्ते तथोर्ध्वगे ॥ १९२ ॥ योनिदोषे पुष्यानुगं चूर्णम् । पाठा जम्ब्वाम्रयोर्मज्जा शिलोद्भेदं रसाञ्जनम् । अम्बष्ठकी मोचरसः समङ्गा पद्मकेशरम् ॥ १९३ ॥ बाह्लिकातिविषे बिल्वं रोध्रं मुस्तं सगैरिकम् । कट्फलं मरिचं शुण्ठी मृद्वीका रक्तचन्दनम् ॥ १९४॥ कट्वङ्गवत्सकानन्ताधातकीमधुकार्जुनम् । पुष्येणोद्धृत्य तुल्यानि सूक्ष्मचूर्णानि कारयेत् ॥ १९५॥ तानि क्षौद्रेण संयोज्य पाययेत्तण्डुलाम्बुना । अर्शःसु चातिसारेषु रक्तं यच्चोपवेश्यते ॥ १९६ ॥ दोषा दन्तकृता ये च बालानां तांश्च नाशयेत् । योनिदोषं रजोदोषं जलं श्वेतं सपाण्डुरम् १९७ ॥ स्त्रीणां श्यावारुणं यच्च प्रसह्य विनिवर्तयेत् । चूर्णं पुष्यानुगं नाम हितमात्रेयपूजितम् ॥ १९८ ॥ पाण्डुरोगे योगराजं चूर्णम् । त्रिफलायास्त्रयो भागास्त्रयस्त्रिकटुकस्य च । भागश्चित्रकमूलस्य विडङ्गानां तथैव च ॥ १९९ ॥ मुस्ताकम्पिल्लयोर्भागो देयश्चापि पृथक् पृथक् । पञ्चाश्मजतुनो भागास्तथा रूप्यमलस्य च ॥ २००॥ माक्षिकस्य तु शुद्धस्य लोहस्य रजसस्तथा । अष्टौ भागाः सितायाश्च तत्सर्वं सूक्ष्मचूर्णितम् ॥ २०१ ॥ माक्षिकेणाप्लुतं स्थाप्यमायसे भाजने शुभे । उदुम्बरसमां मात्रां नरः खादेद्यथाग्निना ॥ २०२ ॥
गदनिग्रहः । ८९ दिने दिने प्रयोक्तव्यं जीर्णे भोज्यं यथेप्सितम् वर्जयित्वा कुलत्थांश्च काकमाचीं कपोतकान् ॥२०३॥ योगराजोऽयमाख्यातो योगोऽयममृतोपमः । रसायनमिदं श्रेष्ठं सर्वरोगहरं शिवम् ॥ २०४ ॥ पाण्डुरोगं विषं कासं यक्ष्माणं विषमज्वरम् । कुष्ठान्यजरकं मेहान् श्वासं हिक्कामरोचकम् । विशेषाद्गन्त्यपस्मारं कामलां गुदजानि च ॥ २०५ ॥ कुष्ठे त्रिफलाद्यं चूर्णम् । त्रिफलातिविषाकटुकानिम्बकलिङ्गवचापटोलानाम् । मागधिकरजनीद्वयपद्मकमार्गीमूर्वाविशालानाम् २०६॥ भूनिम्बपलाशानां दद्याद्विपलं त्रिवृत्त्रिगुणा । तैश्च समाना ब्राह्मी तच्चूर्णं सुसितुत् परम् ॥ २०७ ॥ मन्दाग्नौ व्योषाद्यं चूर्णम् । सव्योषं क्रिमिजित्सपञ्चलवणं साजाजिकं साभयं सक्षारं सहुताशनं सचविकं सग्रन्थिकं सत्रिवृत् । एतच्चूर्णमुदश्विता प्रपिबतोष्णेन वा वारिणा वह्निर्वृद्धिसुपैति सर्वगदजिद्ब्राजिष्णुतामावहेत् ॥२०८॥ पाण्डुरोगे खण्डसमकं चूर्णम् । त्रिफलाव्योषबिल्वाब्दपिप्पलीमूलचित्रकैः । त्वगेलापत्रचविकातिन्तिण्डीकाम्लवेतसैः ॥ २०९ ॥ समांशैर्धातुमाक्षीकं सर्वैस्तुल्यं प्रदापयेत् । लौहचूर्णं समं तैश्च सर्वैः खण्डं समांशकम् ॥ २१० ॥ चूर्णितं मधुना लेह्यं वटकान् वा समाक्षिकान् । भक्षयित्वा यथासात्म्यमनुपानं प्रयोजयेत् ॥ २११ ॥ नाशयेत्कुष्ठमालस्यं प्रमेहोदरकामलाः । पाण्डुरोगं तथा कासं हलीमकशिरोरुजम् ॥ २१२ ॥
९० आयुर्वेदियग्रन्थमाला । [चूर्णाधिकारः प्रसेकमरुचिं मूर्च्छां हृल्लासं मन्दवह्निताम् । रक्तपित्तं परीसर्पं श्वयथुं च नियच्छति ॥ २१३ ॥ शोफे पाठाद्यं चूर्णम् । पाठा सकुष्णा गजपिप्पली च निदिग्धिका नागरचित्रकौ च । सपिप्पलीमूलमजाजीरात्रिमस्तं च चूर्णं सुखतोयपीतम् । हन्यात्रिदोषं चिरजं च शोफं कुष्ठं च चूर्णस्य हि सुप्रयोगात् २१४ कुष्ठे बाकुचिकाद्यं चूर्णम् बाकुची त्रिफला वह्निर्भल्लातं च शतावरी । सिन्दुवारोऽश्वगन्धा च निम्बः पञ्चाङ्गसंयुतः ॥२१५॥ मासैकं भक्षितं हन्ति चूर्णमेषां समांशकम् । सर्वकुष्ठानि वातांश्च रोगिणां नात्र संशयः ॥ २१६ ॥ कुष्ठे पृथुनिम्बपञ्चकं चूर्णम् । काले त्वक्छदसारबीजकुसुमैर्निम्बस्य तुल्यांशकैः कृत्वा चूर्णमदः कटुत्रिकनिशाधात्र्यक्षपथ्यायुतैः । पञ्चारिष्टमिदं पयोमधुघृतैरुष्णाम्बुना वा पुमान् पीत्वा कासगरप्रमेहपिटिकाकुष्ठादिभिर्मुच्यते ॥ २१७॥ कुष्ठे बृहत्पञ्चनिम्बकं चूर्णम् । रसायनं प्रवक्ष्यामि ब्रह्मणाऽमिततेजसा । प्रोक्तं यच्च्यवनादिभिरुपयुक्तं महर्षिभिः ॥ २१८ ॥ पुष्पकाले तु निम्बस्य कुसुमानि समाहरेत् । फलकाले फलं चैव मूलं पत्रं त्वचं तथा ॥ २१९ ॥ चित्रकोऽथ विडङ्गानि व्याधिघातकशक्रजौ । भल्लातकं हरीतक्यः शुण्ठी चामलकैः सह ॥ २२० ॥ श्वदंष्ट्रा लोहचूर्णं च भृङ्गरस्वरसाभावितम् । अरिष्टखदिराभ्यां च भावयेत्पञ्चनिम्बकम् ॥ २२१ ॥ भावयित्वा पुनः पिष्टमेकस्थाने च कारयेत् । ततो विडालपदकं सर्पिषा माक्षिकेण वा ॥ २२२ ॥
गदनिग्रहः । ९१ सुखाम्बुना वा तत्पीतं तत्क्षणादेव जीर्यति । हन्यात्कुष्ठानि सर्वाणि सप्त चैव महाक्षयान् ॥ २२३ ॥ अर्शांसि वातगुल्मं च खालित्यं पलितानि च । वातरक्तं विशेषेण श्वित्रं कुष्ठं तथैव च ॥ २२४ ॥ कुष्ठनाशनमेतद्धि ब्रह्मणा गदितं पुरा । वातातपसहो ह्येष न चात्र नियमः कचित् ॥ २२५ ॥ ग्राम्यधर्मं च कुर्वाणो भोजनं सार्वकार्मिकम् । मासमात्रोपयोगेन जीवेद्वर्षशतं पुमान् ॥ २२६ ॥ सर्वकामप्रसक्तोऽपि सर्वरोगैः प्रमुच्यते । षण्मासमुपपयोगेन सर्पैरपि न दश्यते ॥ २२७ ॥ वर्षमात्रोपयोगेन जीवेद्वर्षशतत्रयम् । नास्मात्परमस्त्वन्यत्कुष्ठरोगस्य भेषजम् ॥ २२८ ॥ साध्यानि यानि कुष्ठानि तान्येवासुं प्रकुर्वतः । निवर्तन्ते यथा क्रुद्धे सौपर्णे पवनाशिनः ॥ २२९ ॥ मन्दाग्नौ लवणभास्करं चूर्णम् । पिप्पली पिप्पलीमूलं धान्यकं कृष्णजीरकम् । सैन्धवं च बिडं चैव पत्रं तालीसकेसरम् ॥ २३० ॥ एषां द्विपलिकान् भागान् पञ्च सौवर्चलस्य च । सारिवाजाजिशुण्ठीनामेकैकस्य पलं पलम् ॥ २३१ ॥ त्वगेला चार्धभागे च समुद्रात्कुडवद्वयम् । दाडिमात्कुडवं चैकं द्वे पले चाम्लवेतसात् ॥ २३२ ॥ एतच्चूर्णीकृतं श्लक्ष्णं गन्धाढ्यममृतोपमम् । लवणं भास्करं नाम भास्करेण विनिर्मितम् ॥ २३३॥ जगतोऽस्य हितार्थाय वातश्लेष्मामयापहम् । तक्रमस्तुसुराशुक्तसीधुकाञ्जिकयोजितम् ॥ २३४ ॥ जाङ्गलानूपमांसेषु भक्ष्येषु विविधेषु च । मन्दाग्नीनां खादयतां शक्तो भवति पावकः ॥ २३५ ॥
९२ आयुर्वेदीयग्रन्थमाला । [ चूर्णाधिकारः अर्शांसि ग्रहणीदोषशोषकुष्ठभगन्दरान् ॥ हृद्रोगमामदोषांश्च विविधानुदरस्थितान् ॥ २३६ ॥ प्लीहानं वातगुल्मं च श्वासकासोदरक्षयान् । शूलं च नाशयेत्तत्तुष्टो नृप इवापदः ॥ २३७ ॥ परिणामशूले सामुद्राद्यं चूर्णम् । सामुद्रं सैन्धवं क्षारौ रुचकं रोमकं बिडम् । दन्ती लोहरजः किट्टं त्रिवृत्सूरणकं समम् ॥ २३८ ॥ दधिगोमूत्रपयसा मन्दपावकपाचितम् । तं यथाग्निबलं चूर्णं किंचिदुष्णेन वारिणा ॥ २३९ ॥ जीर्णे जीर्णे तु भुञ्जीत मांसादिस्निग्धभोजनम् । नाभिशूलमुरःशूलं गुल्मप्लीहभवं च यत् । परिणामसमुत्थस्य शूलस्य च हितं परम् ॥ २४० ॥ तुम्बर्वाद्यं चूर्णम् । चूर्णं तदेतदिति तुम्बरुपुष्कराह्व- पथ्याम्लवेतसविडं रुचकं सहिङ्गु । सिन्धूद्भवेन सहितं यववारिपीतं शूलापतन्त्रकविकारहरं यदुक्तम् ॥ २४१ ॥ शूले हिङ्ग्वष्टकं चूर्णम् । व्योषाममोदयुतजीरकयुग्मसिन्धु- चूर्णं सरामठविभागमिति प्रयुक्तम् । हिङ्ग्वष्टकं हरति हृज्जठरान्तराल- शूलानि गुल्मगुदजग्रहणीविकारान् ॥ २४२ ॥ अरोचके द्वितीयं हिङ्ग्वष्टकं चूर्णम् । त्रिकटुकमजमोदा सैन्धवं जीरके द्वे समधरणधृतानामष्टमो हिङ्गुभागः । प्रथमकवलयुक्तं सर्पिषा चूर्णमेत- ज्जनयति जठराग्निं वातगुल्मं निहन्ति ॥२४३॥
३.] गदनिग्रहः । ९३ मन्दाग्नौ रामठायं चूर्णम् । रामठं रुचकं वह्निर्बचाजीरकनागरम् । विडङ्गं चित्रकं कुष्ठं कणामरिचवेतसम् ॥ २४४ ॥ दीप्यकं चेति सर्वाणि समभागानि कारयेत् । चूर्णमुष्णाम्बुना पीतं वह्निवृद्धिकरं परम् ॥ २४५ ॥ सर्वाङ्गशूले चित्रकाद्यं चूर्णम् । चित्रकं पिप्पलीमूलं पिप्पली गजपिप्पली । हिङ्गु पुष्करमूलं च दाडिमं कृष्णजीरकम् ॥ २४६ ॥ विडङ्गधान्यहपुषाशताह्वाहिङ्गुपत्रिकाः । चव्याम्लवेतसाजाजीबस्तगन्धाशटीवचाः ॥ २४७ ॥ तुम्बरूण्यजमोदा च यवानी रुचकं तथा । समभागानि सर्वाणि सर्वैस्तुल्यं तु नागरम् ॥ २४८ ॥ सूक्ष्मचूर्णं ततः कृत्वा मातुलुङ्गेन भावयेत् । ततो बिडालपदकं पिबेदुष्णेन वारिणा ॥ २४९ ॥ मद्येन मस्तुना वापि यूषेणापि रसेन वा । जयेत्सर्वाङ्गजं शूलं कोष्ठगं कुक्षिगं तथा ॥ २५० ॥ अर्शोजठरगुल्मघ्नं दीपनीयं विशेषतः । चित्रकाद्यमिदं चूर्णमामवातहरं परम् ॥ २५१ ॥ मन्दाग्नौ सैन्धवाद्यं चूर्णम् । सिन्धुसौवर्चलव्योषपथ्याजीरकचित्रकैः । विडङ्गयावशूकाह्वपाक्यग्रन्थिकरोमकैः ॥ २५२ ॥ तृवृच्चव्ययुतैश्चूर्णं तक्रेणाम्लाम्बुना पिबेत् । कल्पितं वह्निदीप्त्यर्थं प्रातरुत्थाय मानवः ॥ २५३ ॥ वातव्याधौ सामुद्राद्यं चूर्णम् । सामुद्रसौवर्चलसैन्धवानां क्षारो यवानामाजमोदभागः । हरीतकीपिप्पलीशृङ्गवेरं हिङ्गु विडङ्गं च समानि कुर्यात् ॥२५४॥
९४ आयुर्वेदीयग्रन्थमाला । [ चूर्णाधिकारः
एतानि चूर्णानि घृतप्लुतानि भुञ्जीत पिण्डान् प्रथमं तु पञ्च। अजीर्णवातं ग्रहगुल्मवातं वातप्रमेहं विषमं च वातम्। विषूचिकाकामलपाण्डुरोगान् श्वासं च कासं च हरेत्प्रयुक्तं २५५ नारसिंहं चूर्णम् । प्रस्थं शतावरीचूर्णं प्रस्थं गोक्षुरकस्य च । वाराह्या विंशतिपलं गडूच्याः पञ्चविंशतिः ॥ २५६ ॥ भल्लातकानां द्वात्रिंशच्चित्रकस्य दशैव तु । तिलानां लुञ्चितानां च प्रस्थं दद्यात्सुचूर्णितम् ॥ २५७ त्र्यूषणस्य पलान्यष्टौ शर्करायाश्च सप्ततिः । माक्षिकं शर्करार्धेन तदर्धेन च वै घृतम् ॥ २५८ ॥ शतावरीसमं देयं विदारीकन्दचूर्णकम् । एतानि सूक्ष्मचूर्णानि स्निग्धे भाण्डे निधापयेत् ॥२५९ पलार्धमुपयुञ्जीत यथेष्टं चात्र भोजनम् । एष मासोपयोगेन जरां हन्ति रुजामपि ॥ २६० ॥ वलीपलितखालित्यप्लीहव्याधींश्च पीनसान् । भगन्दरं मूत्रकृच्छ्रमश्मरींश्च भिनत्त्यपि ॥ २६१ ॥ अष्टादशैव कुष्ठानि तथाष्टावुदराणि च । प्रमेहं च महाव्याधिं पञ्चकासान् सुदुस्तरान् ॥ २६२ ॥ अशीतिर्वातजान् रोगांश्चत्वारिंशच्च पैत्तिकान् । विंशतिः श्लैष्मिकांश्चैव संसृष्टान् सान्निपातिकान् । एतान् सर्वरुजो हन्ति वृक्षमन्द्राशनिर्यथा ॥ २६३ ॥ सकाञ्चनाभो मृगराजविक्रमस्तुरङ्गवेगो जलदौघनिःस्वनः । स्त्रीणां शतं गच्छति सोऽतिरम्यः सुरूपवान् सत्ववतां वरिष्ठः ॥ पुत्रान् संजनयेद्धिमान्नारसिंहनिभांस्तथा । नारसिंहेति विख्यातश्चूर्णो रोगगणापहः ॥ २६५ ॥