गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 94, कुल 286 में से
संदर्भ में पढ़ें७४ आयुर्वेदौयग्रन्थमाला । [ चूर्णाधिकारः अरोचके कर्पूराद्यं चूर्णम् । कर्पूरचोचकङ्कोलजातीफलदलाः समाः । लवङ्गनागमरिचकृष्णाशुण्ठ्यो विवर्धिताः ॥ ४८ ॥ चूर्णं सितासमं हृद्यं रोचनं क्षयकासजित् । वैस्वर्यश्वासगुल्मार्शश्छर्दिकण्ठामयापहम् ॥ ४९ ॥ प्रयुक्तं चानपाने हि भेषजद्वेषिणां वरम् । अरोचके त्वगेलाद्यं चूर्णम् । त्वगेलाव्योषधान्याम्लनागकेसरजीरकम् । लवलीफलकङ्कोलं लवङ्गं जातिपत्रिका ॥ ५० ॥ भागानिमान् समान् कृत्वा दद्याद्विगुणितां सिताम् । ईषत्कर्पूरसंयुक्तं चूर्णं रुचिकरं परम् ॥ ५१ ॥ गुल्मे त्रिलवणाद्यं चूर्णम् । त्रिलवणहपुषाजमोदाजगन्धावचाहिङ्गुपाठोपकुञ्चीशठी जी- रकाजाजिकुस्तुम्बरीवाष्पिकाः कारवी तुम्बरुः स्वर्जिका या- वशूको जटा पौष्करं दाडिमं तिन्तिडीकं विडङ्गानि भार्गी वरी वेधको, मिशिमरिचगजोपकुल्याऽभया पञ्चकोलं निकुम्भा विशाला यवानी सुराह्वं च तत्सर्वमेकत्र चूर्णीकृतं बीजपूरार्द्रके- णासकृद्भावितं यः पिबेत्प्रातराहारकालेऽथवा मासमात्रं हिताशी नरः। प्लुतमशिशिरवारिणा जीर्णमद्येन तक्रेण मूत्रेण कोलाम्भ- सा मस्तुना सर्पिषौष्ट्रेण दुग्धेन कौलत्थयूषेण वा क्षारनिश्चोत- तोयेन वा दाडिमाद्वा रसेनात्मवानेभिरेवौषधैः साधितं वा घृतं, हृदयगुदकटीयकृत्प्लीहजं तस्य शूलं प्रणश्येतथा गुल्मविष्टम्भ- दुर्नामकृच्छ्रोदराध्मानहिध्मारुचिश्लीपदश्वासकासाः प्रपक्तुं च शक्तो भवेत्पावकः प्राश्यमानानि पाषाणचूर्णान्यपि ॥ ५२ ॥ १ अत्र दण्डकाख्यश्छन्दः । तत्र प्रथमं द्वौ न गणौ, अनन्तरं द्वाविंशती रगणा ज्ञेयाः ।