गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 95, कुल 286 में से
संदर्भ में पढ़ें३.] गदनिग्रहः। ७५ अरोचके सूक्ष्मैलाद्यं चूर्णम् । सूक्ष्मैला केसरं त्वक् पत्रं तालीसकं तुगा । पृथ्विका दाडिमं धान्यं जीरकं च द्विकार्षिकम् ॥५३॥ पिप्पल्यः पिप्पलीमूलं चव्यचित्रकनागरम् । मरिचं दीप्यकं चैव वृक्षाम्लं साम्लवेतसम् ॥ ५४ ॥ अजमोदाजगन्धे च दधित्थं चेति कार्षिकम् । प्रदेयमिह शुद्धायाः शर्करायाश्चतुष्पलम् । चूर्णमग्निप्रदं ह्येतत्परमं रुचिवर्धनम् ॥ ५५ ॥ अरोचके लवङ्गाद्यं चूर्णम् । लवङ्गकङ्कोलमुशीरचन्दनं शुद्धं सनीलोत्पलकृष्णजीरकम् । एला सकृष्णाऽगुरुभृङ्गकेसरं कणा सविश्वा नलदं सहाम्बुना ॥ ५६ ॥ कर्पूरजातीफलवंशरोचनाः सिताष्टभागं समसूक्ष्मचूर्णितम् । सुरोचनं तर्पणमग्निदीपनं बलप्रदं वृष्यतमं त्रिदोषजित् ॥ ५७ ॥ उरोविवन्धं तमकं गलग्रहं सकासहिध्मारुचियक्ष्मपीनसम् । ग्रहण्यतीसारमथासृजः क्षयं प्रमेहगुल्मांश्च निहन्ति सत्वरम् ॥ ५८ ॥ अरुचौ द्वितीयं लवङ्गाद्यं चूर्णम् । लवङ्गजातीफलपिप्पलीनां भागं समं कर्षमितं प्रकुर्यात् । पलार्धमेकं मरिचस्य दद्यात्पलानि चत्वारि महौषधस्य ॥५९॥ सितासमं चूर्णमिदं प्रयोजयेत्प्रसह्य रोगान्प्रबलाभिहन्यात् । कासक्षयारोचकमेहगुल्ममर्शांसि चोग्रान्यग्रहणीप्रदोषान् ॥६०॥