गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 176, कुल 286 में से
संदर्भ में पढ़ें१५८ आयुर्वेदौयग्रन्थमाला । [लेहाधिकारः कुलिङ्गः कृष्णसारश्च तेषां मांसानि योजयेत् । नालिकेरपयःपानं सुनिषण्णकवास्तुकम् ॥ २१५ ॥ शुष्कमूलकजीवाख्यं पटोलं बृहतीफलम् । फलं वार्ताकपक्वामं खर्जूरं स्वादुदाडिमम् ॥ २१६ ॥ ककारपूर्वकं यच्च मांसं चानूपसंभवम् । वर्जनीयं विशेषेण खण्डखाद्यं प्रकुर्वता ॥ २१७ ॥ रक्तपित्ते द्वितीयो वासावलेहः । तुलामादाय वासायाः पचेदष्टगुणे जले । तेन पादावशेषेण पाचयेदाढकं भिषक् ॥ २१८ ॥ चूर्णानामभयानां तु खण्डाच्छुद्धाच्छतं तथा । द्वे पले पिप्पलीचूर्णात्सिद्धशीते च माक्षिकात् ॥२१९। कुडवं पलमानं तु चातुर्जातं सुचूर्णितम् । क्षित्वा विलोडितं खादेद्रक्तपित्ती यथाबलम् ॥२२०। श्वासकासक्षतच्छर्दिर् यक्ष्माणं च नियच्छति । श्वासकासयोर्भार्गीगुडावलेहः । शतं संग्राह्य भार्ग्यास्तु दशमूल्यास्तथा परम् ॥ २२१। शतं हरीतकीनां च पचेत्तोये चतुर्गुणे । पादशेषे च तस्मिंस्तु रसे वस्त्रपरिस्रुते ॥ २२२ ॥ आलोड्य च तुलां पूतां गुडस्य त्वभयां ततः । पुनः पचेत्तु मृद्वग्नौ यावल्लेहत्वमागतम् ॥ २२३ ॥ शीते तु मधुनश्चात्र षट्पलानि प्रदापयेत् । त्रिकटु त्रिसुगन्धं च पालिकं च पृथक् पृथक् ॥२२४। कर्षद्वयं यवक्षारं संचूर्ण्य प्रक्षिपेत्ततः । भक्षयेदभयामेकां लेहस्यार्धपलं लिहेत् ॥ २२५ ॥ श्वासं सुदारुणं हन्ति कासं पञ्चविधं तथा । स्वरवर्णप्रदो ह्येष जठरानलदीपनः ॥ २२६ ॥ हरीतकीशतैकस्य वारिप्रस्थमिहाधिकम् ।