गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 179, कुल 286 में से
संदर्भ में पढ़ें५.] गदनिग्रहः । १६१ अभया चामृता मुस्ता जीवकर्षभकौ शठी । ऋद्धिः पुनर्नवा मेदा सेव्यं चन्दनमुत्पलम् ॥ २५१ ॥ विदारी वृषमूलानि काकोली काकनासिका । एषां पलोन्मितान् भागान् शतान्यामलकस्य च २५२ पञ्च दद्यात्तदैकध्यं जलद्रोणे विपाचयेत् । ज्ञात्वा गतरसान्येतान्यौषधान्यथ तं रसम् ॥ २५३ ॥ तच्चामलकमुद्धृत्य निष्कुलं तैलसर्पिषोः । पलद्वादशके भृष्ट्वा दद्याच्चार्धतुलां भिषक् ॥ २५४ ॥ मत्स्यण्डिकायाः शुद्धाया लेहवत्साधु साधयेत् । षट्पलं मधुनश्चात्र सिद्धशीते प्रदापयेत् ॥ २५५ ॥ चतुष्पलं तुगाक्षीर्याः पिप्पल्या द्विपलं तथा । पलमेकं निदध्याच्च त्वगेलापत्रकेसरात् ॥ २५६ ॥ इत्ययं च्यवनप्राशः परमुक्तो रसायनः । कासश्वासहरश्चैव विशेषेणोपदिश्यते ॥ २५७ ॥ क्षीणक्षतानां वृद्धानां बालानां चाङ्गवर्धनः । स्वरक्षयमुरोरोगं हृद्रोगं वातशोणितम् ॥ २५८ ॥ पिपासां मूत्रशुक्रस्थान्दोषांश्चाप्यपकर्षति । अस्य मात्रां प्रयुञ्जीत योपरुन्ध्यान्न भोजनम् ॥ २५९ ॥ अस्य प्रयोगाच्च्यवनः सुवृद्धोऽभूत्पुनर्युवा । मेधां स्मृतिं कान्तिमनामयत्वमायुःप्रकर्षं बलमिन्द्रियाणाम् । स्त्रीषु प्रहर्षं परमग्निवृद्धिं वर्णप्रसादं पवनानुलोम्यम् ॥ २६० ॥ रसायनस्यास्य नरः प्रयोगाल्लभेत जीर्णोऽपि कुटीप्रवेशात् । जराकृतं रूपमपास्य सर्वं बिभर्ति रूपं नवयौवनस्य ॥ २६१ ॥ जरायां ब्राह्मरसायनावलेहः । पञ्चानां पञ्चमूलानां भागान्दशपलोन्मितान् । हरीतकीसहस्रं च त्रिगुणामलकं नवम् ॥ २६२ ॥