गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 180, कुल 286 में से
संदर्भ में पढ़ेंAn accurate transcription of the Sanskrit/Ayurvedic text presented in the image:
१६२ आयुर्वेदीयग्रन्थमाला । [लेहाधिकारः विदारिगन्धां बृहतीं पृश्निपर्णी निदिग्धिकाम् । विद्याद्विदारिगन्धाद्यं श्वदंष्ट्रापञ्चमं गणम् ॥ २६३ ॥ बिल्वोऽग्निमन्थः श्योनाकः काश्मर्यः पाटलिस्तथा । पुनर्नवा शूर्पपर्ण्यौ बला चैरण्ड एव च ॥ २६४ ॥ जीवकर्षभकौ वीरा जीवन्ती सशतावरी । शरेक्षुदर्भकासानां शालीनां मूलमेव च ॥ २६५॥ एतेषां पञ्चमूलानां पञ्चानामुपकल्पयेत् । भागान्यथोक्तान् तत्सर्वं साध्यं दशगुणेऽम्भसि २६६ दशभागावशेषं तु पूतं तद्ग्राहयेद्रसम् । हरीतक्यश्च ताः सर्वाः सर्वाण्यामलकानि च ॥ २६७॥ तानि सर्वाण्यनस्थीनि फलान्यापोथ्य कूर्चकैः । विनीय तस्मिन्निर्यूहे चूर्णानीमानि दापयेत् ॥ २६८ ॥ मण्डूकपर्ण्याः पिप्पल्याः शङ्खपुष्प्याः प्लवस्य च । मुस्तानां सविडङ्गानां चन्दनागुरुणोस्तथा ॥ २६९ ॥ मधुकस्य हरिद्राया वचायाः कनकस्य च । भागान् पञ्चपलांस्कृत्वा सूक्ष्मैलायास्त्वचस्तथा ॥२७०॥ सितोपलासहस्रं च चूर्णितं तुल्याधिकम् । तैलं स्यादाढकं तत्र तथा त्रीणि च सर्पिषः ॥ २७१॥ साध्यं ताम्रमये पात्रे तत्सर्वं मृदुनाऽग्निना । ज्ञात्वा लेहमदग्धं च शीतं क्षौद्रेण संसृजेत् ॥ २७२ ॥ क्षौद्रप्रमाणं स्नेहार्धं तत्सर्वं घृतभाजने । तिष्ठेत्सम्मूच्छितं तस्य मात्रां काले प्रयोजयेत् ॥ २७३ ॥ या नोपरुन्ध्यादाहारमेवं मात्रा तु सा स्मृता । षष्टिकः पयसा चात्र जीर्णे भोजनमिष्यते ॥ २७४ ॥ वैखानसा वालिखिल्यास्तथा चान्ये तपोधनाः । रसायनमिदं प्राश्य बभूवुरमितायुषः ॥ २७५ ॥