भारतकोश
गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

पृष्ठ 182, कुल 286 में से

संदर्भ में पढ़ें
पृष्ठ 182

१६४ आयुर्वेदीयग्रन्थमाला । [लेहाधिकारः विदारीगोक्षुरव्याघ्रीपौष्करं च पलोन्मितम् । शतानि पञ्च धात्र्याश्च जलद्रोणे विपाचयेत् ॥२८८॥ पलद्वादशके भृष्टा धात्रीस्तास्तैलसर्पिषोः । सितार्धतुलया युक्ताः क्वाथं लौहे पुनः पचेत् ॥ २८९ ॥ द्वे पिप्पल्या पले वांश्याश्चत्वारः षट् च माक्षिकात् । चातुर्जातपलं तस्मिन् सिद्धशीते नियोजयेत् ॥ २९० ॥ हृद्रोगश्वासहृत्कासवातरक्तक्षयार्तिजित् । सेव्योऽयं च्यवनप्राशः स्वर्यो वृष्यो रसायनः ॥२९१॥ शोषेऽमृतप्राशोऽवलेहः । छागमांसरसक्षीरविदारीक्षुरसाढकम् । धात्रीफलरसं चैव मृद्वीकानां रसं घृतम् ॥ २९२ ॥ पृथक्प्रस्थोन्मितैरेतैः पचेत्कर्षसमैर्भिषक् । वाताममधुकाक्षोटशृङ्गाटककसेरुकाः ॥ २९३ ॥ परूषकं शठी भार्गी जीवन्ती च पुनर्नवा । खर्जूरं पिप्पली शृङ्गी ह्यात्मगुप्ता सजीवका ॥ २९४ ॥ सिंही व्याघ्रपदी स्याच्च द्राक्षा तामलकी स्थिरा । बदरं कदरं चैव जीवनीयानि यानि च ॥ २९५ ॥ तत्सिद्धं राजते पात्रे निधेयं साधु साधितम् । प्रस्थार्धं मधुनः शीते शर्करार्धतुलां तथा ॥ २९६ ॥ त्वगेलापत्रमरिचचूर्णं चार्धपलोन्मितम् । विनीय भक्षयेन्मात्रां लिह्याद्वापि यथाबलम् ॥ २९७॥ बलवर्णकरं वृष्यं बृंहणं स्वरबोधनम् । कासश्वासारुचिं हन्यात्तृण्मूर्च्छासृग्दरं तथा ॥ २९८ ॥ परं क्षीणक्षतहितं वन्ध्यापुत्रप्रदायि च । अमृतप्राशनामेदममृतं देवताविव ॥ २९९ ॥ इति श्रीवैद्यसोढलप्रथिते गदनिग्रहेऽवलेहाधिकारः पञ्चमः संपूर्णः ॥

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक) · पृष्ठ 182, कुल 286 में से · BharatKosha