गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 183, कुल 286 में से
संदर्भ में पढ़ें६.] गदनिग्रहः । १६५ ॥ अथातः षष्ठ आसवाधिकारः प्रारभ्यते ॥ कुमार्थासवः । द्रोणमानं कुमार्यास्तु रसं भाण्डे निधापयेत् । तुलार्धं दशमूलं तु तदर्धं पौष्करी जटा ॥ १ ॥ तत्समं धन्वयासं च चित्रार्थं च परिक्षिपेत् । प्रस्थार्थममृता ज्ञेया तदर्थमभया तथा ॥ २ ॥ लोध्रकामलकं पथ्यं मञ्जिष्ठा च कलिद्रुमः । चव्यं च कुष्ठमधुकं कपित्थं सुरदारुकम् ॥ ३ ॥ कृमिशत्रुर्मागधिका भार्गी स्यादष्टवर्गकम् । जीरकं क्रमुको रास्ना शठी रेणुकमेव च ॥ ४ ॥ शृङ्गी निशा प्रियङ्गुश्च मांसी मुस्ता च सारिवा । वासा वरी शक्रबीजं नागकेसरमेव च ॥ ५ ॥ पुनर्नवा समांशानि षड्भिर्द्रोणैर्जलस्य तु । क्वाथयेदनया रीत्या चतुर्थांशं जलं नयेत् ॥ ६ ॥ त्रिंशत्पला च मृद्वीका दन्तसंख्यापलं मधु । गुडस्तुलाचतुष्कं च तदर्धा धातकी भवेत् ॥ ७ ॥ पलद्वयं लवङ्गानि कङ्कोलं मलयोद्भवम् । चातुर्जातं तथा कृष्णा मरिचं जातिपत्रकम् ॥ ८ ॥ आकल्लुकं जातिफलं कपिकच्छुश्च दीप्यकम् । वचा खदिरसारश्च दहनं जीरकं तथा ॥ ९ ॥ यवानी वालकं विश्वा मुस्ता धान्यं हरीतकी । हपुषा तिन्तिडीकं च चूर्णमेषां प्रयोजयेत् ॥ १० ॥ भाण्डे पुराणे सुस्निग्धे धूपिते गन्धभेषजैः । कोष्ठसारे तथा तप्ते भूमौ मासं विनिःक्षिपेत् ॥ ११ ॥ यो रोगी प्रातरुत्थाय पलमेकं तु भक्षयेत् । धातुक्षयं जयेत्कासं श्वासं पञ्चविधं तथा ॥ १२ ॥