गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 185, कुल 286 में से
संदर्भ में पढ़ें६.] गदनिग्रहः । १६७ कपित्थम्गलिण्डिकाकार्कन्धूबदरीफलैः । पियालपनसप्लक्षन्यग्रोधोदुम्बरैः सह ॥ २४ ॥ कपीनपीलुबकुलाजमोदाशङ्खिनीफलैः । शृङ्गाटाश्वत्थसंयुक्तः षड्विंशाः फलतो मताः ॥ २५॥ एकादश मूलासवाः । विदारिगन्धाश्वगन्धाकृष्णगन्धाशतावरी- । श्यामोरूबूकदन्तीभिर्बिल्ववह्नित्रिवृत्समैः ॥ २६ ॥ मूलैरेकादशैते तु मुनिभिर्मूलतो मताः । विंशतिः सारासवाः । शालप्रियङ्गुस्यन्दनचन्दनखदिरार्जुनैश्च कदरयुतैः । अशनाश्वकर्णसप्तपर्णशमीशिंशिपासहितैः ॥ २७ ॥ अरिमेदतिन्दुकणिहीशुक्तिशिरीषैश्च वञ्जुलसमेतैः । धन्वनमधुकसारैर्विंशतिरात्रेयमुनिनोक्ताः ॥ २८ ॥ दश पुष्पासवाः । पद्मोत्पलनलिनकुमुदसौगन्धिकपौण्डरीकशतपत्रैः । पुष्पैर्मधूकजातैः प्रियङ्गुना धातकीकुसुमैः ॥ २९ ॥ दश पुष्पासवाः पूर्वं मुनिभिः परिकीर्तिताः । चत्वारः काण्डासवाः । चत्वारः काण्डकैः पुण्ड्रेक्षुकाण्डेक्ष्विक्षुवालिकैः ॥३०॥ द्वौ पत्रासवौ । पटोलकतमालाभ्यां द्वौ हि पत्रासवौ मतौ । चत्वारस्त्वगासवाः । तिल्वैलवालुक्रमुकैः सलोध्रैस्त्वकृता हिताः ॥ ३१ ॥ शर्करासवः । शर्करासवं एवैको द्रव्यसंयोगमागतः । आसवानां विकल्पसंस्कारगुणाः । विकल्पा बहुधा ज्ञेयाः संस्कारश्च यथाविधिः ॥ ३२ ॥