गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 186, कुल 286 में से
संदर्भ में पढ़ें१६८ आयुर्वेदीयग्रन्थमाला । [आसवाधिकारः स्वयोनिसंस्कृता ह्येते स्वं स्वं कर्म प्रकुर्वते । संयोगसंस्कृतैर्देशकालमात्रस्वभावतः ॥ ३३ ॥ पृथक्तेषां स्वभावांस्तु ज्ञात्वा कार्ये प्रयोजयेत् । श्लोकद्वयमिहार्थे तु मुनिरात्रेय उक्तवान् ॥ ३४ ॥ मनःशरीराग्निवलप्रदानामश्मशोकारुचिनाशनानाम् । हर्षप्रदानां प्रवरासवानामशीतिरुक्ता चतुरुत्तरैषा ॥ ३५ ॥ शरीररोगप्रकृतौ मतानि तत्त्वेन चाहारविनिश्चयाय । उवाच यज्ञःपुरुषादिकेऽस्मिन्मुनिस्तथाग्याणि वरासवांश्च ३६ वातव्याधौ विडङ्गासवः । विडङ्गं पिप्पलीमूलं पाठा धात्र्येलवालुकम् । कुटजत्वक्फलं रास्नां भार्गी पञ्चपलोन्मितान् ॥ ३७ ॥ अष्टद्रोणेऽम्भसः पक्त्वा द्रोणशेषं तु कारयेत् । पूते शीते क्षिपेत्तस्मिन्माक्षिकस्य शतत्रयम् ॥ ३८ ॥ धातक्या विंशतिपलं चूर्णं कृत्वा तु दापयेत् । व्योषस्य तु पलान्यष्टौ त्रिजातद्विपलान्यपि ॥ ३९ ॥ फलिनीहेमतोयानां सरोद्राणां पलं पलम् । घृतभाण्डे समाधाय मासमेकं विधारयेत् ॥ ४० ॥ एष योगो हरत्येव प्रत्यष्ठीलाभभगन्दरान् । ऊरुस्तम्भाश्मरीमेहगण्डमालां सविद्रधिम् ॥ ४१ ॥ आढ्यवातं हनुस्तम्भं विडङ्गाख्यो महासवः । प्रमेहे रोध्रासवः । रोध्रं शठीं पुष्करमूलमेलां मूर्वा विडङ्गं त्रिफलां यवानीम् । चव्यं प्रियङ्गुं क्रमुकं विशालां किराततिक्तं कटुरोहिणीं च ४२ भार्गीनतं चित्रकपिप्पलीनां मूलं सकुष्ठातिविषां च पाठाम् । कलिङ्गकान् केसरमिन्द्रसाह्वं नखं सपत्रं मरिचं प्लवं च ॥ ४३ ॥ द्रोणेऽम्भसः कर्षसमानि पक्त्वा पूते चतुर्भागजलावशेषे । रसेऽर्धमाघे संक्षुनः प्रदक्ष्य पक्षं निधेयो घृतभाजनस्थः ॥ ४४ ॥