गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 205, कुल 286 में से
संदर्भ में पढ़ें६.] गदनिग्रहः । १८५ वचाया वातकुम्भस्य लशुनस्यैलया सह । लवङ्गस्यापि प्रत्येकं पलार्धं कृमिनाशनः ॥ २३२ ॥ व्योषस्यापि पलं सार्धमभयैकपला मता । चुल्यग्रे वासरान्सप्त निक्षिप्याशु समुद्धरेत् ॥ २३३ ॥ प्लीहोदरहरं दिव्यं मूढवातकफापहम् । अशीतिवातशमनं पञ्चमूत्रासवं विदुः ॥ २३४ ॥ धातुक्षये हरीतक्यासवः । हरीतकीनां प्रस्थार्धं धात्रीप्रस्थद्वयं तथा । दशमूलशतार्धं च पौष्करं च तदर्धकम् ॥ २३५ ॥ तत्तुल्यं चित्रकं दद्याच्चित्रकार्धा दुरालभा । गुडूच्या विंशतिपलं विशालापलपञ्चकम् ॥ २३६ ॥ खदिरस्य पलान्यष्टौ तदर्धं बीजपूरकम् । मञ्जिष्ठा मधुकं कुष्ठं कपित्थं देवदारुकम् ॥ २३७ ॥ विडङ्गं चविका रोध्रं भार्ङ्गी स्यादेलवालुकम् । संवर्तकं पिप्पलीं च क्रमुकं श्वठिसुप्रभम् ॥ २३८ ॥ प्रियङ्गुसारिवामांसीनागकेसरेणुकम् । त्रिवृतां रजनीं रास्नां मेषशृङ्गीं पुनर्नवाम् ॥ २३९ ॥ शताह्वां रोहिणीं दन्तीं पलांशान्क्वाथयेज्जले । चतुर्थपादशेषे तु द्राक्षां षष्टिपलां क्षिपेत् ॥ २४० ॥ त्रिंशत्पलानि धातक्या गुडाच्छुद्धाच्चतुःशतम् । द्वात्रिंशत्पलिकं क्षौद्रं सर्वमेकत्र कारयेत् ॥ २४१ ॥ भाण्डे पुराणे सुस्निग्धे मांसीमरिचधूपिते । धूपिते च पुनर्दद्यात्पिप्पलीनां पलद्वयम् ॥ २४२ ॥ जातीफलं लवङ्गं च त्वगेलापत्रकेसरान् । कर्षमात्रां च नेपालीं दत्त्वा पक्षं निधापयेत् ॥ २४३ ॥ १. 'गुप्तं' इति पाठान्तरम् ।