गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 206, कुल 286 में से
संदर्भ में पढ़ें१८६ आयुर्वेदीयग्रन्थमाला । [ आसवाधिकारः कतकफलचूर्णेऽपि क्षिप्ते निर्मलता भवेत् । पक्षादूर्ध्वं पिबेद्यस्तु मात्रया च यथाबलम् ॥ २४४ ॥ धातुक्षयं जयेत्पीतः कासं पञ्चविधं तथा । अर्शांसि षट्प्रकाराणि तथाऽष्टावुदराणि च ॥२४५ ॥ प्रमेहं च महाव्याधिमरुचिं पाण्डुतां तथा । सर्वान् वातान् तथाऽऽमं श्वासं छर्दिं तथैव च ॥२४६॥ अष्टादशैव कुष्ठानि शोषं शूलं भगन्दरम् । शर्करां मूत्रकृच्छ्रं च ह्यश्मरीं च विनाशयेत् ॥ २४७ ॥ कृशानां च महापुष्टिं कुरुते च महाबलम् । महावेगो महातेजा महावीर्यबलोद्धतः । कामपुष्टिं करोत्येष वन्ध्यानां पुत्रदो भवेत् ॥ २४८ ॥ आवर्तक्याद्यासवः । १ नेत्रभेषजशिफापलाष्टकं सार्धमैलपलमर्धमस्तकीम् । हेमजार्धपलमेकतः कृतं द्रोणवारिमिलितं दिनत्रयात् ॥२४९॥ यः पिबेद्दिपलिकं दिनोदये नीरमस्तसमये समाहितः । तस्य नश्यति कटीसमुद्भवं दद्रु मासयुगलेन निश्चितम् ॥२५० क्षये दशमूलासवः । दशमूलतुलार्धं तु पौष्करं च तदर्धकम् । • तत्तुल्यं चित्रकं दद्याच्चित्रकार्धं दुरालभा ॥ २५१ ॥ गुडूच्या विंशतिपलं रोध्रं दद्याच्च तत्समम् । खदिरस्य पलान्यष्टौ तत्समं बीजसारकम् ॥ २५२ ॥ प्रस्थमामलकीनां च तदर्धा च हरीतकी । मञ्जिष्ठा मधुकं कुष्ठं कपित्थं देवदारु च ॥ २५३ ॥ १ नेत्रभेषजं 'सना' 'सोनामुखी' इति ख्यातं, तन्मूलं अष्टपलं; ऐलः 'एलिया' 'मुसव्वर' इति ख्यातः, तस्य सार्धपलं; मस्तकी 'रूमीमस्तकी' इति ख्याता, तस्या अर्धपलं; हेमजा 'रेवंदचीनी' इति ख्याता, तस्या अर्धपलं; अन्य- त्स्फुटम् ।