गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 208, कुल 286 में से
संदर्भ में पढ़ें१८८ आयुर्विदीयग्रन्थमाला। [आसवाधिकारः पुनर्नवा कायफलं प्रियङ्गुः कर्पूरकं कृष्णमजाजिविस्रे। त्रिवृच्छिवाच्छलिधमासकं च लज्जालुरोहितकलिङ्गमूलम् २६७ अमूनि सर्वाणि महौषधानि चत्वारि चत्वारि पलोन्मितानि। मांसीचतुर्जातकणालवङ्गं जातीफलं चन्दनलोहचूर्णम् ॥२६८॥ प्रमाणतो द्विद्विपलान्यमूनि सुधातकीपुष्पमणामि सप्त। गुडस्य सप्त त्रिगुणानि दद्यान्मणामि संचूर्ण्य ततः समस्तम् ६९ घृतस्य भाण्डे विपुले निवेश्य दशोत्तरं शेरशतं जलस्य। क्षित्वा क्षिपेत्पञ्च दिनानि भूमौ निष्पन्नकल्कं हृदये विचार्य ॥ षष्ठे दिने तच्च नियोजनीयं ताम्रस्य यन्त्रद्वयमध्यभागे। शतत्रयं नागलतादलानां सहस्रयुग्मं शतपत्रकानाम् ॥२७१॥ प्रक्षाल्य देयं विधिनाथ सन्धि विमुद्य चुल्ल्यां विनिवेश्य यन्त्रं। निष्काश्येदर्कमतो यथावद्दत्त्वा जलं चोपरि यन्त्रकस्य॥२७२॥ बलाबलं रोगनिपीडितानां विमृश्य देयः पलिकाप्रमाणः। खार्जूरसंज्ञः खलु आसवोऽयं विषूचिकायक्ष्मभयं निहन्ति ॥ हृद्रोगकासविषमज्वरशोफतर्षश्वासप्रमेहबलसंक्षयपाण्डुरोगान्। हिक्माञ्च शीर्षगतरोगवियोगकारी रुच्यग्निवर्धनबलप्रददृष्य एषः मस्त्यासवः। वंशपत्रीप्रतीकाशमस्तुद्रोणे सुनिर्मले। क्षिपेद्गुडतुलां भाण्डे वचाकुष्ठविलेपिते ॥ २७५ ॥ तस्मिन् दद्यात्पिप्पलीनां प्रस्थं प्रस्थत्रयं तथा। त्रिफलाया विडङ्गानां कुडवं मरिचस्य च ॥ २७६ ॥ काश्मरीफलमृद्वीकापरूषकफलानि च। वत्सकस्य च बीजानि दद्यान्मरिचवत्समाम् ॥ २७७ ॥ पञ्चमूलं च षड्ग्रन्थां दन्तीं चित्रकमेव च। भल्लातकानां च पले द्वे द्वे समुपकल्पयेत् ॥ २७८ ॥ यवपल्ले स्थितः पेयोऽरिष्टो मात्राबलं प्रति। पाण्डुरोगोदरहरो ग्रहणीर्शोविकारनुत् ॥ २७९ ॥