गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 209, कुल 286 में से
संदर्भ में पढ़ें६.] गदनिग्रहः । १८९ परं भगन्दरप्लीहशोषकासामयापहः । अग्निसंदीपनः पथ्यो बाधिर्यस्थौल्यनाशनः ॥ २८० ॥ मस्तवासव इति ख्यातो लेखनो मेदुरे हितः । ज्वरे कुब्जकासवः । शतं कुब्जकमूलस्य मृद्वीकार्धशतं तथा ॥ २८१ ॥ मधूकपुष्पकाश्मर्यभागान् दशपलोन्मितान् । चतुर्द्रोणेऽम्भसः पक्त्वा शीते पादावशेषिते ॥ २८२ ॥ धातक्या विंशतिपलं गुडस्य च शतत्रयम् । कनकस्य तु चत्वारि व्योषं कङ्कोलमेव च ॥ २८३ ॥ एलात्वक्पत्रजातीनां लवङ्गस्य तथैव च । भागाः पलप्रमाणांश्च सूक्ष्मचूर्णं तु कारयेत् ॥ २८४ ॥ कौब्जमूलासवो ह्येष मासमात्रं विधारितः । शमयेत्सन्निपातोत्थान् ज्वरान् सर्वान् न संशयः ॥२८५॥ नालिकेरासवः । नालिकेरोदकं चैव द्रोणमात्रं प्रदापयेत् । इक्षो रसस्य द्रोणार्धं शाल्मल्या रसप्रस्थकम् ॥ २८६ ॥ दशमूलरसस्यापि प्रस्थमात्रं तथैव च । घृतभाण्डे विनिक्षिप्य मध्ये चूर्णं निवेशयेत् ॥ २८७ ॥ चातुर्जातकधातक्योः पलान् षोडशसंख्यया । शाणमात्रा तु कस्तूरी केशरं तगरं तथा ॥ २८८ ॥ चन्दनं देवपुष्पं च पलमात्रं पृथक् पृथक् । मासादूर्ध्वं पिबेच्चामुं रूपे कामसमो भवेत् ॥ ८९ ॥ वृद्धोऽपि तरुणीं गच्छेत् षण्ढोऽपि पुरुषायते । वलीपलितसंत्यक्तः शतायुश्चभवेन्नरः ॥ २९० ॥ नालिकेरासवः प्रोक्तः शम्भुना परमेष्ठिना । कूष्माण्डासवः । कूष्माण्डं जर्जरीकृत्य रसमादाय यत्नतः ॥ २९१ ॥