गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 212, कुल 286 में से
संदर्भ में पढ़ें१९२ आयुर्वेदौयग्रन्थमाला । [आसवाधिकारः बलाबीजानि पोस्तत्वक् बीजं च करहाटकम् । पृथक् पृथक् प्रकुर्वीत पलानां पञ्चकं तथा ॥ ३१७ ॥ चतुर्द्रोणेऽम्भसः पक्त्वा कुर्यात्पादावशेषितम् । शठी च पिप्पलीमूलं मरिचं साश्वगन्धकम् ॥ ३१८ ॥ शुण्ठी जातीफलं चापि कुङ्कुमं जातिपत्रिका । आकल्लुकं कबाबं च एला कृष्णाऽगुरुस्तथा ॥ ३१९ ॥ तालीसं चन्दनं चैव विजया क्षीरकन्दका । वृद्धदारुभवं बीजं क्रमुकं वंशरोचना ॥ ३२० ॥ धत्तूरस्य च बीजानि पलमात्राणि कारयेत् । सर्वमेकत्र संचूर्ण्य पूते शीते विनिक्षिपेत् ॥ ३२१ ॥ द्वात्रिंशत्पलिकं क्षौद्रं धातक्याश्च पलाष्टकम् । तुलार्थं तु गुडाज्जीर्णाद्घृतभाण्डे विनिक्षिपेत् ॥ ३२२ ॥ मासादूर्ध्वं पिबेदेनं प्रमेहं हन्ति दुर्जयम् । धातुक्षयं जयेच्छीघ्रं लवङ्गाद्यासवस्त्वयम् ॥ ३२३ ॥ विद्रधौ वरुणासवः । शतं पलानां वरुणस्य मूलं त्वक् शिंशपायाश्च तदर्धमात्रा । तावत्तथा पुष्करमूलमुक्तं तदर्धममिश्र तदर्धमात्रः ॥ ३२४ ॥ कुरण्टको रोहीतकत्वचश्च तावच्च शिग्रुर्दशमूलकं च । पलानि विंशत्खलु देवदारोः क्षुद्रा च तुल्या सुरदारुणा च ३२५ दर्भस्य मूलानि पलानि पञ्च हिंस्रातरोस्त्रीणि च कण्टकार्याः । राजादनस्यापि पलानि सप्त शतावरीमूलपलत्रयं च ॥ ३२६ ॥ तत्तुल्यकाश्मर्यकमर्जुनश्च शृङ्गी शताह्वा गजपिप्पली च । बलाशठीनागबलाकरञ्जत्रायन्तिकाकेबुकमेषशृङ्ग्यः ॥ .३२७ ॥ कुष्ठं च वासासितकर्बुकं च विडङ्गकृष्णातिविषाश्च जीरकम् । चव्यं च रास्नोत्पलसारिवा च स्यात्कौटजश्चाऽप्यथ दीप्यकं च॥