गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 211, कुल 286 में से
संदर्भ में पढ़ें६.] गदनिग्रहः । १९१ एकैकं षोडशपलं कोलानामाढकं तथा । दन्तीचित्रकमूलानां पञ्चविंशत्पलं पृथक् ॥ ३०५ ॥ चतुर्गुणे जले पक्त्वा ग्राहमर्धावशेषितम् । शीते समावपेद्भाण्डे प्रलिप्ते मधुसर्पिषा ॥ ३०६ ॥ खण्डस्य द्विशतं शुद्धं तद्वल्लोहस्य दापयेत् । पत्रीकृतं तिलोत्सेधं सूक्ष्मचूर्णान्यमूनि च । प्रियंगुं पिप्पलीं लोध्रं मृद्वीकां चेलवालुकम् ॥ ३०७ ॥ क्रमुकं शतपुष्पां च निम्बं तेजोवतीमपि । पलिकं देवदारोश्च खदिराच्च चतुष्पलम् ॥ ३०८ ॥ क्षौद्रप्रस्थद्वयं चापि समावाप्य घटे शुभे । सौम्ये पुष्ये तथा हस्ते रोहिण्यामुत्तरासु च ॥ ३०९ ॥ दशरात्रस्थितः पेयोऽरिष्टश्चात्रेयपूजितः । अश्विभ्यां कथितः पूर्वं रसायनवरो ह्ययम् ॥ ३१० ॥ मात्रामग्निवलापेक्षी पिबेदस्य हिताशनः । धन्यः पुष्टिकरो बल्यो वलीपलितनाशनः ॥ ३११ ॥ ज्वरे धान्यकाद्यरिष्टः । धान्यकोशीरमुस्तानां पलमेकत्र कारयेत् । द्विपलं पद्मकं कुष्ठं कुर्यान्निम्बं तदर्धकम् ॥ ३१२ ॥ सर्वांशेन ततो दद्याच्छिन्नाङ्गां च फलत्रिकम् । जलद्रोणद्वयं दत्त्वा षोडशांशेन संहरेत् ॥ ३१३ ॥ पलं दार्व्यास्ततस्तस्मिन् शीतपूते भिषग्वरः । मधुनः षोडशपलं दत्त्वा सर्वं विमन्थयेत् ॥ ३१४ ॥ स्थापयेद्धृतभाण्डे तु मासादूर्ध्वं प्रयोजयेत् । धान्यकादिररिष्टोऽयं सर्वज्वरविनाशनः ॥ ३१५ ॥ धातुक्षये लवङ्गासवः । देवपुष्पं वराङ्गं च केशरं पृथुका तथा । कलौञ्जी मर्कटीबीजं मूशलीद्वयगोक्षुरम् ॥ ३१६ ॥