भारतकोश
संग्रह पर लौटें

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

६.] गदनिग्रहः । १९१ एकैकं षोडशपलं कोलानामाढकं तथा । दन्तीचित्रकमूलानां पञ्चविंशत्पलं पृथक् ॥ ३०५ ॥ चतुर्गुणे जले पक्त्वा ग्राहमर्धावशेषितम् । शीते समावपेद्भाण्डे प्रलिप्ते मधुसर्पिषा ॥ ३०६ ॥ खण्डस्य द्विशतं शुद्धं तद्वल्लोहस्य दापयेत् । पत्रीकृतं तिलोत्सेधं सूक्ष्मचूर्णान्यमूनि च । प्रियंगुं पिप्पलीं लोध्रं मृद्वीकां चेलवालुकम् ॥ ३०७ ॥ क्रमुकं शतपुष्पां च निम्बं तेजोवतीमपि । पलिकं देवदारोश्च खदिराच्च चतुष्पलम् ॥ ३०८ ॥ क्षौद्रप्रस्थद्वयं चापि समावाप्य घटे शुभे । सौम्ये पुष्ये तथा हस्ते रोहिण्यामुत्तरासु च ॥ ३०९ ॥ दशरात्रस्थितः पेयोऽरिष्टश्चात्रेयपूजितः । अश्विभ्यां कथितः पूर्वं रसायनवरो ह्ययम् ॥ ३१० ॥ मात्रामग्निवलापेक्षी पिबेदस्य हिताशनः । धन्यः पुष्टिकरो बल्यो वलीपलितनाशनः ॥ ३११ ॥ ज्वरे धान्यकाद्यरिष्टः । धान्यकोशीरमुस्तानां पलमेकत्र कारयेत् । द्विपलं पद्मकं कुष्ठं कुर्यान्निम्बं तदर्धकम् ॥ ३१२ ॥ सर्वांशेन ततो दद्याच्छिन्नाङ्गां च फलत्रिकम् । जलद्रोणद्वयं दत्त्वा षोडशांशेन संहरेत् ॥ ३१३ ॥ पलं दार्व्यास्ततस्तस्मिन् शीतपूते भिषग्वरः । मधुनः षोडशपलं दत्त्वा सर्वं विमन्थयेत् ॥ ३१४ ॥ स्थापयेद्धृतभाण्डे तु मासादूर्ध्वं प्रयोजयेत् । धान्यकादिररिष्टोऽयं सर्वज्वरविनाशनः ॥ ३१५ ॥ धातुक्षये लवङ्गासवः । देवपुष्पं वराङ्गं च केशरं पृथुका तथा । कलौञ्जी मर्कटीबीजं मूशलीद्वयगोक्षुरम् ॥ ३१६ ॥

१९२ आयुर्वेदौयग्रन्थमाला । [आसवाधिकारः बलाबीजानि पोस्तत्वक् बीजं च करहाटकम् । पृथक् पृथक् प्रकुर्वीत पलानां पञ्चकं तथा ॥ ३१७ ॥ चतुर्द्रोणेऽम्भसः पक्त्वा कुर्यात्पादावशेषितम् । शठी च पिप्पलीमूलं मरिचं साश्वगन्धकम् ॥ ३१८ ॥ शुण्ठी जातीफलं चापि कुङ्कुमं जातिपत्रिका । आकल्लुकं कबाबं च एला कृष्णाऽगुरुस्तथा ॥ ३१९ ॥ तालीसं चन्दनं चैव विजया क्षीरकन्दका । वृद्धदारुभवं बीजं क्रमुकं वंशरोचना ॥ ३२० ॥ धत्तूरस्य च बीजानि पलमात्राणि कारयेत् । सर्वमेकत्र संचूर्ण्य पूते शीते विनिक्षिपेत् ॥ ३२१ ॥ द्वात्रिंशत्पलिकं क्षौद्रं धातक्याश्च पलाष्टकम् । तुलार्थं तु गुडाज्जीर्णाद्घृतभाण्डे विनिक्षिपेत् ॥ ३२२ ॥ मासादूर्ध्वं पिबेदेनं प्रमेहं हन्ति दुर्जयम् । धातुक्षयं जयेच्छीघ्रं लवङ्गाद्यासवस्त्वयम् ॥ ३२३ ॥ विद्रधौ वरुणासवः । शतं पलानां वरुणस्य मूलं त्वक् शिंशपायाश्च तदर्धमात्रा । तावत्तथा पुष्करमूलमुक्तं तदर्धममिश्र तदर्धमात्रः ॥ ३२४ ॥ कुरण्टको रोहीतकत्वचश्च तावच्च शिग्रुर्दशमूलकं च । पलानि विंशत्खलु देवदारोः क्षुद्रा च तुल्या सुरदारुणा च ३२५ दर्भस्य मूलानि पलानि पञ्च हिंस्रातरोस्त्रीणि च कण्टकार्याः । राजादनस्यापि पलानि सप्त शतावरीमूलपलत्रयं च ॥ ३२६ ॥ तत्तुल्यकाश्मर्यकमर्जुनश्च शृङ्गी शताह्वा गजपिप्पली च । बलाशठीनागबलाकरञ्जत्रायन्तिकाकेबुकमेषशृङ्ग्यः ॥ .३२७ ॥ कुष्ठं च वासासितकर्बुकं च विडङ्गकृष्णातिविषाश्च जीरकम् । चव्यं च रास्नोत्पलसारिवा च स्यात्कौटजश्चाऽप्यथ दीप्यकं च॥

६.] गदनिग्रहः । १९३ वातार्यरिशरुनार्यतिक्तं रक्ताऽमृता तेजनीत्वक्लं च । सव्याधिघाता हपुषा च शृङ्गी प्रत्येकमेषां हि पलद्वयं तु॥३२९ पचेज्जलद्रोणचतुष्टये च तत्पादशेषे पलषट्शतं च । क्षिपेद्गुडं माक्षिकधातकीनां पलानि त्रिंशत्सकलं पुनस्ततः३३० निधापयेच्चागरुमांसीधूपिते भाण्डे ततः कुङ्कुमचन्दनद्वयम् । पलं क्षिपेद्वै कतकं सचन्द्रं लवङ्गमाकल्लक्वंशरोचनम् ॥३३१॥ भार्गी सुराष्ट्री तगरं कबाबकं जातीफलं पत्रकजातिपत्रिके । लोहं चतुर्जातकवालकं च प्रत्येकमेषां हि पलं विनििक्षिपेत् ॥ मासं निधेयो यवमध्यतस्ततः पेयो यथाव्याधिबलं समीक्ष्य । प्लीहोदरं विद्रधिगुल्मकासं श्वासं तथा रक्तविकारहिक्के॥३३३॥ शूलानवातार्वुदपाण्डुरोगं कुष्ठं तथा छर्दिमरोचकं च । शोफं तथाध्मानभगन्दरं च शुक्राश्मरीं ग्रन्थिमनेकभेदम् ३३४ शोषापतानादितपक्षघातसन्धिग्रहातिक्ष हलीमकं च । निहन्ति वन्ध्यासुतदोऽथ वृष्यः प्राणप्रदोऽयं वरुणासवोहि३३५ पित्तानिलश्लेष्मरुजापहश्च वैतालरक्षोग्रहमीतिहन्ता । ग्रन्थान् समालोक्य चिकित्सकानां हिताय नूनंरचितश्चरोगिणाम् प्लीहरोगे रोहीतकासवः । रोहीतकात्पलशतं चतुर्द्रोणेऽम्भसः पचेत् । द्रोणशेषे रसे तस्मिन् पूते शीते प्रदापयेत् ॥ ३३७ ॥ धातक्याः षोडशपलं गुडस्य द्विशतं तथा । पलं पृथक् त्रिजातस्य पञ्चकोलपलं तथा ॥ ३३८ ॥ चूर्णीकृतं क्षिपेत्सर्वं घृतलिप्ते तु भाजने । पक्षादूर्ध्वं पिबेच्चापि ततो मात्रां यथाबलम् ॥ ३३९ ॥ प्लीहं प्लीहोदरं चैव प्लीहशूलं तथैव च । हृच्छूलं पार्श्वशूलं च तथा सर्वमरोचकम् ॥ ३४० ॥ १७

१९४ आयुर्वेदियग्रन्थमाला । [ आसवाधिकारः विबन्धशूलं शमयेत्पाण्डुरोगं सकामलम् । नाशयेच्छर्द्यतीसारं ज्वरं जीर्णं तथैव च ॥ ३४१ ॥ रोहीतकासवो ह्येष प्लीहं च शमयेद्ध्रुवम् । गण्डीरासवः । जातसारं तु गण्डीरं सपुष्पं परिशोषयेत् ॥ ३४२ ॥ खण्डशः क्षोदितं कृत्वा तस्य पञ्चाढकं पचेत् । त्रींश्चैव त्रिफलाप्रस्थान् दशमूलीतुलां तथा ॥ ३४३ ॥ दद्यात्कुटजवल्कस्य पलानां पञ्चविंशतिम् । भल्लातकानीन्द्रयवं विडङ्गं घनमेव च ॥ ३४४ ॥ अर्धप्रस्थसमान् भागानेकैकस्य समावपेत् । पाठा मधुरसा दन्ती षड्ग्रन्था चित्रकस्तथा ॥ ३४५ ॥ एषां दशपलान् भागान्मृद्वीकायास्तथाढकम् । तोयद्रोणेषु दशसु पचेद्द्विद्रोणशेषितम् ॥ ३४६ ॥ तस्मिन्कषाये पूते तु गुडस्यैकां तुलां क्षिपेत् । तथा तु शोधितस्यापि, शुभे भाण्डे निधापयेत् ॥ ३४७ ॥ द्वौ प्रस्थौ मधुनश्चैव द्वावयोरजसस्तथा । अर्धप्रस्थो विडङ्गानां कुडवो मरिचस्य च ॥ ३४८ ॥ एतयोः सूक्ष्मचूर्णानि प्रतिवापार्थमाहरेत् । चूर्णं मरीचकानां च मधुना सह योजयेत् ॥ ३४९ ॥ भाण्डप्रलेपः कर्तव्यः समासिच्य निधापयेत् । एष मासस्थितः पेयो यथाव्याधिबलाबलम् ॥ ३५० ॥ गण्डीरारिष्ट इत्येष व्यासतः परिकीर्तितः । एष शोषान् प्रमेहांश्च गुल्मांश्च जठराणि च ॥ ३५१ ॥ क्रिमिकुष्ठानि वर्ध्मानि प्लीहार्शांसि भगन्दरम् । श्वयथून् पाण्डुरोगांश्च ग्रहणीदोषमेव च ॥ ३५२ ॥ ग्रन्थींश्च गलगण्डं च गण्डमालां तथैव च ।

६.] गदनिग्रहः । १९५ विषमज्वरकासांश्च विद्रधीन् वातशोणितम् । अरिष्टः शमयत्याशु युधि शक्र इवासुरान् ॥ ३५३ ॥ प्लीहरोगे रोहीतकासवः । तुलाद्वयं रोहितमूलकानां द्विद्रोणमात्रेण जलेन पक्त्वा । क्षेप्यं गुडस्य द्विशतं पलानांमष्टादश स्युस्त्रिफलापलानि॥३५४ लवङ्गजातीफलधातकीनां पलानि लोहस्य षडेव दद्यात् । देयं चतुर्जातकपञ्चकोलं पृथक् पृथक् पञ्चपलं तथैव ॥ ३५५॥ गुल्मज्वरारोचकहृद्विकारभगन्दरप्लीहनिपीडितानाम् । रक्तामयश्वासनपीडितानां सदासवोऽयं विधिना प्रयोज्यः ३५६ योगराजासवः । द्राक्षायाः शर्करायाश्च गुडस्य च पृथक् पृथक् । पलानि दश कार्याणि पथ्यापलचतुष्टयम् ॥ ३५७ ॥ लवङ्गबदरीसर्जार्जुनानां छल्लिकाभवम् । पलं पलं पृथग्ग्राह्यं देवदारुपलं तथा ॥ ३५८ ॥ चित्रकस्य च लोध्रस्य पिप्पलीमूलकस्य च । धातकीकुसुमानां च तद्वद्देयं पलं पलम् ॥ ३५९ ॥ तथा पूगफलानां तु कषायाणां पलं मतम् । मञ्जिष्ठायाः पले द्वे तु क्वाथ्यसंज्ञानि तानि च ॥ ३६० ॥ लवङ्गकलिकाजातीपत्रैलानागकेशरम् । पिप्पलीशुण्ठिमरिचत्वग्द्वांसीचव्यमुस्तकम् ॥ ३६१ ॥ कुष्ठं जातीफलं ग्रन्थिपर्णं खुकू कटुरोहिणी । एषां पलं पलं ग्राह्यं तज्ज्ञेयं चूर्णसंज्ञितम् ॥ ३६२ ॥ ततस्तु क्वाथ्यद्रव्येभ्यो जलमष्टगुणं क्षिपेत् । क्वाथं तदुदके कुर्यादर्थभागावशेषितम् ॥ ३६३ ॥ तत्क्वाथं वस्त्रपूतं तु भाण्डेऽन्यस्मिन्मनोहरे । कृत्वाऽत्र प्रक्षिपेच्चूर्णं तद्भाण्डं धान्यराशिगम् ॥ ३६४ ॥

१९६ आयुर्वेद ग्रन्थमाला । [ आसवाधिकारः कृत्वा सप्तदिनं शीते काले चोष्णमये तथा । यावद्दिनानि त्रीणि स्युः पश्चाद्भाण्डं समुद्धरेत् ॥ ३६५ ॥ पुनस्तद्वस्त्रपूतं तु भाण्डे कर्पूरवासिते । निक्षिप्य सेव्येतप्रातः पलमात्रोपलक्षितम् ॥ ३६६ ॥ स दत्तो वातपित्तघ्नो दीपनो रक्तरोगनुत् । योगराज इति ख्यात आसवोऽयं गुणोत्तरः ॥ ३६७ ॥ अर्शोरोगे पील्वासवः । मूर्वाखर्जूरपाठानिलरिपुमधुकं कच्छुरा हारहूरा कोलत्वग्वेतसाम्लं दहनमिशिकणाकृष्णविश्वालवङ्गम् ॥ त्वग्लोध्राद्दाडिमाच्च पलमितमिति पृथक् दन्तिमूलेन युक्तं पीलुद्रोणे द्विपक्षं गुडपलशतयुक् धान्यराशौ निदध्यात् ॥३६८ अर्शः प्लीहं च गुल्मं जठरगदमथो नाशयेच्चाग्निमान्द्यं कुर्याच्चाग्निं प्रदीप्तं प्रबलबलयुतं पीलुसंज्ञासवोऽयम् ॥ ३६९ ॥ प्रमेहे मध्वासवः । विशालातिविषाभार्गीकुष्ठमुस्ताप्रियङ्गवः । विडङ्गत्रिफलाकृष्णाचव्यग्रन्थिकदीप्यकाः ॥ ३७० ॥ अर्द्धांशान् सलिलद्रोणे पक्त्वा पादावशेषिते । दत्त्वा तदर्धं क्षौद्रं हि स्निग्धे भाण्डे निधापयेत् । एष मध्वासवो हन्ति मेहं द्विपलयोजितः ॥ ३७१ ॥ लोहासवः । फलत्रिकं निम्बपटोलमुस्तापाठामृताचित्रकचन्दनं च । विडङ्गमञ्जिष्ठमधूकसारकर्पूरवासात्रिवृताहरिद्राः ॥ ३७२ ॥ दुरालभापर्पटकण्टकारीशक्राशनं यासकचर्मरङ्गे । शशाङ्कलेखाकपिकच्छुमूलं मेथी च बिल्वं कुटजश्च तिक्ता ३७३ १ पीलुद्रोणे इति पीलुरसद्रोणे इत्यर्थः ।

६.] गदनिग्रहः । १९७ त्रायन्तिका पुष्करकस्य मूलं पलैकमानानि महौषधानि । षष्टिः पलानां खदिरस्य सार अयोरजः स्यात्पलयुग्ममानम् ॥ स्याल्लोहकिट्टं च तुलाप्रमाणं तत्पञ्चकं केबुकजीवनीयम् । प्रक्षिप्य भाण्डे शशियुग्मघस्रान् सूर्यांतपे स्थाप्य ततस्तु योज्यः लोहासवोऽयं भिषजोपदिष्टः सर्वोत्तमो रोगविनाशहेतुः॥३७६ इति श्रीशोढलगथिते गदनिग्रहे षष्ठ आसवाधिकारः संपूर्णः । समाप्तश्चायं प्रथमः प्रयोगखण्डः । प्रयोगखण्डस्य परिशिष्टम् । घृताधिकारः प्रथमः । रक्तपित्ते कटुकाद्यं घृतम् । कटुरोहिणिकां मुस्तां हरिद्रां वत्सकं बलाम् । पटोलं चन्दनं मूर्वा त्रायमाणां दुरालभाम् ॥ १ ॥ पिप्पलीं पर्पटं चैव भूनिम्बं देवदारुकम् । पिष्ट्वाऽक्षमात्रैस्तैः सर्पिः प्रस्थं क्षीराढके पचेत् ॥ २ ॥ रक्तपित्तं ज्वरं दाहं श्वयथुं समगन्दरम् । अर्शांस्यसृग्दरं चैव हन्याद्विस्फोटकांस्तथा ॥ ३ ॥ गुल्मे दाधिकं घृतम् । द्वे पञ्चमूल्यौ सुषवी साश्वगन्धा पुनर्नवा । काला छिन्नरुहा चैव रास्ना गोक्षुरको बला ॥ ४ ॥ शठी पुष्करमूलं च देवदारुस्तथैव च । एषां द्विपलिकान् भागान् जलद्रोणे विपाचयेत् ॥ ५ ॥ १ प्रयोगखण्डस्य आसवाधिकारमुद्रणारम्भसमय एव बुन्दीनगरनिवासिभिः राजवैद्यैः श्रीप्रसादशर्मभिः गदनिग्रहस्यैकं पुस्तकं प्रेषितं, दृष्टश्च तत्र पूर्वोप- लब्धपुस्तकापेक्षयाऽधिकः पाठः, अतः प्रयोगखण्डसमाप्तौ तत्परिशिष्टत्वेन स पाठोऽत्र निवेशितः । संपादकः ।

१९८ आयुर्वेदीयग्रन्थमाला । [ परिशिष्टे कोलकानां कुलत्थानां माषाणां च यवैः सह । प्रस्थं प्रस्थं ततः कृत्वा तस्मिन्नेव समावपेत् ॥ ६ ॥ तेन पादावशेषेण घृतप्रस्थं विपाचयेत् । दद्यादेभिः समं शुक्तमारनालं तुषोदकम् ॥ ७॥ दाडिमाम्रातकरसं मातुलुङ्गरसं तथा । चतुर्गुणं चात्र दधि गर्भमेषां समावपेत् ॥ ८ ॥ पुनर्नवैषणं दन्ती त्रीण्येव लवणानि च । हिंस्रा रास्ना बला चैव यवानी चाम्लवेतसम् ॥ ९ ॥ विडङ्गं दाडिमं हिङ्गु ग्रन्थिकं त्रिवृता तथा । द्वौ क्षारावजमोदा च पाठा पाषाणभेदकम् ॥ १० ॥ ऊषणं वृषको भार्गी श्वदंष्ट्रा हपुषा तथा । त्रपुषैर्वारुबीजानि शतावर्युपकुञ्चिका ॥ ११ ॥ अजाजी चित्रकं मूर्वा तुम्बरु गजपिप्पली । धान्यकं सुरसं चैतान् दद्यादक्षसमान् भिषक् ॥ १२ ॥ गर्भेणानेन तत्सिद्धं पाययेत्सर्पिरुत्तमम् । पित्तगुल्मं तथा सर्वान् गुल्मानन्यानव्यपोहति ॥ १३ ॥ एकाङ्गगे पक्षवधे तथा दुष्टे च रेतसि । हृद्रोगे ग्रहणीरोगे सर्पिरेतद्यथामृतम् ॥ १४ ॥ यक्ष्माणं नाशयत्येतदपस्मारं च नाशयेत् । दाधिकं नाम विख्यातमात्रेयानुमतं स्मृतम् ॥ १५ ॥ गुल्मे लशुनघृतम् । तुलां लशुनकन्दानां पृथक् पञ्चपलांशकान् । त्र्यूषणत्रिफलाहिङ्गुयवानीचव्यचित्रकान् ॥ १६ ॥ साम्लवेतससिन्धूत्थदेवदारून् पचेद्धृतम् । तैः प्रस्थं, तत्परं सर्ववातगुल्मविकारनुत् ॥ १७ ॥

घृताधिकारः १] गदनिग्रहः । १९९ गुल्मे महाषट्पलं घृतम् । नागरस्य तुलार्धं तु जलद्रोणे विपाचयेत् । चतुर्भागावशेषं तु कषायमवतारयेत् ॥ १८ ॥ शुक्तेन मस्तुना चैव दाडिमैर्बदरोदकैः । चतुर्गुणैरिमैस्तोयैर्घृतप्रस्थं विपाचयेत् ॥ १९ ॥ सौवर्चलं बिडं चैव पौतिकं चोषकस्तथा । अजाजी पिप्पली चैव अजगन्धा यवाग्रजः ॥ २० ॥ सैन्धवं पञ्चकोलं च हिङ्गुचौद्भिदमेव च । एतैः पलार्धकैर्द्रव्यैः शनैर्मृद्वग्निना पचेत् ॥ २१ ॥ कृमिप्लीहोदराजीर्णज्वरगुल्मप्रमेहकान् । वातरोगानशेषांश्च हिक्कां शूलमरोचकम् ॥ २२ ॥ पाण्डुरोगं प्रतिश्यायं दौर्बल्यं वह्निसंक्षयम् । महाषट्पलमातङ्कान् भिनत्त्यशनिवद्विरिम् ॥ २३ ॥ उन्मादे कल्याणकं घृतम् । विशाला त्रिफला कौन्ती देवदार्वेलवालुकम् । स्थिराऽनन्ता हरिद्रे द्वे सारिवे द्वे प्रियङ्गवः ॥ २४ ॥ नीलोत्पलैलामञ्जिष्ठादन्तीदाडिमवल्कलम् । तालीसपत्रं बृहती मालत्याः कुसुमं नवम् ॥ २५ ॥ विडङ्गं पृश्निपर्णी च कुष्ठं चन्दनपद्मके । अष्टाविंशतिभिः कल्कैरेतैरक्षप्रमाणकैः ॥ २६ ॥ चतुर्गुणं जलं दत्त्वा घृतप्रस्थं विपाचयेत् । अपस्मारे ज्वरे कासे शोषे मन्देऽनले क्षये ॥ २७ ॥ वातरक्ते प्रतिश्याये तृतीयकचतुर्थके । वम्यर्शोमूत्रकृच्छ्रे च विसर्पोपहतेषु चं ॥ २८ ॥ कण्डूपाण्ड्वामयोन्मादविषेष्वष्टगदेषु च । भूतोपहतचित्तानां गद्गदानामचेतसाम् ॥ २९ ॥

२०० आयुर्वेदीयग्रन्थमाला । [ परिशिष्टे

शस्तं स्त्रीणां च वन्ध्यानां धन्यमायुर्बलप्रदम् । अलक्ष्मीपापरोगघ्नं सर्वग्रहनिवारणम् ॥ ३० ॥ कल्याणकमिदं सर्पिः श्रेष्ठं पुंसवनेषु च । उन्मादे द्वितीयं कल्याणं घृतम् । सारिवाद्वितयं पण्यौ नतं कुष्ठं निशाद्वयम् ॥ ३१ ॥ दाडिमं चन्दनं व्याघ्री निकुम्भा त्रिफलेन्द्रिका । तालीसं पद्मकं चैला मञ्जिष्ठोत्पलदारवः ॥ ३२ ॥ इभोषण विडङ्गानि प्रियङ्गुश्चाश्मभेदकः । यवानी जातिमुकुलं मुस्तकं कर्षसंमितम् ॥ ३३ ॥ कल्कैरेभिर्घृतप्रस्थं सिद्धं कल्याणकं स्मृतम् । रक्तपित्तज्वरोन्मादकासकण्डूविनाशनम् ॥ ३४ ॥ उन्मादे तृतीयं कल्याणकं घृतम् । धराविशालापत्रैलादेवदार्वे लवालुकैः । * द्विसारिवाद्विरजनीद्विस्थिराफलिनीनतैः ॥ ३५ ॥ बृहतीकुष्ठमञ्जिष्ठानागकेशरदाडिमैः । वेल्लतालीशपत्रैलामालतीकुसुमोत्पलैः ॥ ३६ ॥ सदन्तिपद्मकहिमैः कर्षांशैः सर्पिषः पचेत् । प्रस्थं, भूतग्रहोन्मादकासापस्मारपापनुत् ॥ ३७ ॥ पाण्डुकण्डूविषे शोषे मेहे मोहे ज्वरे गरे । अरेतस्यप्रजसि वा देवोपहतचेतसि ॥ ३८ ॥ अमेधसि स्खलद्वाचि स्मृतिकामेऽल्पपावके । बल्यं मङ्गल्यमायुष्यं कान्तिसौभाग्यपुष्टिदम् ॥ ३९ ॥ कल्याणकमिदं सर्पिः श्रेष्ठं पुंसवनेषु च । उन्मादे महाकल्याणकं घृतम् । एभ्यो द्विसारिवादीनि जले पक्त्वैकविंशतिम् ॥ ४० ॥ रसे तस्मिन्पचेत्सर्पिर्गृष्टिक्षीरं चतुर्गुणम् । वरीद्विमेदाकाकोलीकपिकच्छुविषाणिभिः ॥ ४१ ॥

४. चतुर्थ खण्ड: रसायन, वाजीकरण, विष-चिकित्सा व उपसंहार

घृताधिकारः १] गदनिग्रहः । २०९ सूर्पपर्णीयुतैरेभिर्महाकल्याणकं परम् । बृंहणं सन्निपातघ्नं पूर्वस्मादधिकं गुणैः ॥ ४२ ॥ विसर्पे महागौरं घृतम् । क्षीरवृक्षप्रवालानि कुमुदान्युत्पलानि च । सौगन्धिकानि पद्मानि शालूकानि बिसानि च ॥ ४३ ॥ मृणालकुशकासेक्षुदर्भगुन्द्रेक्षुवालिकाः । नलवेतसकुम्भीकनालीसर्ज्जार्जुनखनाः ॥ ४४ ॥ कदलीपत्रशेवालकसेरुघोटकानि च । परूषकमधूकानि श्रीपर्ण्याममलकानि च ॥ ४५ ॥ लामज्जकं चन्दनं च विदारीञ्च शतावरी । समङ्गा धातकी रोध्रं जीवनीयानि यानि च ॥ ४६ ॥ शीतवीर्यांस्तु ये केचिज्जलजानूपसंश्रिताः । एतत्सम्भृत्य सम्भारं क्षीरद्रोणेषु सप्तसु ॥ ४७ ॥ पचेन्निस्स्राव्य तच्छीतं मन्थानेन विमन्थयेत् । यत्ततो जायते सर्पिस्तत्पचेत्पुनरेव तु ॥ ४८ ॥ द्रव्यैस्तैरेव पूर्वोक्तैः शनैर्मृद्वग्निना भिषक् । हन्यादेतद्विसर्पांस्तु सर्वधातुश्रितान् व्रणान् ॥ ४९ ॥ तोयमग्निं यथा दीप्तं नाम्ना गौरं घृतं महत् । सप्ताङ्गं घृतम् । शङ्खपुष्पीगुडूच्युग्राशतावर्यरुवल्लिकाः ॥ ५० ॥ मलपूं ब्रह्मसोमां च कल्कीकृत्य घृतं पचेत् । दुग्धं चतुर्गुणं दत्त्वा वातश्लेष्महरं च तत् । मेधाकरं तथाऽयुष्यं सप्ताङ्गमिति कीर्तितम् ॥ ५१ ॥ अष्टाङ्गं घृतम् । मण्डूकीं सवचां सशङ्खकुसुमां ब्राह्मीं गुडूचीं तथा श्वेतां बाकुचिकां शतावरियुतां सब्रह्मसौवर्चलाम् ।

२०२ आयुर्वेदीयग्रन्थमाला । [परिशिष्टे कृत्वांशैः पलिकैरेमानि विविधद्रव्याणि तैः कल्कितैः सर्पिःप्रस्थमथाढकेन पयसा युक्त्या पचेद्बुद्धिमान् ॥ ५२ ॥ नाम्नाऽष्टाङ्गमिदं विदेहविहितं ख्यातं घृतं यः पिबेत् स श्लोकस्य सहस्रमेकदिवसे श्रुत्वाऽखिलं धारयेत् । अक्षीणप्रतिभः सुचारुवदनः स्पष्टाभिभाषी भवेत् लोके शुक्रबृहस्पतिप्रतिसमः पूज्यश्च राज्ञो भवेत् ॥ ५३ ॥ बालग्रहे फलघृतम् । बर्हिष्ठकुष्ठमञ्जिष्ठाकटुकैलानिशाद्वयैः । तोयदत्रिफलाकौन्तीवाजिगन्धामरुद्रुमैः ॥ ५४ ॥ वचाजमोदाकाकोलीमेदामधुकपद्मकैः । सशर्करैर्हितं सर्पिः पक्वं क्षीरचतुर्गुणम् ॥ ५५ ॥ बालानां ग्रहजुष्टानां पुंसां दुष्टाल्परेतसाम् । ख्यातं फलघृतं स्त्रीणां वन्ध्यानां चापि गर्भदम् ॥ ५६ ॥ चातुर्थकज्वरे महापैशार्चकं घृतम् । त्रायमाणा जया वीरा नाकुली गन्धनाकुली । कायस्था च वयस्था च चोरकश्च पलङ्कषा ॥ ५७ ॥ शूकरी चटिला छात्रा सातिच्छत्रा सुमर्कटी । मोरटा पूतना केशी स्थिरा कटुकरोहिणी ॥ ५८ ॥ महापुरुषदन्ता च वृश्चिकाली कुटन्नटा । सिद्धमेभिर्घृतं पेयं चातुर्थकविनाशनम् ॥ ५९ ॥ महापेशाचकं नाम सर्पिरेतज्ज्वरापहम् । भूतग्रहमपस्मारमुन्मादं च नियच्छति ॥ ६० ॥ शोषे जीवन्त्याद्यं घृतम् । जीवन्तीं मधुकं द्राक्षां फलानि कुटजस्य च । शठीं पुष्करमूलं च व्याघ्रीं गोक्षुरकं बलाम् ॥ ६१ ॥ नीलोत्पलं तामलकीं त्रायमाणां दुरालभाम् । पिप्पलीं च समां पिष्ट्वा घृतमेभिर्विपाचयेत् ॥ ६२ ॥

घृताधिकारः १] गदनिग्रहः । २०३ एतद्व्याधिसमूहस्य रोगराज्ञः समुच्छ्रितम् । रूपमेकादशविधं सर्पिरग्र्यं व्यपोहति ॥ ६३ ॥ महातिक्तकं घृतम् । निम्बः सप्तच्छदः पाठा गुडूची सशतावरी । कृतमालः करञ्जौ द्वौ खदिरो वत्सको धवः ॥ ६४ ॥ सपटोलः पर्पटको विशाला चित्रकस्तथा । एतानि समभागानि कषायमुपकल्पयेत् ॥ ६५ ॥ भेषजानि प्रपेष्याणि तत्रेमानि प्रदापयेत् । भूनिम्बः कटुका मुस्ता दन्ती पर्पटको वचा ॥ ६६ ॥ विशालातिविषे मूर्वा यष्ट्याह्वं सारिवाद्वयम् । अवल्गुजा हरिद्रे द्वे दुःस्पर्शा रक्तचन्दनम् ॥ ६७ ॥ कृमिघ्नः पिप्पली पाठा चित्रको देवदारु च । भल्लातकान्युशीरं च सम्पाकः सकलिङ्गकः ॥ ६८ ॥ एतैरक्षप्रमाणैस्तु घृतस्यार्द्धाढकं पचेत् । धात्रीरसस्तु द्विगुणो घृतात्क्वाथश्चतुर्गुणः ॥ ६९ ॥ सर्पिरेतन्नरः पीत्वा सर्वकुष्ठैर्विमुच्यते । वातरक्तं सवीसर्पं रक्तस्रावं च दारुणम् ॥ ७० ॥ पित्तासृक्कामलाकण्डूगरान् योगशतैरपि । असाधितान् महारोगान् महातिक्तं प्रसाधयेत् ॥ ७१ ॥ वातव्याधौ दशमूलार्थं घृतम् । द्रोणेऽम्भसः पचेद्भागान् दशमूल्याश्चतुःपलान् । यवकोलकुलत्थानां भागैः प्रस्थोन्मितैः सह ॥ ७२ ॥ पादशेषे रसे पिष्टैर्जीवनीयैः सशर्करैः । तथा खर्जूरकाश्मर्यद्राक्षाबदरफल्गुभिः ॥ ७३ ॥ सक्षीरैः सर्पिषः प्रस्थं सिद्धं केवलवातनुत् । निरत्ययं प्रयोक्तव्यं पानाभ्यञ्जनबस्तिषु ॥ ७४ ॥

२०४ आयुर्वेदीयग्रन्थमाला । [ परिशिष्टे कासे बृहत्कण्टकारीघृतम् । समूलपत्रशाखायाः कण्टकार्या रसाढके । घृतप्रस्थं बलान्योपविडङ्गशठिचित्रकैः ॥ ७५ ॥ सौवर्चलयवक्षारबिल्वामलकपौष्करैः । सैन्धवग्रन्थिकपर्णीद्राग्रेवदारुपयोधरैः ॥ ७६ ॥ वृश्चीवबृहतीपथ्यायवानीदाडिमर्द्धिभिः । द्राक्षापुनर्नवाचव्यदुरालम्भाम्लवेतसैः ॥ ७७ ॥ शृङ्गीतामलकीभार्गीरास्नागोक्षुरकैः पचेत् । कल्कैश्च सर्वकांसेषु हिक्काश्वासेषु शस्यते । कण्टकारीघृतं सिद्धं कफव्याधिविनाशनम् ॥ ७८ ॥ व्रणे जात्याद्यं घृतम् । जातीनिम्बपटोलपत्रकटुकादार्वांनिशासारिवा- मञ्जिष्ठामयसिक्थतुत्थमधुकैर्नक्ताह्वबीजैः समैः । सर्पिः सिद्धमनेन सूक्ष्मवदना मर्माश्रिताः स्राविणो गम्भीराः सरुजो व्रणाः सगतिकाः शुद्ध्यन्ति रोहन्ति च ७९ प्रवाहिकायां त्र्यूषणाद्यं घृतम् । त्र्यूषणं त्रिफला निम्बं चित्रको गजपिप्पली । बिल्वं कर्कोटिका हिंस्रा विडङ्गानि निदिग्धिका ॥ ८० ॥ घृतप्रस्थं पचेदेभिर्गवां मूत्रे चतुर्गुणे । पीतं प्रयोगतः काले हन्यादेतत्प्रवाहिकाम् ॥ ८१ ॥ रक्तपित्ते कसेरुकं घृतम् । द्राक्षेक्षुकाश्मर्यशतावरीणां तथा विदार्याः स्वरसस्य चैव । कसेरुकाणां तु तथा कषायं प्रस्थं पृथक् क्षीरचतुर्गुणं च ॥८२ घृतं तु शेफालिशतावरीणां त्रायन्तिकाया अपि कल्कसिद्धम् । प्रायोगिकं सर्पिरुदाहरन्ति कसेरुकं मारुतपित्तघाति । विसर्पदाहज्वररक्तपित्ते क्षीणक्षतानां च रसानीयम् ॥ ८३ ॥

घृताधिकारः १.] गदनिग्रहः । २०५ नेत्ररोगे द्राक्षाद्यं घृतम् । द्राक्षा श्रवाना सितशर्करा च राजादनं सान्मधुयष्टिका च । मञ्जिष्ठनीलोत्पलपुण्डरीकं काकोलियुग्मं त्वथ जीवकञ्च॥८४॥ दुग्धक्षमामैर्विपचेद्घृतस्य प्रस्थं समग्रं पयसा च तुल्यम् । नेत्रास्रराजीपटलानि काचमश्रुप्रसेकं तिमिरं च हन्ति । दृष्टिप्रसादं च नवं करोति शिरोधर्धरोगे च हितं नराणाम्॥८५॥ रक्तपित्ते दाडिमाद्यं घृतम् । दाडिमं तिन्तिडीकं च नागपुष्पं शतावरी । काकोली क्षीरकाकोली विदारी यक्षहस्तकः ॥ ८६ ॥ बीजपूरकमूलं च राजवृक्षात्मगुप्तयोः । कुष्ठं चेति समैरेतैर्धृतप्रस्थं विपाचयेत् ॥ ८७ ॥ चतुर्गुणेन पयसा जलेनाष्टगुणेन च । तत्सर्पिः पिबतः सिद्धं कासश्वासापतानकाः ॥ ८८ ॥ हृद्रोगो रक्तपित्तं च ह्यचिराद्यान्ति संक्षयम् । योनिरोगे बृहन्मूलाद्यं घृतम् । पञ्चमूलं बृहद्व्याघ्रीं त्रिकण्टैरण्डकः बलम् । प्रत्येकं, बिल्वकक्वाथ प्रस्थार्धं प्रस्थमुत्तमम् ॥ ८९ ॥ जलद्रोणे विपाच्यैतद्ग्राह्यं पादावशेषितम् । पादक्षेपे घृतप्रस्थं दध्नाढकयुतं न्यसेत् ॥ ९० ॥ पलत्रयं यवक्षारकल्कं युक्त्या विपाचयेत् । योनिरोगे गुल्मरोगे वर्ध्मेश्वप्युदरेषु च ॥ ९१ ॥ अर्शसि पिप्पल्याद्यं घृतम् । पिप्पलीमरिचहिङ्गुनागरं मातुलुङ्गरसथ बिल्वशुण्ठिका । कुष्ठधान्यकमथाम्लवेतसं क्षारवह्नि लवणानि पञ्च च ॥९२॥ तिन्तिडीकमथ कारवी वचा दाडिमं च चविका तथैव च । चित्रकं च सपुनर्नवं भवेद्धस्तिपिप्पलियुता हजाजिका ॥९३। १८

२०६ आयुर्वेदग्रन्थमाला । [परिशिष्टे शुक्तिका बदरमूलपौष्करं पत्रकेण सह तुम्बरु स्मृतम् । कर्षभागसहितांस्तथा हरेत् श्लक्ष्णपिष्टमथ संनयेत्ततः ॥ ९४ ॥ अश्वमत्र तु घृतस्य दापयेत् दध्न एव च भवेत्तथाढकम् । सर्वमेतदभिभूश्य शास्त्रतः पाचयेत मृदुनाऽग्निना सुखम्॥९५॥ मारुतोपहतगात्रचेतसां पार्श्वपृष्ठहनुजत्रुरोगिणाम् । क्षयगरविषदूषितान् मनुष्यान् गतवयसो बलवर्णविप्रयुक्तान् । घृतमिदमगदान् करोति सद्यः पवनकृतान् शमयेच्च सर्वरोगान् ॥ शोषे जीवन्त्याद्यं घृतम् । जीवन्तीं मधुकं द्राक्षां फलानि कुटजस्य च । शठीं पुष्करमूलं च व्याघ्रीं गोक्षुरकं बलाम् ॥ ९७ ॥ नीलोत्पलं तामलकीं त्रायमाणां दुरालभाम् । पिप्पलीं च समां पिष्ट्वा घृतं वैद्यो विपाचयेत् ॥ ९८ ॥ एतद्व्याधिसमूहस्य रोगराज्ञः समुच्छ्रितम् । रूपमेकादशविधं सर्पिरम्यं व्यपोहति ॥ ९९ । शिरोरोगे मायूरं घृतम् । दशमूलीबलारास्नामधुकत्रिफलैः सह । मायूरं पक्षपादान्त्रशकृत्पित्तास्यवर्जितम् ॥ १०० ॥ जले पक्त्वा घृतप्रस्थं तस्मिन् क्षीरसमं पचेत् । मधुरैः कार्षिकैर्द्रव्यैः शिरोरोगादितापहम् ॥ १०१ ॥ कर्णनासाक्षिजिह्वास्यगल रोगविनाशनम् । मायूरमिति विख्यातमूर्ध्वजत्रुगदापहम् ॥ १०२ ॥ महामायूरं घृतम् । एतेनैव कषायेण घृतप्रस्थं विपाचयेत् । चतुर्गुणेन पयसा कल्कैरेभिश्च कार्षिकैः ॥ १०३ ॥ जीवन्तीत्रिफलामेदामृद्वीकर्द्धिपरूषकैः । समङ्गाचविकाभार्गीकाश्मरीसुरदारुभिः ॥ १०४ ॥

घृताधिकारः १.] गदनिग्रहः। २०७ आत्मगुप्तामहामेदातालखर्जूरमस्तकैः । मधुरापिण्डखर्जूरशृङ्गीजीवकपद्मकैः ॥ १०५ ॥ शतावरीविदारीक्षुबृहतीसारिवायुतैः । पुनर्नवातुगाक्षीरीकाकोलीधन्वयासकैः ॥ १०६ ॥ मधूकाक्षोटवाताममुञ्जातामिषुकैरपि । द्रव्यैरेभिर्यथालाभं घृतं सम्यग्विपाचयेत् ॥ १०७ ॥ तत्पकं नावनेऽभ्यङ्गे पाने बस्तौ च योजयेत् । शिरोरोगेषु सर्वेषु कासे श्वासे च दारुणे ॥ १०८ ॥ मन्यापृष्ठग्रहे शोषे स्वरभेदे तथाऽर्दिते । योनिशुक्रप्रदोषेषु शस्तं वन्ध्यासुतप्रदम् ॥ १०९ ॥ ऋतुस्नाता तथा नारी पीत्वा पुत्रं प्रसूयते । महामायूरमित्येतदमृतमात्रेयपूजितम् ॥ ११० ॥ अशोरोगेऽवाक्पुष्प्याद्यं घृतम् । अवाक्पुष्पी बला दार्वी पृश्निपर्णी त्रिकण्टकः । न्यग्रोधोदुम्बराश्वत्थशुङ्गाश्च द्विपलोन्मिताः ॥ १११ ॥ कषाय एतैः, पेष्यास्तु जीवन्ती कटुरोहिणी । पिप्पली पिप्पलीमूलं मरिचं देवदारु च ॥ ११२ ॥ कलिङ्गाः शाल्मलीपुष्पं वीरा चन्दनमञ्जनम् । कट्फलं चित्रको मुस्ता प्रियङ्गवतिविषे स्थिरा ॥ ११३ ॥ पद्मोत्पलानां किञ्जल्कः समङ्गा सनिदिग्धिका । बिल्वं मोचरसः पाठा भार्गीः कर्षसमाः पृथक् ॥ ११४ ॥ चतुःप्रस्थे शृतं प्रस्थं कषायमवतारयेत् । (त्रिंशत्पलान्वितः प्रस्थो विज्ञेयो द्विपलाधिकः ।) ॥११५॥ सुनिषण्णकचाङ्गेर्योः प्रस्थौ द्वौ स्वरसख च । सर्वैरेभिर्यथोद्दिष्टैर्घृतप्रस्थं विपाचयेत् ॥ ११६ ॥ एतदर्शःस्वतीसारे त्रिदोषे रुधिरस्रुतौ । प्रवा‍हणे गुदभ्रंशे पिच्छासु विविधासु च ॥ ११७ ॥

उन्मादे चापि बहुशः शोफे शूले गुदाश्रये । मूत्रग्रहे मूढवाते मन्देऽग्नावुरुचौ तथा ॥ ११८ ॥ प्रयोज्यं विधिवत्सर्पिर्बलवर्णाग्निवर्धनम् । विविधेष्वन्नपानेषु केवलं वा निरत्ययम् ॥ ११९ ॥ अपतन्त्रके शुकनासाद्यं घृतम् । शुकनासा नागवल्ली द्वे बृहत्यौ महौषधम् । निचुलश्चैव भार्गी च काकादन्युपचेलिका ॥ १२० ॥ पुनर्नवा चेति समैरक्षमात्रैः पचेद्भिषक् । तोयाढके घृतप्रस्थं सिद्धं तच्चापि पाययेत् ॥ १२१ ॥ कासं श्वासं महाहिक्कां हृद्रोगं सापतन्त्रकम् । नातिक्रामेदिदं सर्पिर्वेलामिव महोदधिः ॥ १२२ ॥ उन्मादे चेतसं घृतम् । श्यामा मधुरसा द्राक्षा दण्डमूलं शतावरी । श्वदंष्ट्रा शणमूलं च तैर्युक्त्या कार्षिकैल्किकैः ॥ १२३ ॥ साधितं चेतसं नाम घृतं चेतोविकारनुत् । उन्मादमदमूर्च्छायज्वरापस्मारभेषजम् ॥ १२४ ॥ क्षीणक्षते समदुग्धकं घृतम् । षोडशभिर्जलपात्रैर्मृद्वीकायाः पलानि दश षट् च । अष्टौ मधुकफलानि च्छागन्मांर्सात्तुलाधं च ॥ १२५ ॥ अवशिष्टपादतोयं पूतं शीतं कषायमवतार्य । दत्त्वा कषायतुल्यं पयोऽथ नवसर्पिषः प्रस्थम् ॥ १२६ ॥ ऋषभकजीवकमेदाविदारिवीरात्मगुप्तानाम् । भव्याक्षोटनिकोचकशृङ्गाटकपद्मकबीजानाम् ॥ १२७ ॥ भागानक्षसमानश्च संसाधयेत्तु मृद्वग्नौ । सम्यक् सिद्धे तस्मिन् सितशर्करापलान्यष्टौ ॥ १२८ ॥ मधुनश्च पलान्यष्टौ चत्वारि पलानि पिप्पलीचूर्णात् । संमिश्रयेत्तु सर्वं क्षीणक्षतहितं समुद्दिष्टम् ॥ १२९ ॥

तैलाधिकारः २.] गदनिग्रहः । २०९ क्षीणक्षतेऽल्पशुक्रे तद्रक्तपैत्तिकेषु रोगेषु । स्त्रीकामेषु च देयं बल्यं वृष्यं च घृतमेतत् ॥ १३० ॥ वातगुल्मे हिङ्ग्वाद्यं घृतम् । हिङ्गुसौवर्चलव्योषविडदाडिमदीपकैः । पुष्कराजाजिधान्याम्लवेतसक्षारचित्रकैः ॥ १३१ ॥ शठीवचाजमोदाम्लसुरसैर्दधिसंयुतैः । शूलानाहहरं सर्पिः साधयेद्वातगुल्मिनाम् ॥ १३२ ॥ इति श्रीशौढलप्रथिते गदनिग्रहे परिशिष्टः प्रथमो घृताधिकारः समाप्तः । अथ परिशिष्टो द्वितीयस्तैलाधिकारः । बृहत्सहचरतैलम् । क्वाथे साहचरे शतावरियुते क्षुद्रामृतैरण्डजे श्योनाकारणिबिल्वगोक्षुरयुते सिंहाग्निमन्थोद्भवे । रास्नोशीरविशालदारुवरसैस्त्वक्पत्रमेदानखैः स्पृक्काभैलघनैर्नखैर्वालुसरलैः कङ्कोलकुष्ठोत्पलैः ॥ १ ॥ कौन्तीकेशीबलाद्विसारिविनिशारक्ष्मायासताहानतै- र्मञ्जिष्ठापुरसिंहचन्दनवरैश्चण्डाद्वहस्यौषेयकैः । श्रीवेष्टागुरुरोद्रकुङ्कुमवरैः कल्कैः समांशैरिमै- स्तैलं क्षीरसमं विपाच्य विधिना बस्तौ च नस्ये ध्रुवम्॥२॥ पानाभ्यङ्गविधौ नियोजितमिदं वातादिसर्वामयान् गुल्माष्ठीलशिरोऽर्त्तिजङ्गुलमुदरं श्वासामकासज्ज्वरम् । शोफं प्लीहगुदामयं च जठरं धातुक्षयाध्मानकं अर्शःकुष्ठभगन्दरं च क्षपयेत्सर्वान् व्रणान् हन्ति च ॥ ३॥ जयति पत्रकरोगान् कामलां विड्विबन्धं दिननिशितिमिरान्ध्यं गृध्रसीं मूर्द्धिवातम् ।

२१० आयुर्वेदग्रन्थमाला । सहचरमिति नाम्ना तैलमेतत्प्रसिद्धं धनपतिनृपयोग्यं भाषितं शम्भुनैव ॥ ४ ॥ तरक्षाद्यं तैलम् । तरक्षस्य शृगालस्य पादावत्राणि संत्यजेत् । कोष्ठसारादिकं सर्वमुत्क्वाथ्य बहुलेऽम्भसि ॥ ५ ॥ पादशेषं परिगृह्य छागगव्यपयोन्वितम् । तैलं रससमं दत्त्वा मदिरामस्तुकाञ्जिकम् ॥ ६ ॥ देवदारु हरिद्रे द्वे मांसी कुष्ठं सचन्दनम् । करञ्जस्त्रिवृता मुस्ता पत्राङ्गं रेणुकं त्वचम् ॥ ७ ॥ क्षारद्वयं त्रिकटुकं पञ्चैव लवणानि च । वचा तुरगगन्धा च मञ्जिष्ठा सर्जगुग्गुलू ॥ ८ ॥ मेदा रास्ना च वर्षाभूरेला शैलेयकं बला । एतैरर्धपलैर्द्रव्यैः शनैर्मृद्वग्निना पचेत् ॥ ९ ॥ तैलं तेनैव नश्यन्ति रोगा देहे शरीरिणाम् । अशीतिं वातजान् रोगान् शोफं शूलं कटिग्रहम् ॥ १० मांसमेदःश्रितं वायुं हर्षं चैव भगन्दरम् । लूतां सद्योव्रणं चैव नाडीदुष्टव्रणानि च ॥ ११ ॥ भूतग्रहमपस्मारमुन्मादं च नियच्छति । हन्ति वातमसाध्यं च पामादद्रुविचर्चिकाः ॥ १२ ॥ एतत्तैलं सदाभ्यङ्गात्सर्वरोगहरं नृणाम् । व्याघ्रतैलम् । व्याघ्रं शिरः समादाय क्वाथयित्वा जले बहु ॥ १३ ॥ उदूखले क्षोदयित्वा रसं नीत्वा सुगालितम् । दद्यात्कटाहे सुदृढे पचेत्पाकं विधानतः ॥ १४ ॥ द्रव्याण्येतानि मतिमान् पादमानेन दापयेत् । देवदारु नखाकुष्ठी तगरं चन्दनं घनः ॥ १५ ॥