गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
६.] गदनिग्रहः । १७३ दोषानुभयतः स्राव्य पाण्डुरोगं नियच्छति । कृमीनर्शांसि कुष्ठं च कासश्वासकफामयान् ॥ ९३ ॥ एषोऽरिष्टस्तु माण्डूरः शोफपाण्ड्वामयापहः । क्षयरोगे पिप्पल्यारिष्टः । पिप्पलीरोध्रमरिचपाठाधात्र्येलवालुकम् ॥ ९४ ॥ चव्यचित्रकजन्तुघ्नक्रमुकोशीरचन्दनम् । मुस्ताप्रियङ्गुलवलीहरिद्रामिशिप्लवम् ॥ ९५ ॥ पत्रत्वक्कुष्ठतगरं नागकेसरसंयुतम् । एषामर्धपलान् भागान् द्राक्षां षष्टिपलां क्षिपेत् ॥ ९६ ॥ पलानि दश धातक्या गुडस्य च शतत्रयम् । तोयद्रोणद्वये सिद्धो भवत्येष सुखावहः ॥ ९७ ॥ ग्रहणीपाण्डुरोगार्शःकासगुल्मोदरापहः । पिप्पल्यादिररिष्टोऽयं ज्वरारुचिविनाशनः ॥ ९८ ॥ शोफेऽष्टशतारिष्टः । काश्मर्यधात्रीमरिचाभयाक्षक्षुद्राफलानां तु सपिप्पलीनाम् । शतं शतं क्षौद्रगुडात् पुराणात्तुलां च कुम्भे मधुना प्रलिप्ते ९९ सप्ताहमुष्णे द्विगुणं तु शीते स्थितं जलद्रोणयुतं पिबेच्चा । शोफान्निबन्धान्कफवातजांश्च संहन्त्यरिष्टोऽष्टशतोऽग्निकृच्च १०० तक्रारिष्टः । हपुषा सुषवी धान्यमजाजी कारवी शठी । पिप्पली पिप्पलीमूलं चित्रको गजपिप्पली ॥ १०१ ॥ यवानी चाजमोदा च तच्चूर्णं तक्रसंयुतम् । मन्दाम्लकटुकं विद्वान् स्थापयेद्धृतभाजने ॥ १०२ ॥ व्यक्ताम्लकटुकं जातं तक्रारिष्टं मुखप्रियम् । पाययेन्मात्रया कालेष्वन्नस्य तृषितं त्रिषु ॥ १०३ ॥ दीपनो रोचनो बल्यः कफवातानुलोमनः । १. ‘क्षयक्षयकरः परम्’ इति पाठान्तरम् ।
१७२ आयुर्वेदीयग्रन्थमाला । [ आसवाधिकारः ग्रहण्यां द्वितीयोऽभयारिष्टः । हरीतकीदलप्रस्थं प्रस्थमामलकस्य च । विशालायाः कपित्थस्य पाठाचित्रकमूलयोः ॥ ८१ ॥ द्वे द्वे पले समापोथ्य द्विद्रोणे साधयेदपाम् । पादशेषे च पूते च रसे तस्मिन्प्रदापयेत् ॥ ८२ ॥ गुडस्यैकां तुलां वैद्यः संस्थाप्य घृतभाजने । पक्षस्थितं पिबेन्नित्यं ग्रहण्यर्शोविकारनुत् ॥ ८३ ॥ प्लीहहृत्पाण्डुरोगघ्नः कामलाविषमज्वरान् । कासं श्वासमुदावर्तं फलारिष्टो व्यपोहति ॥ ८४ ॥ प्रमेहे तृतीयोऽभयारिष्टः । पलाष्टकांशा वर्षाभूर्दशमूलार्कचित्रकाः । दन्ती श्यामात्रिवृद्राक्षाश्चैवं स्युस्त्रिफलाढका ॥ ८५ ॥ अम्बुद्रोणाष्टके पक्त्वा पादशेषे रसे हृते । द्वे गुडस्य तुले पूते तत्पश्चाद्धटके क्षिपेत् ॥ ८६ ॥ गवां मूत्राढकं, प्रस्थौ द्वावयोरजसस्तथा । विडङ्गं कुटजं कुष्ठं चित्रकं मरिचं वचा ॥ ८७ ॥ संचूर्ण्य द्विपलान्यस्मिन्दत्त्वा मासस्थितं पिबेत् । आमयोऽयमरिष्टेन्द्रो मेहार्शःकुष्ठशोफहा ॥ ८८ ॥ प्लीहपाण्ड्वामयान् गुल्मान् जठराणि च नाशयेत् । पाण्डुरोगे मण्डूरारिष्टः । मण्डूरस्य तु शुद्धस्य तुलार्धं परिकल्पितम् ॥ ८९ ॥ तदर्द्धलोहस्य पत्राणि तिलोत्सेधप्रमाणतः । गुडाज्जीर्णात्तु पञ्चाशत्कोलप्रस्थत्रयं तथा ॥ ९० ॥ निकुम्भचित्रकाभ्यां च पले द्वे द्वे सुचूर्णिते । पिप्पलीनां विडङ्गानां कुडवं कुडवं पृथक् ॥ ९१ ॥ त्रींश्चापि त्रिफलाप्रस्थान् जलद्रोणे विपाचयेत् । अर्धमासस्थितो धान्ये पेयोऽरिष्टः प्रमाणतः ॥ ९२ ॥
६.] गदनिग्रहः । १७३ दोषानुभयतः स्राव्य पाण्डुरोगं नियच्छति । कृमीनर्शांसि कुष्ठं च कासश्वासकफामयान् ॥ ९३ ॥ एषोऽरिष्टस्तु माण्डूरः शोफपाण्डामयापहः । क्षयरोगे पिप्पल्यारिष्टः । पिप्पलीरोध्रमरिचपाठाधात्र्येलवालुकम् ॥ ९४ ॥ चव्यचित्रकजन्तुघ्नक्रमुकोशीरचन्दनम् । मुस्ताप्रियङ्गुलवलीहरिद्रामिशिप्लवम् ॥ ९५ ॥ पत्रत्वक्कुष्ठतगरं नागकेसरसंयुतम् । एषामर्धपलान् भागान् द्राक्षां षष्टिपलां क्षिपेत् ॥ ९६ ॥ पलानि दश धातक्या गुडस्य च शतत्रयम् । तोयद्रोणद्वये सिद्धो भवत्येष सुखावहः ॥ ९७ ॥ ग्रहणीपाण्डुरोगार्शःकासगुल्मोदरापहः । पिप्पल्यादिररिष्टोऽयं ज्वरारुचिविनाशनः ॥ ९८ ॥ शोफेऽष्टशतारिष्टः । काश्मर्यधात्रीमरिचाभयाक्षक्षुद्राफलानां तु सपिप्पलीनाम् । शतं शतं क्षौद्रगुडात् पुराणात्तुलां च कुम्भे मधुना प्रलिप्ते ९९ सप्ताहमुष्णे द्विगुणं तु शीते स्थितं जलद्रोणयुतं पिबेन्ना । शोफान्निबन्धान्कफवातजांश्च संहन्त्यरिष्टोऽष्टशतोऽग्निकृच्च १०० तक्रारिष्टः । हपुषा सुषवी धान्यमजाजी कारवी शठी । पिप्पली पिप्पलीमूलं चित्रको गजपिप्पली ॥ १०१ ॥ यवानी चाजमोदा च तच्चूर्णं तक्रसंयुतम् । मन्दाम्लकटुकं विद्वान् स्थापयेद्घृतभाजने ॥ १०२ ॥ व्यक्ताम्लकटुकं जातं तक्रारिष्टं मुखप्रियम् । पाययेन्मात्रया कालेष्वन्नस्य तृषितं त्रिषु ॥ १०३ ॥ दीपनो रोचनो बल्यः कफवातानुलोमनः । १. 'क्षयक्षयकरः परम्' इति पाठान्तरम् ।
१७४ आयुर्वेदीयग्रन्थमाला । [ आसवाधिकारः गुदश्वयथुकण्ठार्त्तिनाशनो बलवर्धनः ॥ १०४ ॥ अरोचके लघुचुक्रसन्धानम् । गुडक्षौद्रारनालाનાં समस्तूनां यथोत्तरम् । शंसन्ति द्विगुणान्भागान्सम्यक्चुक्रस्य सिद्धये ॥ १०५ ॥ यन्मस्त्वारि शुचौ भाण्डे सक्षौद्रगुडकाञ्जिकम् । धान्यराशौ त्रिरात्रस्थं शुक्तं चुक्रं तदुच्यते ॥ १०६ ॥ मन्दाग्नौ बृहच्चुक्रसन्धानम् । प्रस्थं तण्डुलतोयतस्तुषजलात्प्रस्थत्रयं चाम्लतः प्रस्थार्धं दधितोऽथ मूलकपलान्यष्टौ गुडान्मानिका । मान्यौ शोधितशृङ्गवेरशकलाद् द्वे सिन्धुजातात्पले द्वे कृष्णोषणयोर्निशापलयुगं निःक्षिप्य भाण्डे दृढे ॥१०७॥ स्निग्धे धान्ययवादिराशिनिहितं त्रीन्वासराSubन्वासयेत् ग्रीष्मे तोयधरात्यये च चतुरो वर्षासु पुष्पाममे । षट् शीतेऽष्टदिनान्यतः परमिदं विस्राव्य संचूर्णितै- श्चातुर्जातपलैः सुसंहितमिदं शुक्तं च चुक्रं ततः ॥१०८॥ हन्याद्वातकफामदोषजनितान्नानाविधानामयान् । दुर्नामानिलशूलगुल्मजठरान्हृत्वाऽनलं दीपयेत् ॥ १०९ ॥ लवङ्गासवः । लवङ्गपिप्पलीलोहमरिचं सैलवालुकम् । द्विपलांशं जलस्यैतच्चतुर्द्रोणे विपाचयेत् ॥ ११० ॥ द्रोणशेषे रसे तस्मिन्पूते शीते प्रदापयेत् । गुडस्य द्विशतं तिष्ठेत्तत्सर्वं घृतभाजने ॥ १११ ॥ पक्षादूर्ध्वं जातरसे दद्यान्मात्रां यथाबलम् । अस्याभ्यासादरिष्टस्य गुदजा यान्ति संक्षयम् ॥ ११२ ॥ ग्रहणीपाण्डुहृद्रोगप्लीहगुल्मोदरापहः । कुष्ठशोफारुचिहरो बलवर्णाग्निवर्धनः ॥ ११३ ॥ सद्यः क्षयहरोऽरिष्टः कामलाश्रित्रनाशनः ।
६.] गदनिग्रहः । १७५ कृमिग्रन्थ्यर्बुदव्यङ्गराजयक्ष्मज्वरान्तकृत् ॥ ११४ ॥ प्लीहे रोहीतकासवः । रोहीतकशतमेकं कथितं द्रोणे चतुर्थशेषे तु । तस्मिन्गुडशतमेकं योज्यं शेषैः सुचूर्णितैरेभिः ॥ ११५ ॥ पलमेकं त्रिफलाया देयं त्रिपलं च धातकीपुष्पात् । पलिकं च पञ्चकोलाद्धृतभाण्डे स्थापयेत्पक्षम् ॥ ११६ ॥ ज्वरगुल्मार्शःप्लीहरुग्विग्रहपाण्डुरोगघ्नः । अर्शस्सु गण्डिकाद्रोणः । दद्यात्सलिलद्रोणं कृतमन्येक्षुगण्डिकाद्रोणम् ॥ ११७ ॥ धान्ययवानीदीप्यकपृथ्वौकाश्वेति कुडवांशाः । द्विपलीनाः स्युर्देयास्तेजवतीचव्यचित्रकाजाज्यः ॥ ११८॥ मधुनः कुडवं दत्त्वा घृतरूढे भाजने स्थाप्यः । एष काञ्जिकराजो लवणयुतः कट्कतृणार्द्रकसुगन्धः॥११९॥ दशरात्रात्पातव्यः सलिलं च पुनः पुनर्देयम् । अर्शोभगन्दरगदग्रहणीमेदःप्रमेहदोषांश्च ॥ १२० ॥ नाशयति सेव्यमानो वह्निकरो गण्डिकाद्रोणः । कुष्ठे खदिरासवः । खदिरस्य तुलार्धं तु तत्तुल्यं देवदार्वपि ॥ १२१ ॥ वराया विंशतिर्दान्व्यर्याः पलानां पञ्चविंशतिः । बाकुच्या द्वादशपलांन्यष्टद्रोणेऽम्भसः पचेत् ॥ १२२ ॥ द्रोणशेषे कषाये तु पूते शीते विनिक्षिपेत् । धातक्या विंशतिपलं माक्षिकस्य शतद्वयम् ॥ १२३ ॥ शर्करायास्तुलामेकां चूर्णानीमानि दापयेत् । कङ्कोलकं लवङ्गं च एला जातीफलं त्वचम् ॥ १२४ ॥ केसरं मरिचं पत्रं पलिकान्युपकल्पयेत् । पिप्पलीनां तु कुडवं स्थापयेद्धृतभाजने ॥ १२५ ॥ १ 'वचायाः' इति पाठान्तरम् ।
१७६ आयुर्वेदीयग्रन्थमाला । [आसवाधिकारः मासादूर्ध्वं पिबेन्मात्रामपेक्ष्याग्निबलाबलम् । सर्वकुष्ठहरो ह्येष पाण्डुहृद्रोगकासनुत् ॥ १२६ ॥ कृमिग्रन्ध्यर्बुदग्रन्थिगुल्मप्लीहोदरान्तकृत् । एष वै खदिरारिष्टः कृष्णात्रेयेण पूजितः ॥ १२७ ॥ कुष्ठे द्वितीयः खदिरारिष्टः । खदिरस्य तुलामम्भसि विपचेच्चतुर्द्रोणसंमिते शेषम् । पादं विगृह्य शीते दद्यान्मधुनस्तुलां सार्धाम् ॥ १२८ ॥ वस्त्रविपूते चूर्णं व्योषत्रिफलापिण्डखर्जूरी- । स्वर्णत्वग्बाकुचिकामृताविडङ्गपलाशनाम् ॥ १२९ ॥ धातकिपलषोडशकं दत्त्वा प्रविलोडितं नित्यम् । यावत्षोडशदिवसाः षोडशके मधुतुलां दद्यात् ॥ १३० ॥ मासात्परतः पेयो दत्त्वा मृगनाभिमाषकं पटेबद्धम् । कर्पूरमाषद्वयमेष खदिरासवो महाकुष्ठे ॥ १३१ ॥ क्षयरोगे बब्बुल्यासवः । तुलाद्वयं तु बब्बुल्याश्चतुर्द्रोणेऽम्भसः पचेत् । द्रोणशेषे रसे शीते गुडस्य त्रिशतं क्षिपेत् ॥ १३२ ॥ धातक्याः षोडशपलं पिप्पलीनां पलद्वयम् । जातीलवङ्गकङ्कोलमेलात्वक्पत्रकेसरम् ॥ १३३ ॥ मरिचेन समायुक्तं पलिकांस्तत्र कल्पयेत् । मासमात्रं स्थितो ह्येष बब्बुल्यासवसंज्ञितः ॥ १३४ ॥ क्षयं कुष्ठं प्रमेहांश्च कासश्वासांश्च नाशयेत् । क्षयरोगे पुष्करमूलासवः । तुलां पुष्करमूलस्य तदर्धं तु दुरालभा ॥ १३५ ॥ तदर्धेन तु धान्याकं व्योषाच्च पलविंशतिः । मञ्जिष्ठाकुष्ठमरिचं कपित्थं देवदारु च ॥ १३६ ॥ रोध्रं कृमिघ्नं चविका पिप्पलीमूलमेव च । उशीरकाश्मरिफलं रास्ना भार्ङ्गी च नागरम् ॥ १३७ ॥
६.] गदनिग्रहः । १७७ एषां द्विपलिकान्भागंश्चतुर्द्रोणेऽम्भसः पचेत् । द्रोणशेषे कषाये तु पूते शीते प्रदापयेत् ॥ १३८ ॥ गुडस्य त्रिशतं तत्र धातक्याः पलविंशतिः । मरिचं केसरं श्यामामेलात्वक्पत्रकं पलम् ॥ १३९ ॥ पिप्पलीनां तु कुडवं चूर्णीकृत्य प्रदापयेत् । घृतभाण्डे स्थितं मासं पिबेन्मात्रां यथाबलम् ॥ १४० ॥ क्षयापस्मारकासासृक्शोफगुल्मभगन्दरान् । पुष्करासव इत्येष प्रयोगादेव नाशयेत् ॥ १४१ ॥ क्षयरोगे माचिकासवः । माचिकायाः शतार्धं तु द्रोणेऽपां च विपाचयेत् । चतुर्थशेषे तस्मिंस्तु पूते शीते प्रदापयेत् ॥ १४२ ॥ गुडस्य द्विशतं दत्त्वा तत्सर्वं घृतभाजने । विडङ्गपिप्पलीकृष्णात्वगेलापत्रकेसरैः ॥ १४३ ॥ मरिचैश्च तथा चूर्णं सम्यक्कृत्वा विचक्षणः । क्षिपेच्च पालिकैर्भागैर्घटनीयं समन्ततः ॥ १४४ ॥ ततो यथाबलं पीत्वा कासश्वासगलामयान् । हन्ति यक्ष्माणमत्युग्रमुरःसन्धानकारकः ॥ १४५ ॥ माचिकासव इत्येष ब्रह्मणा निर्मितः पुरा । शोफे पुनर्नवासवः । पुनर्नवे द्वे च पले सपाठे दन्ती गुडूची सह चित्रकेण । निदिग्धिका च त्रिपलानि पक्त्वा द्रोणावशेषे सलिले ततस्तु ॥ पूत्वा रसं द्वे च तुले पुराणाद्गुडान्मधुप्रस्थयुतं सुशीतम् । मासं निदध्याद्धृतभाजनस्थं पल्ले यवानां परतश्च मासात् १४७ चूर्णीकृतैरर्धपलांशकैस्तं हेमत्वगेलामरिचाम्बुपत्रैः । गन्धान्वितं क्षौद्रघृतप्रदिग्धं जीर्णे पिबेद्व्याधिबलं समीक्ष्य १४८ हृत्पाण्डुरोगं श्वयथुं प्रवृद्धं प्लीहभ्रमारोचकमेहगुल्मान् । भगन्दरार्शोजठराणि कासश्वासग्रहण्यामयकुष्ठकण्डूः ॥ १४९ ॥
१७८ आयुर्वेदीयग्रन्थमाला । [ आसवाधिकारः शाखानिलं बद्धपुरीषतां च हिक्कां किलासं च हलीमकं च । क्षिप्रं जयेद्वर्णबलायुरोजस्तेजोन्वितो मांसरसान्नभोजी ॥१५०॥ शोफे त्रिफलारिष्टः । फलत्रयं चित्रकपिप्पली च सदीप्यकं लोहरजो विडङ्गम् । चूर्णीकृतं कौडविकं, द्विरंशं क्षौद्रं, पुराणस्य तुलां गुडस्य । मासं निदध्याद्घृतभाजनस्थं यवेषु तानेवं निहन्ति रोगान्१५१ सर्वशोफे वासकासवः । वासकस्य तुले द्वे तु द्विद्रोणेऽपां विपाचयेत् । द्रोणार्धशेषं तत्कृत्वा पूते शीते प्रदापयेत् ॥ १५२ ॥ गुडस्यैकां तुलां तत्र धातक्यास्तु पलोष्टकम् । क्षिपेच्चूर्णीकृतं तस्मिंस्त्वगेलापत्रकेसरम् ॥ १५३ ॥ कङ्कोलव्योषतोयानि पलिकान्युपकल्पयेत् । सम्यक्पक्वं ततो ज्ञात्वा पक्षादूर्ध्वं पिबेदमुम् ॥ १५४ ॥ वासकासव इत्येष सर्वश्वयथुनाशनः । अर्शस्सु शर्करासवः । दुरालभायाः प्रस्थं च चित्रकस्य वृषस्य च ॥ १५५ ॥ पथ्यामलकयोश्चैव पाठाया नागरस्य च । दद्याद्द्विपलिकान्भागाञ्जलद्रोणे विपाचयेत् ॥ १५६ ॥ पादशेषे रसे पूते सुशीते शर्कराशतम् । दत्त्वा कुम्भे दृढे स्थाप्यं मासार्धं घृतभाजने ॥ १५७ ॥ प्रलिप्ते पिप्पलीचव्यप्रियङ्गुमधुसर्पिषा । तस्य मात्रां पिबेत्काले शर्करस्य यथाबलम् ॥ १५८ ॥ अर्शांसि ग्रहणीरोगमुदावर्तमरोचकम् । शकृन्मूत्रानिलोद्गारविबन्धानग्निमार्दवम् ॥ १५९ ॥ हृद्रोगं पाण्डुरोगं च सर्वमेतत्प्रसाधयेत् । १. पुनर्नवासवपठितानित्यर्थः ।
६.] गदनिग्रहः । १७९ ग्रहण्यां द्राक्षासवः । मृद्वीकायाः पलशतं चतुर्द्रोणेऽम्भसः पचेत् ॥ १६० ॥ द्रोणशेषे सुशीते च पूते तस्मिन्प्रदापयेत् । द्वे शते क्षौद्रखण्डाभ्यां धातक्याः प्रस्थमेव च ॥ १६१ ॥ कङ्कोलकलवङ्गे च जातीफलमथैव च । पलांशकानि मरिचत्वगेलापत्रकेसरम् ॥ १६२ ॥ पिप्पली चित्रकं चव्यं पिप्पलीमूलरेणुकम् । घृतभाण्डे स्थितं चेदं चन्दनागुरूधूपिते ॥ १६३ ॥ कर्पूरवासितो ह्येष ग्रहणीदीपनः परः । अर्शसां नाशनः श्रेष्ठ उदावर्तास्रपित्तनुत् ॥ १६४ ॥ जठरकृमिकुष्ठानि व्रणांश्च विविधांस्तथा । अक्षिरोगशिरोरोगगलरोगविनाशनः ॥ १६५ ॥ ज्वरं हन्ति महाव्याधिं पाण्डुरोगं सकामलम् । नाम्ना द्राक्षासवो ह्येष बृंहणो बलवर्णकृत् ॥ १६६ ॥ अर्शसि द्वितीयो द्राक्षासवः । द्राक्षापलशतं दत्त्वा चतुर्द्रोणेऽम्भसः पचेत् । द्रोणशेषे रसे तस्मिन्पूते शीते प्रदापयेत् ॥ १६७ ॥ शर्करायास्तुलां दत्त्वा तत्तुल्यं मधुनस्तथा । पलानि सप्त धातक्याः स्थापयेदाज्यभाजने ॥ १६८ ॥ जातीलवङ्गकक्कोललवलीफलचन्दनैः । कृष्णां त्रिगन्धसंयुक्तां भागैरर्धपलांशकैः ॥ १६९ ॥ त्रिःसप्ताहाद्भवेत्पेयं तत्र मात्रा यथाबलम् । नाम्ना द्राक्षासवो ह्येष नाशयेद्गुदकीलकान् ॥ १७० ॥ शोफारोचकहृत्पाण्डुरक्तपित्तभगन्दरान् । गुल्मोदरकृमिग्रन्थिक्षतशोषज्वरान्तकृत् ॥ १७१ ॥ वातपित्तप्रशमनः शस्तश्च बलवर्णकृत् ।
१८० आयुर्वेदीयग्रन्थमाला । [ आसवाधिकारः ग्रहण्यां बीजकासवः । बीजकात्षोडशपलं त्रिफलायाश्च विंशतिः ॥ १७२ ॥ द्राक्षायाः पञ्च लाक्षायाः सप्त द्रोणे तथाऽम्भसि । साध्यं पादावशेषे च पूतशीते प्रदापयेत् ॥ १७३ ॥ शर्करायास्तुलां प्रस्थं क्षौद्रं दद्याच्च कार्षिकम् । व्योषव्याघ्रनखोशीरं क्रमुकं सैलवालुकम् ॥ १७४ ॥ मधुकं कुष्ठमित्येतच्चूर्णितं घृतभाजने । यवेषु दशरात्रस्थं ग्रीष्मे, द्विः शिशिरे स्थितम् ॥ १७५ ॥ पिबेत्तद्ग्रहणीपाण्डुरोगार्शःशोफगुल्मनुत् । मूत्रकृच्छ्राश्मरीकुष्ठकामलासन्निपातनुत् ॥ १७६ ॥ अर्शसि पील्वासवः । द्रोणं पीलुरसस्य वस्त्रगलितं न्यस्तं हविर्भाजने युञ्जीत द्विपलैर्मदामधुफलाखर्जूरधात्रीफलैः । पाठामाद्रिदुरालभाम्लविदुलव्योषत्वगेलोल्लकैः स्पृक्काकोललवङ्गवेल्लचपलामूलाथिकैः पालिकैः॥१७७॥ गुडशतविनियोजितं निवाते निहितमिदं प्रपिबेच्च पक्षमात्रात् । निशमयति गुदाङ्कुरान्सगुल्मा- ननलबलं प्रबलं संविधत्ते ॥ १७८ ॥ रक्तपित्ते उशीरासवः । उशीरं पद्मकं रोध्रं प्रियङ्गुं नीलमुत्पलम् । प्रपौण्डरीकं काश्मीरं ह्रीबेरं धन्वयासकम् ॥ १७९ ॥ सेव्यं किराततिक्तं च पटोलं काञ्चनारकम् । पद्मं शाल्मलिनिर्यासं न्यग्रोधोदुम्बरं शठीम् ॥ १८० ॥ मञ्जिष्ठां पर्पटं जम्बू भागानैतान्पलोन्मितान् । सूक्ष्मचूर्णीकृतान् दद्याद्राक्षायाः पलविंशतिम् ॥ १८१ ॥ धातक्याः षोडशपलं तोयद्रोणे विनिक्षिपेत् ।
६.] गदनिग्रहः । १८१ शर्करायास्तुलां दत्त्वा माक्षिकस्य तुलां तथा ॥ १८२ ॥ उशीरासव इत्येष रक्तपित्तविनाशनः । पाण्डुकुष्ठप्रमेहार्शःकृमिशोफहरस्तथा ॥ १८३ ॥ श्वासकासयोस्त्रायमाणासवः । त्रायन्ती कट्फलं दन्ती पौष्करं कण्टकारिका । दुरालभाऽञ्जनं सिंही पिप्पलीमूलमेव च ॥ १८४ ॥ धात्री कृमिहरं भार्ङ्गी माचिका चैल्वालुकम् । पथ्या शठी विशाला च भागानष्टपलोन्मितान् ॥ १८५ ॥ चतुर्द्रोणेऽम्भसः पक्त्वा शृतं द्रोणावशेषितम् । धातक्या विंशतिपलं माक्षिकस्य शतत्रयम् ॥ १८६ ॥ श्यामापलानि चत्वारि एलात्वक्पत्रकेसरम् । भागान्द्विपलिकानैषां चूर्णं कृत्वा विनिक्षिपेत् ॥ १८७ ॥ त्रायमाणासवो ह्येष कासश्वासामयग्रणुत् । पाण्डुहृद्रोगगुल्मार्शःसन्निपातज्वरापहः ॥ १८८ ॥ गुल्मे चविकासवः । तुलार्धं चविकायास्तु तदर्धं चित्रकस्य च । बाष्पिका पौष्करं मूलं पञ्चन्था हपुषा शठी ॥ १८९ ॥ पटोलमूलत्रिफलायवानीकुटजत्वचः । विशाला धान्यकं रास्ना दन्ती दशपलोन्मिता ॥ १९० ॥ कृमिघ्नमस्तमञ्जिष्ठादेवेदारुकटुत्रिकात् । भागान्पञ्चपलानेतानष्टद्रोणेऽम्भसः पचेत् ॥ १९१ ॥ द्रोणशेषे सुशीते च देयं गुडशतत्रयम् । धातक्या विंशतिपलं चातुर्जातपलाष्टकम् ॥ १९२ ॥ लवङ्गव्योषकङ्कोलं पलिकानि प्रकल्पयेत् । निदध्यान्मासमेकं तु घृतभाण्डे सुसंस्कृते ॥ १९३ ॥ चतुष्पलां पिबेन्मात्रां प्रातः पीतो नियच्छति । सर्वान्गुल्मविकारांश्च प्रमेहांश्चैव विंशतिः ॥ १९४ ॥ १६
१८२ आयुर्वेदीयग्रन्थमाला । [आसवाधिकारः प्रतिश्यायं क्षयं कासमष्ठीलां वातशोणितम् । उदराणन्त्रवृद्धिं च चविकाख्यो महासवः ॥ १९५ ॥ ग्रहण्यां मूलासवः । द्विपञ्चमूलरजनीजीवकर्षभजीरकम् । पृथक्पञ्चपलैर्भागैश्चतुर्द्रोणेऽम्भसः पचेत् ॥ १९६ ॥ द्रोणशेषे रसे पूते गुडस्य द्विशतं तथा । चूर्णितान्कुडवार्धांशांन्दत्त्वा चात्र समाक्षिकान् ॥ १९७ ॥ प्रियङ्गुमुस्तमञ्जिष्ठाविडङ्गमधुकप्लवान् । रोध्रं सावरकं चैव मासार्धं स्थापयेद्घटम् ॥ १९८ ॥ एष मूलासवः सिद्धो दीपनो रक्तपित्तहा । आमहृत्कफहृद्रोगपाण्डुरोगाङ्गसादनुत् ॥ १९९ ॥ क्षयरोगे बृहन्मूलासवः । महावृक्षवटार्काणां विनामूलैः परैः शुभैः । अष्टोत्तरशतैरम्भस्त्रिंशद्घटमितं पचेत् ॥ २०० ॥ तुलात्रयप्रमाणं च दशमूल्यास्तथैव च । अष्टावशेषमुत्तार्य गुडस्यानु दिनद्वयम् ॥ २०१ ॥ पलानां विंशतिशतं क्षिपेच्च दृढे घटे । आतपे तं विनिक्षिप्य धारयेत्रिदिनं ततः ॥ २०२ ॥ उद्धृत्य धूपिते पात्रे वस्त्रपूतं क्षिपेद्भिषक् । धातकीं विंशतिपलां हरीतक्याः पलाष्टकम् ॥ २०३ ॥ पूगानां विंशतिपलं पिप्पल्याः पलपञ्चकम् । एलालवङ्गकङ्कोलजातीत्वक्पत्रकेसरम् ॥ २०४ ॥ पलं पलं समरिचं चूर्णीकृत्य भिषग्वरः । आसवे निक्षिपेत्तत्र मधुनः कुडवद्वयम् ॥ २०५ ॥ संजातेऽष्टदिने तस्मादुद्धृत्यान्यत्र तं न्यसेत् । आसवे सकषाये तु गुडमन्यं प्रदापयेत् ॥ २०६ ॥ १. मूलरहितैरन्यैस्त्वक्पत्राद्यवयवैरित्यर्थः ।
६.] गदनिग्रहः । १८३ निष्कास्य पूर्वचूर्णं तु नवं तत्र नियोजयेत् । नाम्ना मूलासवो ह्येष रोगराजनिकृन्तनः ॥ २०७ ॥ श्वासामवातविध्वंसी पाण्डुप्रीहोदरापहः । कृमिगुल्मप्रमेहाणां नाशनो वह्निदीपनः ॥ २०८ ॥ धातुक्षये भृङ्गराजासवः । भृङ्गराजरसद्रोणं गुडस्य द्वितुलां तथा । हरीतकीनां प्रस्थार्धं स्निग्धे भाण्डे निवेशयेत् ॥ २०९ ॥ पक्षादूर्ध्वं पिबेदेनं मात्रया च यथाबलम् । जाते ह्यस्मिन्पुनर्दत्त्वा पिप्पल्याश्च पलद्वयम् ॥ २१० ॥ जातीफलं लवङ्गानि त्वगेलापत्रकेसरम् । धातुक्षयं जयेत्पीतः कासं पञ्चविधं तथा ॥ २११ ॥ कृशानां च महापुष्टिं कुरुते च महाबलम् । कामवृद्धिं करोत्येव वन्ध्यानां पुत्रदो भवेत् ॥ २१२ ॥ भगन्दरे गुग्गुल्वासवः । शतं हरीतकीनां तु बिभीतकशतं तथा । प्रस्थमामलकानां च गुग्गुलोश्च चतुष्पलम् ॥ २१३ ॥ त्वगेलापिप्पलीमूलचव्यचित्रकदीप्यकम् । तालीसपत्रत्रिकटुमुस्तकेसरकट्फलम् ॥ २१४ ॥ जलद्रोणे विपक्तव्यं पादशेषे जले ततः । धातक्याः प्रस्थमेकं तु तथा गुडशतद्वयम् ॥ २१५ ॥ द्राक्षादाडिमखण्डानां भागान्दशपलोन्मितान् । सर्वमेतत्समालोड्य स्थापयेद्भाजने शुभे ॥ ५१६ ॥ यदा युक्तरसः स्याच्च सुजातो गन्धवर्णतः । तं पूरयेत्तदा भाण्डे सूक्तस्येक्षुरसस्य तु ॥ २१७ ॥ षण्माससंयुक्तो ह्येष द्रवो पेयः प्रयोगतः ॥ २१८ ॥
१८४ आयुर्वेदीयग्रन्थमाला । [आसवाधिकारः गुग्गुल्वासव इत्येष देयः सर्वेषु रोगिषु । प्राग्भक्तं मध्यभक्तं वा ग्रासे ग्रासान्तरे तथा ॥ २१९ ॥ दद्यात्क्रमेण योगं तु वयःसात्म्यमपेक्ष्य च । नाशयेदुदरं प्लीहामूरुस्तम्भं सकामलम् ॥ २२० ॥ चिरोत्थितमपि श्वासं कासशोफभगन्दरान् । कृमिकुष्ठप्रमेहेषु हितश्चैवाग्निदीपनः ॥ २२१ ॥ अर्शस्सु ताम्बूलासवः । जतुस्रुतमादौ कृत्वा भाण्डकमर्धप्रवेशितं भूमौ । तत्तरुणहरितजम्बूपत्रक्वाथेन संशुद्धम् ॥ २२२ ॥ शुद्धे च शर्कराभिरगरुं दद्यात्सुगन्धतरम् । वासार्थं, धातक्याः पलानि खलु सप्त देयानि ॥ २२३ ॥ पूगीफलानि खदिरं दशपलिकानि दापयेत्तत्र । ताम्बूलीपत्रशतैर्दशभिः क्षुण्णैश्च पञ्चभिश्चान्यैः ॥ २२४ ॥ पलशतमेकं मधुनः शतं च सार्धं तु वारिणो देयम् । कङ्कोलकृष्णानां प्रत्येकं द्वे पले च स्युः ॥ २२५ ॥ त्रिफलाजातिफलैलालवङ्गकुसुमानि चैकपलिकानि । दत्त्वाऽवलोड्यमेतत्त्रीणि दिनानि पाणिना पात्रे ॥२२६॥ स भवेद्यदा सशब्दस्ततो गुडशतपलानि त्रीणि । देयानि प्रविलीनमग्नियोगात्तं तु जलद्रोणसंयुक्तम्॥२२७॥ पक्षद्वयेन पेयो रसनाक्षिमनोंहरः सुरभिगन्धः । ताम्बूलासव एष रसायनानां भवेद्वय्यः ॥ २२८ ॥ प्रीणयति हन्ति गुदजान् सर्वांश्च कफोद्भवांस्तथा रोगान्॥ वलवर्णशुक्रजननो ह्युपयोगादश्मरीं हन्यात् । संवत्सरमुपयुक्तः स्थिरवयसं मानवं कुरुते ॥ २३० ॥ अपस्मारे पञ्चमूत्रासवः । अजागोसुरभीणां च चतुःकर्षं खरोष्ट्रयोः । मूत्रं संग्राद्य कुम्भे च स्थाप्य चूर्णं प्रदापयेत् ॥ २३१ ॥
६.] गदनिग्रहः । १८५ वचाया वातकुम्भस्य लशुनस्यैलया सह । लवङ्गस्यापि प्रत्येकं पलार्धं कृमिनाशनः ॥ २३२ ॥ व्योषस्यापि पलं सार्धमभयैकपला मता । चुल्यग्रे वासरान्सप्त निक्षिप्याशु समुद्धरेत् ॥ २३३ ॥ प्लीहोदरहरं दिव्यं मूढवातकफापहम् । अशीतिवातशमनं पञ्चमूत्रासवं विदुः ॥ २३४ ॥ धातुक्षये हरीतक्यासवः । हरीतकीनां प्रस्थार्धं धात्रीप्रस्थद्वयं तथा । दशमूलशतार्धं च पौष्करं च तदर्धकम् ॥ २३५ ॥ तत्तुल्यं चित्रकं दद्याच्चित्रकार्धा दुरालभा । गुडूच्या विंशतिपलं विशालापलपञ्चकम् ॥ २३६ ॥ खदिरस्य पलान्यष्टौ तदर्धं बीजपूरकम् । मञ्जिष्ठा मधुकं कुष्ठं कपित्थं देवदारुकम् ॥ २३७ ॥ विडङ्गं चविका रोध्रं भार्ङ्गी स्यादेलवालुकम् । संवर्तकं पिप्पलीं च क्रमुकं श्वठिसुप्रभम् ॥ २३८ ॥ प्रियङ्गुसारिवामांसीनागकेसरेणुकम् । त्रिवृतां रजनीं रास्नां मेषशृङ्गीं पुनर्नवाम् ॥ २३९ ॥ शताह्वां रोहिणीं दन्तीं पलांशान्क्वाथयेज्जले । चतुर्थपादशेषे तु द्राक्षां षष्टिपलां क्षिपेत् ॥ २४० ॥ त्रिंशत्पलानि धातक्या गुडाच्छुद्धाच्चतुःशतम् । द्वात्रिंशत्पलिकं क्षौद्रं सर्वमेकत्र कारयेत् ॥ २४१ ॥ भाण्डे पुराणे सुस्निग्धे मांसीमरिचधूपिते । धूपिते च पुनर्दद्यात्पिप्पलीनां पलद्वयम् ॥ २४२ ॥ जातीफलं लवङ्गं च त्वगेलापत्रकेसरान् । कर्षमात्रां च नेपालीं दत्त्वा पक्षं निधापयेत् ॥ २४३ ॥ १. 'गुप्तं' इति पाठान्तरम् ।
१८६ आयुर्वेदीयग्रन्थमाला । [ आसवाधिकारः कतकफलचूर्णेऽपि क्षिप्ते निर्मलता भवेत् । पक्षादूर्ध्वं पिबेद्यस्तु मात्रया च यथाबलम् ॥ २४४ ॥ धातुक्षयं जयेत्पीतः कासं पञ्चविधं तथा । अर्शांसि षट्प्रकाराणि तथाऽष्टावुदराणि च ॥२४५ ॥ प्रमेहं च महाव्याधिमरुचिं पाण्डुतां तथा । सर्वान् वातान् तथाऽऽमं श्वासं छर्दिं तथैव च ॥२४६॥ अष्टादशैव कुष्ठानि शोषं शूलं भगन्दरम् । शर्करां मूत्रकृच्छ्रं च ह्यश्मरीं च विनाशयेत् ॥ २४७ ॥ कृशानां च महापुष्टिं कुरुते च महाबलम् । महावेगो महातेजा महावीर्यबलोद्धतः । कामपुष्टिं करोत्येष वन्ध्यानां पुत्रदो भवेत् ॥ २४८ ॥ आवर्तक्याद्यासवः । १ नेत्रभेषजशिफापलाष्टकं सार्धमैलपलमर्धमस्तकीम् । हेमजार्धपलमेकतः कृतं द्रोणवारिमिलितं दिनत्रयात् ॥२४९॥ यः पिबेद्दिपलिकं दिनोदये नीरमस्तसमये समाहितः । तस्य नश्यति कटीसमुद्भवं दद्रु मासयुगलेन निश्चितम् ॥२५० क्षये दशमूलासवः । दशमूलतुलार्धं तु पौष्करं च तदर्धकम् । • तत्तुल्यं चित्रकं दद्याच्चित्रकार्धं दुरालभा ॥ २५१ ॥ गुडूच्या विंशतिपलं रोध्रं दद्याच्च तत्समम् । खदिरस्य पलान्यष्टौ तत्समं बीजसारकम् ॥ २५२ ॥ प्रस्थमामलकीनां च तदर्धा च हरीतकी । मञ्जिष्ठा मधुकं कुष्ठं कपित्थं देवदारु च ॥ २५३ ॥ १ नेत्रभेषजं 'सना' 'सोनामुखी' इति ख्यातं, तन्मूलं अष्टपलं; ऐलः 'एलिया' 'मुसव्वर' इति ख्यातः, तस्य सार्धपलं; मस्तकी 'रूमीमस्तकी' इति ख्याता, तस्या अर्धपलं; हेमजा 'रेवंदचीनी' इति ख्याता, तस्या अर्धपलं; अन्य- त्स्फुटम् ।
६.] गदनिग्रहः । १८७ विडङ्गं चविका वृक्षं भार्ङ्गी स्यादष्टवर्गकम् । त्रिवृता रजनी रास्ना कर्कटाख्या पुनर्नवा ॥ २५४ ॥ प्रियङ्गुसारिवामांसीनागकेसररेणुकम् । शताह्वेन्द्रयवामुस्तं द्विपलान्क्वाथयेज्जले ॥ २५५ ॥ अष्टद्रोणे, पादशेषे सर्वमेकत्र निक्षिपेत् । षष्टिपला॑नि द्राक्षायाः क्वाथयित्वा चतुर्गुणे ॥ २५६ ॥ जले त्रिभागशेषे तु पूते तस्मिन्विनिक्षिपेत् । त्रिंशत्पलानि धातक्या गुडाच्छुद्धाच्चतुःशतम् ॥ २५७ ॥ द्वात्रिंशत्पलिकं क्षौद्रं सर्वमेकत्र कारयेत् । भाण्डे पुराणे सुस्निग्धे मांसीमरिचधूपिते ॥ २५८ ॥ धूपिते च पुनर्दद्यात्पिप्पलीनां पलद्वयम् । जातीफलं लवङ्गं च त्वगेलापत्रकेसरान् ॥ २५९ ॥ जातीपत्रीं च कङ्कोलं चन्दनं वालुकं तथा । कर्षमात्रां च नेपालीं दत्त्वा भूमौ विनिक्षिपेत् ॥ २६० ॥ पक्षादूर्ध्वं पिबेद्यस्तु मात्रया च यथाबलम् । धातुक्षयं जयेत्पीतः कासं पञ्चविधं तथा ॥ २६१ ॥ अर्शासि षट्प्रकाराणि तथाष्टावुदराणि च । प्रमेहं च मदव्याधिमरुचिं पाण्डुतां तथा ॥ २६२ ॥ सर्वान्वातांस्तथायामं श्वासं छर्दिमरोचकम् । अष्टादशैव कुष्ठानि शोफं शूलं भगन्दरम् ॥ २६३ ॥ शर्करां मूत्रकृच्छ्रं च अश्मरीं च विनाशयेत् । कृशानां च महापुष्टिं कुरुते च महाबलम् ॥ २६४ ॥ महावेगो महावीर्यो महातेजा महाद्युतिः । कामपुष्टिकरो ह्येष वन्ध्यानां पुत्रदो भवेत् ॥ २६५ ॥ खर्जूरासवः । खर्जूरमुस्तामलकीनिकुम्भाद्राक्षाभयापूगफलानि पाठा । भार्ङ्गीशठीकुष्ठजलाजमोदपलङ्कषापिप्पलीमूलकानि ॥ २६६ ।
१८८ आयुर्विदीयग्रन्थमाला। [आसवाधिकारः पुनर्नवा कायफलं प्रियङ्गुः कर्पूरकं कृष्णमजाजिविस्रे। त्रिवृच्छिवाच्छलिधमासकं च लज्जालुरोहितकलिङ्गमूलम् २६७ अमूनि सर्वाणि महौषधानि चत्वारि चत्वारि पलोन्मितानि। मांसीचतुर्जातकणालवङ्गं जातीफलं चन्दनलोहचूर्णम् ॥२६८॥ प्रमाणतो द्विद्विपलान्यमूनि सुधातकीपुष्पमणामि सप्त। गुडस्य सप्त त्रिगुणानि दद्यान्मणामि संचूर्ण्य ततः समस्तम् ६९ घृतस्य भाण्डे विपुले निवेश्य दशोत्तरं शेरशतं जलस्य। क्षित्वा क्षिपेत्पञ्च दिनानि भूमौ निष्पन्नकल्कं हृदये विचार्य ॥ षष्ठे दिने तच्च नियोजनीयं ताम्रस्य यन्त्रद्वयमध्यभागे। शतत्रयं नागलतादलानां सहस्रयुग्मं शतपत्रकानाम् ॥२७१॥ प्रक्षाल्य देयं विधिनाथ सन्धि विमुद्य चुल्ल्यां विनिवेश्य यन्त्रं। निष्काश्येदर्कमतो यथावद्दत्त्वा जलं चोपरि यन्त्रकस्य॥२७२॥ बलाबलं रोगनिपीडितानां विमृश्य देयः पलिकाप्रमाणः। खार्जूरसंज्ञः खलु आसवोऽयं विषूचिकायक्ष्मभयं निहन्ति ॥ हृद्रोगकासविषमज्वरशोफतर्षश्वासप्रमेहबलसंक्षयपाण्डुरोगान्। हिक्माञ्च शीर्षगतरोगवियोगकारी रुच्यग्निवर्धनबलप्रददृष्य एषः मस्त्यासवः। वंशपत्रीप्रतीकाशमस्तुद्रोणे सुनिर्मले। क्षिपेद्गुडतुलां भाण्डे वचाकुष्ठविलेपिते ॥ २७५ ॥ तस्मिन् दद्यात्पिप्पलीनां प्रस्थं प्रस्थत्रयं तथा। त्रिफलाया विडङ्गानां कुडवं मरिचस्य च ॥ २७६ ॥ काश्मरीफलमृद्वीकापरूषकफलानि च। वत्सकस्य च बीजानि दद्यान्मरिचवत्समाम् ॥ २७७ ॥ पञ्चमूलं च षड्ग्रन्थां दन्तीं चित्रकमेव च। भल्लातकानां च पले द्वे द्वे समुपकल्पयेत् ॥ २७८ ॥ यवपल्ले स्थितः पेयोऽरिष्टो मात्राबलं प्रति। पाण्डुरोगोदरहरो ग्रहणीर्शोविकारनुत् ॥ २७९ ॥
६.] गदनिग्रहः । १८९ परं भगन्दरप्लीहशोषकासामयापहः । अग्निसंदीपनः पथ्यो बाधिर्यस्थौल्यनाशनः ॥ २८० ॥ मस्तवासव इति ख्यातो लेखनो मेदुरे हितः । ज्वरे कुब्जकासवः । शतं कुब्जकमूलस्य मृद्वीकार्धशतं तथा ॥ २८१ ॥ मधूकपुष्पकाश्मर्यभागान् दशपलोन्मितान् । चतुर्द्रोणेऽम्भसः पक्त्वा शीते पादावशेषिते ॥ २८२ ॥ धातक्या विंशतिपलं गुडस्य च शतत्रयम् । कनकस्य तु चत्वारि व्योषं कङ्कोलमेव च ॥ २८३ ॥ एलात्वक्पत्रजातीनां लवङ्गस्य तथैव च । भागाः पलप्रमाणांश्च सूक्ष्मचूर्णं तु कारयेत् ॥ २८४ ॥ कौब्जमूलासवो ह्येष मासमात्रं विधारितः । शमयेत्सन्निपातोत्थान् ज्वरान् सर्वान् न संशयः ॥२८५॥ नालिकेरासवः । नालिकेरोदकं चैव द्रोणमात्रं प्रदापयेत् । इक्षो रसस्य द्रोणार्धं शाल्मल्या रसप्रस्थकम् ॥ २८६ ॥ दशमूलरसस्यापि प्रस्थमात्रं तथैव च । घृतभाण्डे विनिक्षिप्य मध्ये चूर्णं निवेशयेत् ॥ २८७ ॥ चातुर्जातकधातक्योः पलान् षोडशसंख्यया । शाणमात्रा तु कस्तूरी केशरं तगरं तथा ॥ २८८ ॥ चन्दनं देवपुष्पं च पलमात्रं पृथक् पृथक् । मासादूर्ध्वं पिबेच्चामुं रूपे कामसमो भवेत् ॥ ८९ ॥ वृद्धोऽपि तरुणीं गच्छेत् षण्ढोऽपि पुरुषायते । वलीपलितसंत्यक्तः शतायुश्चभवेन्नरः ॥ २९० ॥ नालिकेरासवः प्रोक्तः शम्भुना परमेष्ठिना । कूष्माण्डासवः । कूष्माण्डं जर्जरीकृत्य रसमादाय यत्नतः ॥ २९१ ॥
१९० आयुर्वेदीयग्रन्थमाला । [आसवाधिकारः द्रोणं, गुडार्धं दातव्यं, चूर्णमेषां विनिक्षिपेत् । कटुत्रिकं लवङ्गं च चातुर्जातं तथैव च ॥ २९२ ॥ कङ्कोलकं जातीफलं जातीपत्री प्रियङ्गुकम् । कपित्थं वत्सकं चैव बीजं गोक्षुरकस्य च ॥ २९३ ॥ सत्वं गुडूच्या भार्गी च बलाबीजं तथैव च । हपुषा क्रमुकं चैव देवदारु मदावहम् ॥ २९४ ॥ गायत्रीसारजलदं चित्रकं च फलत्रिकम् । रास्त्रा यष्ट्याह्वकं चापि तुम्बरु नागकेशरम् ॥ २९५ ॥ ग्रन्थिकं चाजमोदा च कारवी दीप्यकस्तथा । कट्फलं च तुगाक्षीरी आकल्लकमुटिङ्गणम् ॥ २९६ ॥ कपित्थवल्कलं चैव शताह्वा गजशेलुकम् । कलिङ्गकाश्च काकोली शठी मोचरसं घनम् ॥ २९७ ॥ कोकिलाक्षस्य बीजानि कसेरुः सहदेविका । भूनिम्बं चविका स्पृक्का पद्मकं च निशाद्वयम् ॥ २९८ ॥ धान्यकं सुरदाली च क्षीरकन्दं तथैव च । एतानि चाक्षमात्राणि लोहचूर्णं पलाष्टकम् ॥ २९९ ॥ धातक्याः षोडशपलं घृतभाण्डे निधापयेत् । मासार्धं च तथा भूमौ निक्षिपेदतियत्नतः ॥ ३०० ॥ अनेन विधिना सिद्ध आसवः परिकीर्तितः। पीत्वाक्ष पलमेकं तु मातरुत्थाय नित्यशः ॥ ३०१ ॥ धातुक्षयं च मन्दाग्निं प्रमेहं पाण्डुमेव च । अशांसि ग्रहणीदोषान् प्लीहोदरभगन्दरान् ॥ ३०२ ॥ आमवातं रक्तपित्तं श्लेष्मरक्तं तथैव । निहन्ति वातजान् रोगान् मेदःस्थौल्यापहासवः ॥ ३०३ ॥ रसायनारिष्टः । समूलां पिप्पलीं शृङ्गीं बृहतीमश्मभेदकम् । पाटलां देवकाष्ठं च श्वदंष्ट्रामभयां तथा ॥ ३०४ ॥