भारतकोश
गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

पृष्ठ 219, कुल 286 में से

संदर्भ में पढ़ें
पृष्ठ 219

घृताधिकारः १] गदनिग्रहः । १९९ गुल्मे महाषट्पलं घृतम् । नागरस्य तुलार्धं तु जलद्रोणे विपाचयेत् । चतुर्भागावशेषं तु कषायमवतारयेत् ॥ १८ ॥ शुक्तेन मस्तुना चैव दाडिमैर्बदरोदकैः । चतुर्गुणैरिमैस्तोयैर्घृतप्रस्थं विपाचयेत् ॥ १९ ॥ सौवर्चलं बिडं चैव पौतिकं चोषकस्तथा । अजाजी पिप्पली चैव अजगन्धा यवाग्रजः ॥ २० ॥ सैन्धवं पञ्चकोलं च हिङ्गुचौद्भिदमेव च । एतैः पलार्धकैर्द्रव्यैः शनैर्मृद्वग्निना पचेत् ॥ २१ ॥ कृमिप्लीहोदराजीर्णज्वरगुल्मप्रमेहकान् । वातरोगानशेषांश्च हिक्कां शूलमरोचकम् ॥ २२ ॥ पाण्डुरोगं प्रतिश्यायं दौर्बल्यं वह्निसंक्षयम् । महाषट्पलमातङ्कान् भिनत्त्यशनिवद्विरिम् ॥ २३ ॥ उन्मादे कल्याणकं घृतम् । विशाला त्रिफला कौन्ती देवदार्वेलवालुकम् । स्थिराऽनन्ता हरिद्रे द्वे सारिवे द्वे प्रियङ्गवः ॥ २४ ॥ नीलोत्पलैलामञ्जिष्ठादन्तीदाडिमवल्कलम् । तालीसपत्रं बृहती मालत्याः कुसुमं नवम् ॥ २५ ॥ विडङ्गं पृश्निपर्णी च कुष्ठं चन्दनपद्मके । अष्टाविंशतिभिः कल्कैरेतैरक्षप्रमाणकैः ॥ २६ ॥ चतुर्गुणं जलं दत्त्वा घृतप्रस्थं विपाचयेत् । अपस्मारे ज्वरे कासे शोषे मन्देऽनले क्षये ॥ २७ ॥ वातरक्ते प्रतिश्याये तृतीयकचतुर्थके । वम्यर्शोमूत्रकृच्छ्रे च विसर्पोपहतेषु चं ॥ २८ ॥ कण्डूपाण्ड्वामयोन्मादविषेष्वष्टगदेषु च । भूतोपहतचित्तानां गद्गदानामचेतसाम् ॥ २९ ॥