गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 218, कुल 286 में से
संदर्भ में पढ़ें१९८ आयुर्वेदीयग्रन्थमाला । [ परिशिष्टे कोलकानां कुलत्थानां माषाणां च यवैः सह । प्रस्थं प्रस्थं ततः कृत्वा तस्मिन्नेव समावपेत् ॥ ६ ॥ तेन पादावशेषेण घृतप्रस्थं विपाचयेत् । दद्यादेभिः समं शुक्तमारनालं तुषोदकम् ॥ ७॥ दाडिमाम्रातकरसं मातुलुङ्गरसं तथा । चतुर्गुणं चात्र दधि गर्भमेषां समावपेत् ॥ ८ ॥ पुनर्नवैषणं दन्ती त्रीण्येव लवणानि च । हिंस्रा रास्ना बला चैव यवानी चाम्लवेतसम् ॥ ९ ॥ विडङ्गं दाडिमं हिङ्गु ग्रन्थिकं त्रिवृता तथा । द्वौ क्षारावजमोदा च पाठा पाषाणभेदकम् ॥ १० ॥ ऊषणं वृषको भार्गी श्वदंष्ट्रा हपुषा तथा । त्रपुषैर्वारुबीजानि शतावर्युपकुञ्चिका ॥ ११ ॥ अजाजी चित्रकं मूर्वा तुम्बरु गजपिप्पली । धान्यकं सुरसं चैतान् दद्यादक्षसमान् भिषक् ॥ १२ ॥ गर्भेणानेन तत्सिद्धं पाययेत्सर्पिरुत्तमम् । पित्तगुल्मं तथा सर्वान् गुल्मानन्यानव्यपोहति ॥ १३ ॥ एकाङ्गगे पक्षवधे तथा दुष्टे च रेतसि । हृद्रोगे ग्रहणीरोगे सर्पिरेतद्यथामृतम् ॥ १४ ॥ यक्ष्माणं नाशयत्येतदपस्मारं च नाशयेत् । दाधिकं नाम विख्यातमात्रेयानुमतं स्मृतम् ॥ १५ ॥ गुल्मे लशुनघृतम् । तुलां लशुनकन्दानां पृथक् पञ्चपलांशकान् । त्र्यूषणत्रिफलाहिङ्गुयवानीचव्यचित्रकान् ॥ १६ ॥ साम्लवेतससिन्धूत्थदेवदारून् पचेद्धृतम् । तैः प्रस्थं, तत्परं सर्ववातगुल्मविकारनुत् ॥ १७ ॥