गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 217, कुल 286 में से
संदर्भ में पढ़ें६.] गदनिग्रहः । १९७ त्रायन्तिका पुष्करकस्य मूलं पलैकमानानि महौषधानि । षष्टिः पलानां खदिरस्य सार अयोरजः स्यात्पलयुग्ममानम् ॥ स्याल्लोहकिट्टं च तुलाप्रमाणं तत्पञ्चकं केबुकजीवनीयम् । प्रक्षिप्य भाण्डे शशियुग्मघस्रान् सूर्यांतपे स्थाप्य ततस्तु योज्यः लोहासवोऽयं भिषजोपदिष्टः सर्वोत्तमो रोगविनाशहेतुः॥३७६ इति श्रीशोढलगथिते गदनिग्रहे षष्ठ आसवाधिकारः संपूर्णः । समाप्तश्चायं प्रथमः प्रयोगखण्डः । प्रयोगखण्डस्य परिशिष्टम् । घृताधिकारः प्रथमः । रक्तपित्ते कटुकाद्यं घृतम् । कटुरोहिणिकां मुस्तां हरिद्रां वत्सकं बलाम् । पटोलं चन्दनं मूर्वा त्रायमाणां दुरालभाम् ॥ १ ॥ पिप्पलीं पर्पटं चैव भूनिम्बं देवदारुकम् । पिष्ट्वाऽक्षमात्रैस्तैः सर्पिः प्रस्थं क्षीराढके पचेत् ॥ २ ॥ रक्तपित्तं ज्वरं दाहं श्वयथुं समगन्दरम् । अर्शांस्यसृग्दरं चैव हन्याद्विस्फोटकांस्तथा ॥ ३ ॥ गुल्मे दाधिकं घृतम् । द्वे पञ्चमूल्यौ सुषवी साश्वगन्धा पुनर्नवा । काला छिन्नरुहा चैव रास्ना गोक्षुरको बला ॥ ४ ॥ शठी पुष्करमूलं च देवदारुस्तथैव च । एषां द्विपलिकान् भागान् जलद्रोणे विपाचयेत् ॥ ५ ॥ १ प्रयोगखण्डस्य आसवाधिकारमुद्रणारम्भसमय एव बुन्दीनगरनिवासिभिः राजवैद्यैः श्रीप्रसादशर्मभिः गदनिग्रहस्यैकं पुस्तकं प्रेषितं, दृष्टश्च तत्र पूर्वोप- लब्धपुस्तकापेक्षयाऽधिकः पाठः, अतः प्रयोगखण्डसमाप्तौ तत्परिशिष्टत्वेन स पाठोऽत्र निवेशितः । संपादकः ।