गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 216, कुल 286 में से
संदर्भ में पढ़ें१९६ आयुर्वेद ग्रन्थमाला । [ आसवाधिकारः कृत्वा सप्तदिनं शीते काले चोष्णमये तथा । यावद्दिनानि त्रीणि स्युः पश्चाद्भाण्डं समुद्धरेत् ॥ ३६५ ॥ पुनस्तद्वस्त्रपूतं तु भाण्डे कर्पूरवासिते । निक्षिप्य सेव्येतप्रातः पलमात्रोपलक्षितम् ॥ ३६६ ॥ स दत्तो वातपित्तघ्नो दीपनो रक्तरोगनुत् । योगराज इति ख्यात आसवोऽयं गुणोत्तरः ॥ ३६७ ॥ अर्शोरोगे पील्वासवः । मूर्वाखर्जूरपाठानिलरिपुमधुकं कच्छुरा हारहूरा कोलत्वग्वेतसाम्लं दहनमिशिकणाकृष्णविश्वालवङ्गम् ॥ त्वग्लोध्राद्दाडिमाच्च पलमितमिति पृथक् दन्तिमूलेन युक्तं पीलुद्रोणे द्विपक्षं गुडपलशतयुक् धान्यराशौ निदध्यात् ॥३६८ अर्शः प्लीहं च गुल्मं जठरगदमथो नाशयेच्चाग्निमान्द्यं कुर्याच्चाग्निं प्रदीप्तं प्रबलबलयुतं पीलुसंज्ञासवोऽयम् ॥ ३६९ ॥ प्रमेहे मध्वासवः । विशालातिविषाभार्गीकुष्ठमुस्ताप्रियङ्गवः । विडङ्गत्रिफलाकृष्णाचव्यग्रन्थिकदीप्यकाः ॥ ३७० ॥ अर्द्धांशान् सलिलद्रोणे पक्त्वा पादावशेषिते । दत्त्वा तदर्धं क्षौद्रं हि स्निग्धे भाण्डे निधापयेत् । एष मध्वासवो हन्ति मेहं द्विपलयोजितः ॥ ३७१ ॥ लोहासवः । फलत्रिकं निम्बपटोलमुस्तापाठामृताचित्रकचन्दनं च । विडङ्गमञ्जिष्ठमधूकसारकर्पूरवासात्रिवृताहरिद्राः ॥ ३७२ ॥ दुरालभापर्पटकण्टकारीशक्राशनं यासकचर्मरङ्गे । शशाङ्कलेखाकपिकच्छुमूलं मेथी च बिल्वं कुटजश्च तिक्ता ३७३ १ पीलुद्रोणे इति पीलुरसद्रोणे इत्यर्थः ।