गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
घृताधिकारः १] गदनिग्रहः । १९९ गुल्मे महाषट्पलं घृतम् । नागरस्य तुलार्धं तु जलद्रोणे विपाचयेत् । चतुर्भागावशेषं तु कषायमवतारयेत् ॥ १८ ॥ शुक्तेन मस्तुना चैव दाडिमैर्बदरोदकैः । चतुर्गुणैरिमैस्तोयैर्घृतप्रस्थं विपाचयेत् ॥ १९ ॥ सौवर्चलं बिडं चैव पौतिकं चोषकस्तथा । अजाजी पिप्पली चैव अजगन्धा यवाग्रजः ॥ २० ॥ सैन्धवं पञ्चकोलं च हिङ्गुचौद्भिदमेव च । एतैः पलार्धकैर्द्रव्यैः शनैर्मृद्वग्निना पचेत् ॥ २१ ॥ कृमिप्लीहोदराजीर्णज्वरगुल्मप्रमेहकान् । वातरोगानशेषांश्च हिक्कां शूलमरोचकम् ॥ २२ ॥ पाण्डुरोगं प्रतिश्यायं दौर्बल्यं वह्निसंक्षयम् । महाषट्पलमातङ्कान् भिनत्त्यशनिवद्विरिम् ॥ २३ ॥ उन्मादे कल्याणकं घृतम् । विशाला त्रिफला कौन्ती देवदार्वेलवालुकम् । स्थिराऽनन्ता हरिद्रे द्वे सारिवे द्वे प्रियङ्गवः ॥ २४ ॥ नीलोत्पलैलामञ्जिष्ठादन्तीदाडिमवल्कलम् । तालीसपत्रं बृहती मालत्याः कुसुमं नवम् ॥ २५ ॥ विडङ्गं पृश्निपर्णी च कुष्ठं चन्दनपद्मके । अष्टाविंशतिभिः कल्कैरेतैरक्षप्रमाणकैः ॥ २६ ॥ चतुर्गुणं जलं दत्त्वा घृतप्रस्थं विपाचयेत् । अपस्मारे ज्वरे कासे शोषे मन्देऽनले क्षये ॥ २७ ॥ वातरक्ते प्रतिश्याये तृतीयकचतुर्थके । वम्यर्शोमूत्रकृच्छ्रे च विसर्पोपहतेषु चं ॥ २८ ॥ कण्डूपाण्ड्वामयोन्मादविषेष्वष्टगदेषु च । भूतोपहतचित्तानां गद्गदानामचेतसाम् ॥ २९ ॥
२०० आयुर्वेदीयग्रन्थमाला । [ परिशिष्टे
शस्तं स्त्रीणां च वन्ध्यानां धन्यमायुर्बलप्रदम् । अलक्ष्मीपापरोगघ्नं सर्वग्रहनिवारणम् ॥ ३० ॥ कल्याणकमिदं सर्पिः श्रेष्ठं पुंसवनेषु च । उन्मादे द्वितीयं कल्याणं घृतम् । सारिवाद्वितयं पण्यौ नतं कुष्ठं निशाद्वयम् ॥ ३१ ॥ दाडिमं चन्दनं व्याघ्री निकुम्भा त्रिफलेन्द्रिका । तालीसं पद्मकं चैला मञ्जिष्ठोत्पलदारवः ॥ ३२ ॥ इभोषण विडङ्गानि प्रियङ्गुश्चाश्मभेदकः । यवानी जातिमुकुलं मुस्तकं कर्षसंमितम् ॥ ३३ ॥ कल्कैरेभिर्घृतप्रस्थं सिद्धं कल्याणकं स्मृतम् । रक्तपित्तज्वरोन्मादकासकण्डूविनाशनम् ॥ ३४ ॥ उन्मादे तृतीयं कल्याणकं घृतम् । धराविशालापत्रैलादेवदार्वे लवालुकैः । * द्विसारिवाद्विरजनीद्विस्थिराफलिनीनतैः ॥ ३५ ॥ बृहतीकुष्ठमञ्जिष्ठानागकेशरदाडिमैः । वेल्लतालीशपत्रैलामालतीकुसुमोत्पलैः ॥ ३६ ॥ सदन्तिपद्मकहिमैः कर्षांशैः सर्पिषः पचेत् । प्रस्थं, भूतग्रहोन्मादकासापस्मारपापनुत् ॥ ३७ ॥ पाण्डुकण्डूविषे शोषे मेहे मोहे ज्वरे गरे । अरेतस्यप्रजसि वा देवोपहतचेतसि ॥ ३८ ॥ अमेधसि स्खलद्वाचि स्मृतिकामेऽल्पपावके । बल्यं मङ्गल्यमायुष्यं कान्तिसौभाग्यपुष्टिदम् ॥ ३९ ॥ कल्याणकमिदं सर्पिः श्रेष्ठं पुंसवनेषु च । उन्मादे महाकल्याणकं घृतम् । एभ्यो द्विसारिवादीनि जले पक्त्वैकविंशतिम् ॥ ४० ॥ रसे तस्मिन्पचेत्सर्पिर्गृष्टिक्षीरं चतुर्गुणम् । वरीद्विमेदाकाकोलीकपिकच्छुविषाणिभिः ॥ ४१ ॥
४. चतुर्थ खण्ड: रसायन, वाजीकरण, विष-चिकित्सा व उपसंहार
घृताधिकारः १] गदनिग्रहः । २०९ सूर्पपर्णीयुतैरेभिर्महाकल्याणकं परम् । बृंहणं सन्निपातघ्नं पूर्वस्मादधिकं गुणैः ॥ ४२ ॥ विसर्पे महागौरं घृतम् । क्षीरवृक्षप्रवालानि कुमुदान्युत्पलानि च । सौगन्धिकानि पद्मानि शालूकानि बिसानि च ॥ ४३ ॥ मृणालकुशकासेक्षुदर्भगुन्द्रेक्षुवालिकाः । नलवेतसकुम्भीकनालीसर्ज्जार्जुनखनाः ॥ ४४ ॥ कदलीपत्रशेवालकसेरुघोटकानि च । परूषकमधूकानि श्रीपर्ण्याममलकानि च ॥ ४५ ॥ लामज्जकं चन्दनं च विदारीञ्च शतावरी । समङ्गा धातकी रोध्रं जीवनीयानि यानि च ॥ ४६ ॥ शीतवीर्यांस्तु ये केचिज्जलजानूपसंश्रिताः । एतत्सम्भृत्य सम्भारं क्षीरद्रोणेषु सप्तसु ॥ ४७ ॥ पचेन्निस्स्राव्य तच्छीतं मन्थानेन विमन्थयेत् । यत्ततो जायते सर्पिस्तत्पचेत्पुनरेव तु ॥ ४८ ॥ द्रव्यैस्तैरेव पूर्वोक्तैः शनैर्मृद्वग्निना भिषक् । हन्यादेतद्विसर्पांस्तु सर्वधातुश्रितान् व्रणान् ॥ ४९ ॥ तोयमग्निं यथा दीप्तं नाम्ना गौरं घृतं महत् । सप्ताङ्गं घृतम् । शङ्खपुष्पीगुडूच्युग्राशतावर्यरुवल्लिकाः ॥ ५० ॥ मलपूं ब्रह्मसोमां च कल्कीकृत्य घृतं पचेत् । दुग्धं चतुर्गुणं दत्त्वा वातश्लेष्महरं च तत् । मेधाकरं तथाऽयुष्यं सप्ताङ्गमिति कीर्तितम् ॥ ५१ ॥ अष्टाङ्गं घृतम् । मण्डूकीं सवचां सशङ्खकुसुमां ब्राह्मीं गुडूचीं तथा श्वेतां बाकुचिकां शतावरियुतां सब्रह्मसौवर्चलाम् ।
२०२ आयुर्वेदीयग्रन्थमाला । [परिशिष्टे कृत्वांशैः पलिकैरेमानि विविधद्रव्याणि तैः कल्कितैः सर्पिःप्रस्थमथाढकेन पयसा युक्त्या पचेद्बुद्धिमान् ॥ ५२ ॥ नाम्नाऽष्टाङ्गमिदं विदेहविहितं ख्यातं घृतं यः पिबेत् स श्लोकस्य सहस्रमेकदिवसे श्रुत्वाऽखिलं धारयेत् । अक्षीणप्रतिभः सुचारुवदनः स्पष्टाभिभाषी भवेत् लोके शुक्रबृहस्पतिप्रतिसमः पूज्यश्च राज्ञो भवेत् ॥ ५३ ॥ बालग्रहे फलघृतम् । बर्हिष्ठकुष्ठमञ्जिष्ठाकटुकैलानिशाद्वयैः । तोयदत्रिफलाकौन्तीवाजिगन्धामरुद्रुमैः ॥ ५४ ॥ वचाजमोदाकाकोलीमेदामधुकपद्मकैः । सशर्करैर्हितं सर्पिः पक्वं क्षीरचतुर्गुणम् ॥ ५५ ॥ बालानां ग्रहजुष्टानां पुंसां दुष्टाल्परेतसाम् । ख्यातं फलघृतं स्त्रीणां वन्ध्यानां चापि गर्भदम् ॥ ५६ ॥ चातुर्थकज्वरे महापैशार्चकं घृतम् । त्रायमाणा जया वीरा नाकुली गन्धनाकुली । कायस्था च वयस्था च चोरकश्च पलङ्कषा ॥ ५७ ॥ शूकरी चटिला छात्रा सातिच्छत्रा सुमर्कटी । मोरटा पूतना केशी स्थिरा कटुकरोहिणी ॥ ५८ ॥ महापुरुषदन्ता च वृश्चिकाली कुटन्नटा । सिद्धमेभिर्घृतं पेयं चातुर्थकविनाशनम् ॥ ५९ ॥ महापेशाचकं नाम सर्पिरेतज्ज्वरापहम् । भूतग्रहमपस्मारमुन्मादं च नियच्छति ॥ ६० ॥ शोषे जीवन्त्याद्यं घृतम् । जीवन्तीं मधुकं द्राक्षां फलानि कुटजस्य च । शठीं पुष्करमूलं च व्याघ्रीं गोक्षुरकं बलाम् ॥ ६१ ॥ नीलोत्पलं तामलकीं त्रायमाणां दुरालभाम् । पिप्पलीं च समां पिष्ट्वा घृतमेभिर्विपाचयेत् ॥ ६२ ॥
घृताधिकारः १] गदनिग्रहः । २०३ एतद्व्याधिसमूहस्य रोगराज्ञः समुच्छ्रितम् । रूपमेकादशविधं सर्पिरग्र्यं व्यपोहति ॥ ६३ ॥ महातिक्तकं घृतम् । निम्बः सप्तच्छदः पाठा गुडूची सशतावरी । कृतमालः करञ्जौ द्वौ खदिरो वत्सको धवः ॥ ६४ ॥ सपटोलः पर्पटको विशाला चित्रकस्तथा । एतानि समभागानि कषायमुपकल्पयेत् ॥ ६५ ॥ भेषजानि प्रपेष्याणि तत्रेमानि प्रदापयेत् । भूनिम्बः कटुका मुस्ता दन्ती पर्पटको वचा ॥ ६६ ॥ विशालातिविषे मूर्वा यष्ट्याह्वं सारिवाद्वयम् । अवल्गुजा हरिद्रे द्वे दुःस्पर्शा रक्तचन्दनम् ॥ ६७ ॥ कृमिघ्नः पिप्पली पाठा चित्रको देवदारु च । भल्लातकान्युशीरं च सम्पाकः सकलिङ्गकः ॥ ६८ ॥ एतैरक्षप्रमाणैस्तु घृतस्यार्द्धाढकं पचेत् । धात्रीरसस्तु द्विगुणो घृतात्क्वाथश्चतुर्गुणः ॥ ६९ ॥ सर्पिरेतन्नरः पीत्वा सर्वकुष्ठैर्विमुच्यते । वातरक्तं सवीसर्पं रक्तस्रावं च दारुणम् ॥ ७० ॥ पित्तासृक्कामलाकण्डूगरान् योगशतैरपि । असाधितान् महारोगान् महातिक्तं प्रसाधयेत् ॥ ७१ ॥ वातव्याधौ दशमूलार्थं घृतम् । द्रोणेऽम्भसः पचेद्भागान् दशमूल्याश्चतुःपलान् । यवकोलकुलत्थानां भागैः प्रस्थोन्मितैः सह ॥ ७२ ॥ पादशेषे रसे पिष्टैर्जीवनीयैः सशर्करैः । तथा खर्जूरकाश्मर्यद्राक्षाबदरफल्गुभिः ॥ ७३ ॥ सक्षीरैः सर्पिषः प्रस्थं सिद्धं केवलवातनुत् । निरत्ययं प्रयोक्तव्यं पानाभ्यञ्जनबस्तिषु ॥ ७४ ॥
२०४ आयुर्वेदीयग्रन्थमाला । [ परिशिष्टे कासे बृहत्कण्टकारीघृतम् । समूलपत्रशाखायाः कण्टकार्या रसाढके । घृतप्रस्थं बलान्योपविडङ्गशठिचित्रकैः ॥ ७५ ॥ सौवर्चलयवक्षारबिल्वामलकपौष्करैः । सैन्धवग्रन्थिकपर्णीद्राग्रेवदारुपयोधरैः ॥ ७६ ॥ वृश्चीवबृहतीपथ्यायवानीदाडिमर्द्धिभिः । द्राक्षापुनर्नवाचव्यदुरालम्भाम्लवेतसैः ॥ ७७ ॥ शृङ्गीतामलकीभार्गीरास्नागोक्षुरकैः पचेत् । कल्कैश्च सर्वकांसेषु हिक्काश्वासेषु शस्यते । कण्टकारीघृतं सिद्धं कफव्याधिविनाशनम् ॥ ७८ ॥ व्रणे जात्याद्यं घृतम् । जातीनिम्बपटोलपत्रकटुकादार्वांनिशासारिवा- मञ्जिष्ठामयसिक्थतुत्थमधुकैर्नक्ताह्वबीजैः समैः । सर्पिः सिद्धमनेन सूक्ष्मवदना मर्माश्रिताः स्राविणो गम्भीराः सरुजो व्रणाः सगतिकाः शुद्ध्यन्ति रोहन्ति च ७९ प्रवाहिकायां त्र्यूषणाद्यं घृतम् । त्र्यूषणं त्रिफला निम्बं चित्रको गजपिप्पली । बिल्वं कर्कोटिका हिंस्रा विडङ्गानि निदिग्धिका ॥ ८० ॥ घृतप्रस्थं पचेदेभिर्गवां मूत्रे चतुर्गुणे । पीतं प्रयोगतः काले हन्यादेतत्प्रवाहिकाम् ॥ ८१ ॥ रक्तपित्ते कसेरुकं घृतम् । द्राक्षेक्षुकाश्मर्यशतावरीणां तथा विदार्याः स्वरसस्य चैव । कसेरुकाणां तु तथा कषायं प्रस्थं पृथक् क्षीरचतुर्गुणं च ॥८२ घृतं तु शेफालिशतावरीणां त्रायन्तिकाया अपि कल्कसिद्धम् । प्रायोगिकं सर्पिरुदाहरन्ति कसेरुकं मारुतपित्तघाति । विसर्पदाहज्वररक्तपित्ते क्षीणक्षतानां च रसानीयम् ॥ ८३ ॥
घृताधिकारः १.] गदनिग्रहः । २०५ नेत्ररोगे द्राक्षाद्यं घृतम् । द्राक्षा श्रवाना सितशर्करा च राजादनं सान्मधुयष्टिका च । मञ्जिष्ठनीलोत्पलपुण्डरीकं काकोलियुग्मं त्वथ जीवकञ्च॥८४॥ दुग्धक्षमामैर्विपचेद्घृतस्य प्रस्थं समग्रं पयसा च तुल्यम् । नेत्रास्रराजीपटलानि काचमश्रुप्रसेकं तिमिरं च हन्ति । दृष्टिप्रसादं च नवं करोति शिरोधर्धरोगे च हितं नराणाम्॥८५॥ रक्तपित्ते दाडिमाद्यं घृतम् । दाडिमं तिन्तिडीकं च नागपुष्पं शतावरी । काकोली क्षीरकाकोली विदारी यक्षहस्तकः ॥ ८६ ॥ बीजपूरकमूलं च राजवृक्षात्मगुप्तयोः । कुष्ठं चेति समैरेतैर्धृतप्रस्थं विपाचयेत् ॥ ८७ ॥ चतुर्गुणेन पयसा जलेनाष्टगुणेन च । तत्सर्पिः पिबतः सिद्धं कासश्वासापतानकाः ॥ ८८ ॥ हृद्रोगो रक्तपित्तं च ह्यचिराद्यान्ति संक्षयम् । योनिरोगे बृहन्मूलाद्यं घृतम् । पञ्चमूलं बृहद्व्याघ्रीं त्रिकण्टैरण्डकः बलम् । प्रत्येकं, बिल्वकक्वाथ प्रस्थार्धं प्रस्थमुत्तमम् ॥ ८९ ॥ जलद्रोणे विपाच्यैतद्ग्राह्यं पादावशेषितम् । पादक्षेपे घृतप्रस्थं दध्नाढकयुतं न्यसेत् ॥ ९० ॥ पलत्रयं यवक्षारकल्कं युक्त्या विपाचयेत् । योनिरोगे गुल्मरोगे वर्ध्मेश्वप्युदरेषु च ॥ ९१ ॥ अर्शसि पिप्पल्याद्यं घृतम् । पिप्पलीमरिचहिङ्गुनागरं मातुलुङ्गरसथ बिल्वशुण्ठिका । कुष्ठधान्यकमथाम्लवेतसं क्षारवह्नि लवणानि पञ्च च ॥९२॥ तिन्तिडीकमथ कारवी वचा दाडिमं च चविका तथैव च । चित्रकं च सपुनर्नवं भवेद्धस्तिपिप्पलियुता हजाजिका ॥९३। १८
२०६ आयुर्वेदग्रन्थमाला । [परिशिष्टे शुक्तिका बदरमूलपौष्करं पत्रकेण सह तुम्बरु स्मृतम् । कर्षभागसहितांस्तथा हरेत् श्लक्ष्णपिष्टमथ संनयेत्ततः ॥ ९४ ॥ अश्वमत्र तु घृतस्य दापयेत् दध्न एव च भवेत्तथाढकम् । सर्वमेतदभिभूश्य शास्त्रतः पाचयेत मृदुनाऽग्निना सुखम्॥९५॥ मारुतोपहतगात्रचेतसां पार्श्वपृष्ठहनुजत्रुरोगिणाम् । क्षयगरविषदूषितान् मनुष्यान् गतवयसो बलवर्णविप्रयुक्तान् । घृतमिदमगदान् करोति सद्यः पवनकृतान् शमयेच्च सर्वरोगान् ॥ शोषे जीवन्त्याद्यं घृतम् । जीवन्तीं मधुकं द्राक्षां फलानि कुटजस्य च । शठीं पुष्करमूलं च व्याघ्रीं गोक्षुरकं बलाम् ॥ ९७ ॥ नीलोत्पलं तामलकीं त्रायमाणां दुरालभाम् । पिप्पलीं च समां पिष्ट्वा घृतं वैद्यो विपाचयेत् ॥ ९८ ॥ एतद्व्याधिसमूहस्य रोगराज्ञः समुच्छ्रितम् । रूपमेकादशविधं सर्पिरम्यं व्यपोहति ॥ ९९ । शिरोरोगे मायूरं घृतम् । दशमूलीबलारास्नामधुकत्रिफलैः सह । मायूरं पक्षपादान्त्रशकृत्पित्तास्यवर्जितम् ॥ १०० ॥ जले पक्त्वा घृतप्रस्थं तस्मिन् क्षीरसमं पचेत् । मधुरैः कार्षिकैर्द्रव्यैः शिरोरोगादितापहम् ॥ १०१ ॥ कर्णनासाक्षिजिह्वास्यगल रोगविनाशनम् । मायूरमिति विख्यातमूर्ध्वजत्रुगदापहम् ॥ १०२ ॥ महामायूरं घृतम् । एतेनैव कषायेण घृतप्रस्थं विपाचयेत् । चतुर्गुणेन पयसा कल्कैरेभिश्च कार्षिकैः ॥ १०३ ॥ जीवन्तीत्रिफलामेदामृद्वीकर्द्धिपरूषकैः । समङ्गाचविकाभार्गीकाश्मरीसुरदारुभिः ॥ १०४ ॥
घृताधिकारः १.] गदनिग्रहः। २०७ आत्मगुप्तामहामेदातालखर्जूरमस्तकैः । मधुरापिण्डखर्जूरशृङ्गीजीवकपद्मकैः ॥ १०५ ॥ शतावरीविदारीक्षुबृहतीसारिवायुतैः । पुनर्नवातुगाक्षीरीकाकोलीधन्वयासकैः ॥ १०६ ॥ मधूकाक्षोटवाताममुञ्जातामिषुकैरपि । द्रव्यैरेभिर्यथालाभं घृतं सम्यग्विपाचयेत् ॥ १०७ ॥ तत्पकं नावनेऽभ्यङ्गे पाने बस्तौ च योजयेत् । शिरोरोगेषु सर्वेषु कासे श्वासे च दारुणे ॥ १०८ ॥ मन्यापृष्ठग्रहे शोषे स्वरभेदे तथाऽर्दिते । योनिशुक्रप्रदोषेषु शस्तं वन्ध्यासुतप्रदम् ॥ १०९ ॥ ऋतुस्नाता तथा नारी पीत्वा पुत्रं प्रसूयते । महामायूरमित्येतदमृतमात्रेयपूजितम् ॥ ११० ॥ अशोरोगेऽवाक्पुष्प्याद्यं घृतम् । अवाक्पुष्पी बला दार्वी पृश्निपर्णी त्रिकण्टकः । न्यग्रोधोदुम्बराश्वत्थशुङ्गाश्च द्विपलोन्मिताः ॥ १११ ॥ कषाय एतैः, पेष्यास्तु जीवन्ती कटुरोहिणी । पिप्पली पिप्पलीमूलं मरिचं देवदारु च ॥ ११२ ॥ कलिङ्गाः शाल्मलीपुष्पं वीरा चन्दनमञ्जनम् । कट्फलं चित्रको मुस्ता प्रियङ्गवतिविषे स्थिरा ॥ ११३ ॥ पद्मोत्पलानां किञ्जल्कः समङ्गा सनिदिग्धिका । बिल्वं मोचरसः पाठा भार्गीः कर्षसमाः पृथक् ॥ ११४ ॥ चतुःप्रस्थे शृतं प्रस्थं कषायमवतारयेत् । (त्रिंशत्पलान्वितः प्रस्थो विज्ञेयो द्विपलाधिकः ।) ॥११५॥ सुनिषण्णकचाङ्गेर्योः प्रस्थौ द्वौ स्वरसख च । सर्वैरेभिर्यथोद्दिष्टैर्घृतप्रस्थं विपाचयेत् ॥ ११६ ॥ एतदर्शःस्वतीसारे त्रिदोषे रुधिरस्रुतौ । प्रवाहणे गुदभ्रंशे पिच्छासु विविधासु च ॥ ११७ ॥
उन्मादे चापि बहुशः शोफे शूले गुदाश्रये । मूत्रग्रहे मूढवाते मन्देऽग्नावुरुचौ तथा ॥ ११८ ॥ प्रयोज्यं विधिवत्सर्पिर्बलवर्णाग्निवर्धनम् । विविधेष्वन्नपानेषु केवलं वा निरत्ययम् ॥ ११९ ॥ अपतन्त्रके शुकनासाद्यं घृतम् । शुकनासा नागवल्ली द्वे बृहत्यौ महौषधम् । निचुलश्चैव भार्गी च काकादन्युपचेलिका ॥ १२० ॥ पुनर्नवा चेति समैरक्षमात्रैः पचेद्भिषक् । तोयाढके घृतप्रस्थं सिद्धं तच्चापि पाययेत् ॥ १२१ ॥ कासं श्वासं महाहिक्कां हृद्रोगं सापतन्त्रकम् । नातिक्रामेदिदं सर्पिर्वेलामिव महोदधिः ॥ १२२ ॥ उन्मादे चेतसं घृतम् । श्यामा मधुरसा द्राक्षा दण्डमूलं शतावरी । श्वदंष्ट्रा शणमूलं च तैर्युक्त्या कार्षिकैल्किकैः ॥ १२३ ॥ साधितं चेतसं नाम घृतं चेतोविकारनुत् । उन्मादमदमूर्च्छायज्वरापस्मारभेषजम् ॥ १२४ ॥ क्षीणक्षते समदुग्धकं घृतम् । षोडशभिर्जलपात्रैर्मृद्वीकायाः पलानि दश षट् च । अष्टौ मधुकफलानि च्छागन्मांर्सात्तुलाधं च ॥ १२५ ॥ अवशिष्टपादतोयं पूतं शीतं कषायमवतार्य । दत्त्वा कषायतुल्यं पयोऽथ नवसर्पिषः प्रस्थम् ॥ १२६ ॥ ऋषभकजीवकमेदाविदारिवीरात्मगुप्तानाम् । भव्याक्षोटनिकोचकशृङ्गाटकपद्मकबीजानाम् ॥ १२७ ॥ भागानक्षसमानश्च संसाधयेत्तु मृद्वग्नौ । सम्यक् सिद्धे तस्मिन् सितशर्करापलान्यष्टौ ॥ १२८ ॥ मधुनश्च पलान्यष्टौ चत्वारि पलानि पिप्पलीचूर्णात् । संमिश्रयेत्तु सर्वं क्षीणक्षतहितं समुद्दिष्टम् ॥ १२९ ॥
तैलाधिकारः २.] गदनिग्रहः । २०९ क्षीणक्षतेऽल्पशुक्रे तद्रक्तपैत्तिकेषु रोगेषु । स्त्रीकामेषु च देयं बल्यं वृष्यं च घृतमेतत् ॥ १३० ॥ वातगुल्मे हिङ्ग्वाद्यं घृतम् । हिङ्गुसौवर्चलव्योषविडदाडिमदीपकैः । पुष्कराजाजिधान्याम्लवेतसक्षारचित्रकैः ॥ १३१ ॥ शठीवचाजमोदाम्लसुरसैर्दधिसंयुतैः । शूलानाहहरं सर्पिः साधयेद्वातगुल्मिनाम् ॥ १३२ ॥ इति श्रीशौढलप्रथिते गदनिग्रहे परिशिष्टः प्रथमो घृताधिकारः समाप्तः । अथ परिशिष्टो द्वितीयस्तैलाधिकारः । बृहत्सहचरतैलम् । क्वाथे साहचरे शतावरियुते क्षुद्रामृतैरण्डजे श्योनाकारणिबिल्वगोक्षुरयुते सिंहाग्निमन्थोद्भवे । रास्नोशीरविशालदारुवरसैस्त्वक्पत्रमेदानखैः स्पृक्काभैलघनैर्नखैर्वालुसरलैः कङ्कोलकुष्ठोत्पलैः ॥ १ ॥ कौन्तीकेशीबलाद्विसारिविनिशारक्ष्मायासताहानतै- र्मञ्जिष्ठापुरसिंहचन्दनवरैश्चण्डाद्वहस्यौषेयकैः । श्रीवेष्टागुरुरोद्रकुङ्कुमवरैः कल्कैः समांशैरिमै- स्तैलं क्षीरसमं विपाच्य विधिना बस्तौ च नस्ये ध्रुवम्॥२॥ पानाभ्यङ्गविधौ नियोजितमिदं वातादिसर्वामयान् गुल्माष्ठीलशिरोऽर्त्तिजङ्गुलमुदरं श्वासामकासज्ज्वरम् । शोफं प्लीहगुदामयं च जठरं धातुक्षयाध्मानकं अर्शःकुष्ठभगन्दरं च क्षपयेत्सर्वान् व्रणान् हन्ति च ॥ ३॥ जयति पत्रकरोगान् कामलां विड्विबन्धं दिननिशितिमिरान्ध्यं गृध्रसीं मूर्द्धिवातम् ।
२१० आयुर्वेदग्रन्थमाला । सहचरमिति नाम्ना तैलमेतत्प्रसिद्धं धनपतिनृपयोग्यं भाषितं शम्भुनैव ॥ ४ ॥ तरक्षाद्यं तैलम् । तरक्षस्य शृगालस्य पादावत्राणि संत्यजेत् । कोष्ठसारादिकं सर्वमुत्क्वाथ्य बहुलेऽम्भसि ॥ ५ ॥ पादशेषं परिगृह्य छागगव्यपयोन्वितम् । तैलं रससमं दत्त्वा मदिरामस्तुकाञ्जिकम् ॥ ६ ॥ देवदारु हरिद्रे द्वे मांसी कुष्ठं सचन्दनम् । करञ्जस्त्रिवृता मुस्ता पत्राङ्गं रेणुकं त्वचम् ॥ ७ ॥ क्षारद्वयं त्रिकटुकं पञ्चैव लवणानि च । वचा तुरगगन्धा च मञ्जिष्ठा सर्जगुग्गुलू ॥ ८ ॥ मेदा रास्ना च वर्षाभूरेला शैलेयकं बला । एतैरर्धपलैर्द्रव्यैः शनैर्मृद्वग्निना पचेत् ॥ ९ ॥ तैलं तेनैव नश्यन्ति रोगा देहे शरीरिणाम् । अशीतिं वातजान् रोगान् शोफं शूलं कटिग्रहम् ॥ १० मांसमेदःश्रितं वायुं हर्षं चैव भगन्दरम् । लूतां सद्योव्रणं चैव नाडीदुष्टव्रणानि च ॥ ११ ॥ भूतग्रहमपस्मारमुन्मादं च नियच्छति । हन्ति वातमसाध्यं च पामादद्रुविचर्चिकाः ॥ १२ ॥ एतत्तैलं सदाभ्यङ्गात्सर्वरोगहरं नृणाम् । व्याघ्रतैलम् । व्याघ्रं शिरः समादाय क्वाथयित्वा जले बहु ॥ १३ ॥ उदूखले क्षोदयित्वा रसं नीत्वा सुगालितम् । दद्यात्कटाहे सुदृढे पचेत्पाकं विधानतः ॥ १४ ॥ द्रव्याण्येतानि मतिमान् पादमानेन दापयेत् । देवदारु नखाकुष्ठी तगरं चन्दनं घनः ॥ १५ ॥
वातव्याधिकारः २.] गदनिग्रहः । २११ मञ्जिष्ठा पुष्करं रास्ना चातुर्जातकसैन्धवम् । पिप्पली मरिचं शुण्ठी मांसी सहचरो जलम् ॥ १६ ॥ अश्वगन्धात्मगुप्ते च क्रमुकश्च शतावरी । श्वदंष्ट्रा केतकी मूर्वा मधुकं चागुरुस्तथा ॥ १७ ॥ जातीफलं च सुमनापत्री कटुकरोहिणी । ग्रन्थिकं शुक्लकन्दा च शतपुष्पा पुनर्नवा ॥ १८ ॥ जीवनीयो गणश्चैव रालाकेसरबोलकम् । नखं च कृष्णसारश्च वत्सनाभस्तथैव च ॥ १९ ॥ अस्य तैलस्य सिद्धस्य शृणु वीर्यमतः परम् । अशीतिवातजान् रोगान् हन्यादाशु प्रयोजितः ॥ २० ॥ अश्वानां वातभग्नानां गजानां शिशूनामपि । अंशशोषे खुडे वाते क्रोष्टुशीर्षे कटिग्रहे ॥ २१ ॥ मन्यास्तम्भे हनुश्रोत्रवाते मन्दे तथाऽनले । व्यन्ध्यानां पुत्रजननं षण्ढानां कामवर्धनम् ॥ २२ ॥ अश्विभ्यां निर्मितं चैव प्रजानां हितकारकम् । अनेनैव विधानेन तैलं तारक्षजं पचेत् ॥ २३ ॥ शतावर्यास्तुलामेकां तुलां गोक्षुरकस्य च । तुलार्धं तिलतैलस्य चैरण्डस्य पलानि षट् ॥ २४ ॥ एरण्डपत्रस्वरसपलानि नव कारयेत् । वृकशिशुकतर्कारीसिन्दुवारसुवर्णकात् ॥ २५ ॥ नीलिकाग्रन्थिपर्णाभ्यां करञ्जकेशरशृङ्गात् । षट्पलं गुग्गुलोर्दत्त्वा तैलं मृद्वग्निना पचेत् ॥ २६ कौब्ज्याक्षेपकपङ्गुत्वसुप्तत्वस्तन्दभामिताः । पक्षाघातहनुस्तम्भसन्धिरोमादिकानपि ॥ २७ ॥ नाशयेत्तत्क्षणादेव तमः सूर्योदये यथा । तैलं वातारिनामेदं सर्ववातहरं परम् ॥ २८ ॥
२४२ आयुर्वेदीयग्रन्थमाला । [परिशिष्ट] दारुणके सारिवाद्यं तैलम् । सारिवोग्रामृतायष्टीत्रिफलानीलमुत्पलम् । नीलीभृङ्गारकासीसमहानिम्बफलानि च ॥ २९ ॥ कटुतैलं पचेदेभिः सार्धं यवरसेन तु । कण्डूं दारुणकं हन्ति शिरोरोगे च शस्यते ॥ ३० ॥ वातरोगे दशाङ्गतैलम् । तर्कारीभृङ्गशिग्रूणां निर्गुण्डीशणयोस्तथा । वातघ्नवासाजातीनां निम्बभास्करयोरपि ॥ ३१ ॥ स्वरसं तु समादाय प्रत्येकं प्रस्थमानतः । प्रस्थं तु तिलतैलस्य शनैर्मृद्वग्निना पचेत् ॥ ३२ ॥ एरण्डमूलवर्षाभूहयगन्धाशतावरी- रास्नागोक्षुरकाश्चैव शतपुष्पा च सैन्धवम् ॥ ३३ ॥ प्रत्येकं कर्षमादाय कर्षार्धं त्रिकटोस्तथा । एलात्वक्पत्रमांसीनां कर्षार्धं च विनिक्षिपेत् ॥ ३४ ॥ तैलेनानेन नश्यन्ति वातरोगाः सुदारुणाः । आक्षेपकं हनुस्तम्भमपतन्त्रकमर्दितम् ॥ ३५ ॥ अवबाहुकविश्वाचीपक्षाघातापतानकम् । स्नायुसन्धिगतं वातं सप्तधातुगतं तथा ॥ ३६ ॥ ऊरुस्तम्भं वातरक्तमामवातं सुदारुणम् । दशाङ्गसंज्ञकं तैलं हन्यादन्यांश्च वातजान् ॥ ३७ ॥ कर्पूराद्यं तैलम् । कर्पूरचन्दनवचासुरदारुदूर्वा- गन्धर्वमूलरजनीद्वयसिन्धुजातैः । मेदाद्वयत्रिकटुकुष्करमूलकुष्ठ- रास्नाद्रवाङ्कुरितोत्पलकुङ्कुमैश्च ॥ ३८ यष्ट्याह्विकेलिविरजोङ्कुरसारसार्थैः
तैलाधिकारः २.] गदनिग्रहः । २१३ शृङ्गीजटाह्वयुतैः खलु कल्कितैश्च । गोदुग्धयुक्त कटुकतैलमिदं विपक्वं ख्यातं निहन्ति सहसा विविधा रुजश्च ॥ ३९ ॥ ज्वरे लाक्षादिकं तैलम् । लाक्षारससमं तैलं तैलान्मस्तु चतुर्गुणम् । अश्वगन्धानिशादारुकौन्तीकुष्ठान्जचन्दनैः ॥ ४० ॥ मूर्वारोहिणिकासस्त्रातादाडमधुकैः सह । सिद्धं लाक्षादिकं नाम तैलमभ्यञ्जनादिभिः ॥ ४१ ॥ सर्वज्वरविषोन्मादश्वासापस्मारकासनुत् । यक्षराक्षसभूतघ्नं गर्भिणीनां च शस्यते ॥ ४२ ॥ पित्तज्वरेण तीव्रेण दह्यमानस्य देहिनः । प्रवातमन्दिरस्थस्य कुर्याच्छीतामिमां क्रियाम् ॥ ४३ ॥ अन्वासनं तैलम् । पिप्पली पौष्करं मूलं शतपुष्पा वचा शठी । यष्ट्याह्नं देवदारुश्च चित्रको मदनात्फलम् ॥ ४४ ॥ बिल्वं कुष्ठं च कल्केन तैलात्पादांशकेन हि । तैलतो द्विगुणं क्षीरं दत्त्वा मृद्वग्निना पचेत् ॥ ४५ ॥ एतदन्वासनं नाम गुदस्रावं प्रवाहिकाम् । गुदव्यथां पुरीषस्य प्रवृत्तिं च पुनः पुनः ॥ ४६ ॥ वङ्क्षणस्यावरोधं च मलोरोधं कटिग्रहम् । निहन्ति वातजान् रोगान् दीपयत्यपि चानलम् ॥ ४७ महानीलं तैलम् । ककुभस्य श्रीपर्ण्याः पुष्पं जम्बूफलं प्रियङ्गुश्च । मञ्जिष्ठा त्रिफलागरुमदनफलं चित्रकञ्चैव ॥ ४८ ॥ नीलोत्पलमृणालकबीजककर्दमकनील्यश्च । मञ्ज्ञातः स्रोतोञ्जनमाम्रास्थिकासीसपौण्डरीकं च ॥ ४९
२१४ आयुर्वेदीयग्रन्थमाला । [परिशिष्टे मदयन्ती बाकुंचिका रोध्रं चैतैस्तु समभागैः । तुलसीपत्रं बीजं सणस्य सूर्यभक्ता च ॥ ५० ॥ काकमाचीदारुकयष्टीमधुमार्कवं च सैरेयः । एतैर्द्विगुणैः कल्कीकृतैर्बिभीतमज्जतैलं च ॥ ५१ ॥ कल्काच्चतुर्गुणितं, तच्चतुर्गुणोऽथ धात्रीस्वरसः । सूर्यातपे विपाच्यं नाम्ना तैलं महानीलम् ॥ पलितादिषु प्रयोज्यं जत्रूर्ध्वगेषु च निपुणतरैः ॥ ५२ ॥ पलिते नील्याद्यं तैलम् । नीलीदलं भृङ्गरजोऽर्जुनत्वक् पिण्डीतकं कृष्णमयोरजश्च । बीजोद्भवं साहचरं च पुष्पं पथ्याक्षधात्रीसहितं विपाच्य ५३ एकीकृतं सर्वमदः प्रमाय पङ्केन तुल्यं नलिनीभवेन । संयोज्य पक्षं कलशे निधाय लौहे दृढे सद्मनि सापिधाने ५४ एतेन तैलं विपचेद्विमृश्य रसेन भृङ्गात्त्रिफलाभवेन । आसन्नपाके च परीक्षणार्थं पक्षं बलाकाभवमाक्षिपेच्च ॥ ५५ ॥ भवेद्यदा तद्भ्रमराङ्गनीलं तदा विपक्वं विनिधाय पात्रे । कृष्णायसे मासमवस्थितं तदभ्यङ्गयोगात्पलितानि हन्यात् ५६ उरुस्तम्भे द्विपञ्चमूल्याद्यं तैलम् । द्वे पञ्चमूल्यौ त्रिफला चित्रको देवदारु च । एकाष्ठीला त्वपामार्गः श्रेयसी वायसी सुधा ॥ ५७ ॥ काला भार्गी पृथकपर्णी सुवहा मदयन्तिका । विशल्योशीरकाश्मर्यहिंस्रादावस्तथाऽम्लिका ॥ ५८ ॥ चिरबिल्वो विशोकश्च बला चांशुमती तथा । पयस्या पीलुपर्णी च संगुडूची शतावरी ॥ ५९ ॥ एषां पञ्चपलान् भागान् जलद्रोणेषु सप्तसु । अष्टभागावशेषेण पचेत्तैलं शनैः शनैः ॥ ६० ॥ कुष्ठं च शतपुष्पा च चित्रकव्यूषणं वचा । देवदार्वगरु श्रेष्ठं विडङ्गं मुस्तमेव च ॥ ६१ ॥
तैलाधिकारः २.] गदनिग्रहः । २१५ अश्वगन्धा स्थिरा पाठा मूर्वा श्योनाकमेव च । पिप्पली शृङ्गवेरं च दन्ती हिङ्ग्वम्लवेतसौ ॥ ६२ ॥ गर्भेणानेन मिषकषायेण च साधयेत् । सिद्धं शीतं च पूतं च क्षौद्रेण सह संसृजेत् ॥ ६३ ॥ तदस्य दद्यात्पानार्थं तदेवाभ्यञ्जने भवेत् । ऊरुस्तम्भशिरोत्पन्नस्तैलेनानेन शाम्यति ॥ ६४ ॥ आढ्यवातं श्लीपदानि खुडवातांश्च नाशयेत् । अर्शसि कासीसाद्यं तैलम् । काशीसदन्तीसिन्धूत्थकरवीरानलैः पचेत् ॥ ६५ ॥ तैलमर्कपयोन्मिश्रमभ्यङ्गात्पायुकीसजित् । कृमिरोगे महावीर्यं तैलम् । शशमार्जारयोर्ब्रश्चोः कपेर्वृषवराहयोः ॥ ६६ ॥ मांसानां द्वे तुले सम्यक् पचेद्रोणेषु सप्तसु । अष्टभागावशेषेण तेन तैलाढकं पचेत् ॥ ६७ ॥ भासवायसकाकानां गृध्रसाखोः शुकस्य च । कलविङ्ककुलिङ्गानां कुक्कुटस्य च या वसा ॥ ६८ ॥ मज्जाश्च दापयेदेषां पित्तान्यपि च लाभतः । अपामार्गफलं भार्गी बीजं शैरीषमेव च ॥ ६९ ॥ फणिज्जकं विडङ्गानि शिग्रुकस्य त्वचस्तथा । त्र्यूषणं हिङ्गुकफलं वचा कुष्ठं सचन्दनम् ॥ ७० ॥ हस्तिपर्ण्याः शिरीषस्य ककुभस्यासनस्य च । पलाशस्यारिमेदस्य मूलं बीजं च संहरेत् ॥ ७१ ॥ पिचुमन्दस्य निर्यासः शल्लक्या गुग्गुलोस्तथा । हिङ्ग्वम्लवेतसौ चापि तथा ब्राह्मी निदिग्धिका ॥ ७२ ॥ तुल्यान्येतानि गर्भाणि तैलं कर्णप्रपूरणम् । नावनं चावगाहश्च शीर्षकृमिविनाशनम् ॥ ७३ ॥
२१६ आयुर्वेदियम्रन्थमाला । [परिशिष्टे तैलस्यास्य प्रणीतस्य गन्धेन कृमयः स्थिराः । नश्यन्ति न विवर्धन्ते बलात्सुबहवोऽपि वा ॥ ७४ ॥ युक्त्यास्मिन् कृमयस्तैले नस्ये तु प्रतिपादिते । तालुं भित्त्वाऽऽशु शिरसः प्रद्रवन्त्युपपीडिताः ॥ ७५ ॥ सर्वकृमिहरं ह्येतत्तैलं शिरसि देहिनाम् । बलाबलं चिन्तयित्वा नस्यं तदवचारयेत् ॥ ७६ ॥ कृमिभिर्भक्ष्यमाणानां नराणामेतदुत्तमम् । तैलमेतन्महावीर्यं सर्वकृमिविनाशनम् ॥ ७७ ॥ अन्त्रवृद्धौ गन्धर्वतैलम् । शतमेरण्डमूलस्य शुण्ठीपलयवाढके । जलद्रोणेऽथ पयसा पचेदष्टगुणेन तु ॥ ७८ ॥ प्रस्थमेरण्डतैलस्य सन्मूला द्विपलं तथा । द्विपलं शृङ्गवेरस्य गर्भं दत्त्वा शनैः पचेत् ॥ ७९ ॥ पिबेत्तन्नियतः शुद्धो नरः क्षीरान्नभुक् भवेत् । अन्त्रवृद्धिं निहन्त्याशु तैलं गन्धर्वसंज्ञितम् ॥ ८० ॥ कर्णरोगे लाङ्गल्याद्यं तैलम् । लाङ्गलीकुष्ठमरिचं शुण्ठी मागधिकञ्च घनम् । सरसाञ्जनकासीसं जतुसैन्धवगुग्गुलु ॥ ८१ ॥ मनःशिलार्ले निर्गुण्डी विल्वं भल्लातकं तथा । कार्षिकैर्देवदारूत्थतैलस्य द्विपलेन च ॥ ८२ ॥ कुडवं तिलतैलस्य पचेन्मूत्रे चतुर्गुणे । तत्कर्णपूरणात्तिथ्यं पूयस्रावनिवारणम् ॥ ८३ ॥ कृमिघ्नं दुष्टनाडीनां व्रणानां चैव रोपणम् । शिरोरोगे महानीलं तैलम् । आदित्यवल्ल्या मूलानि कृष्णसैरेयकस्य च ॥ ८४ ॥ सुरसस्य च पत्राणि फलं कुष्माण्डकस्य च । मार्कवं गिरिकर्णी च मधुकं देवदारु च ॥ ८५ ॥
तैलाधिकारः २.] गदनिग्रहः । २१० पृथक् दशपलांशानि पिप्पली त्रिफलाञ्जनम् । प्रपौण्डरीकं मञ्जिष्ठा रोध्रं कृष्णागरूत्पलम् ॥ ८६ ॥ आम्रास्थि कर्दमः कृष्णो मृणालं रक्तचन्दनम् । नीली भल्लातकास्थीनि कासीसं मदयन्तिका ॥ ८७ ॥ सोमराज्यसनात्पुष्पं कृष्णपिण्डितचित्रकौ । पुष्पाण्यर्जुनकाश्मर्योः श्यामा जम्बूफलानि च ॥ ८८ ॥ पृथक् पञ्चपलांशानि तैः पिष्टैराढकं पचेत् । बिभीतकस्य तैलस्य धात्रीरसचतुर्गुणम् ॥ ८९ ॥ कुर्यादादित्यपाकं च यावत् शुष्को भवेद्रसः । लोहपात्रे ततः पूतं संशुद्धमथ योजयेत् ॥ ९० ॥ कुष्ठे गुञ्जामूलाद्यं तैलम् । गुञ्जिकामूलत्रिफलात्रिशूलीपुरतालकैः । पुत्रञ्जीवास्थिसिन्दूरमधूच्छिष्टनिशायुगैः ॥ ९१ ॥ विशानलशिखाकन्दवचापरशुच्छिन्नकैः । पृथक्पलार्धकैः पिष्टैस्तैलमर्धाढकं कटोः ॥ ९२ ॥ समालोड्य पचेत्सम्यग्गवां मूत्रे चतुर्गुणे । विपाच्य मतिमान् वैद्यः सर्वकुष्ठव्रणापहम् ॥ ९३ ॥ तैलं कुष्ठहरं वर्ण्यं फणिकीटविषापहम् । कण्डूविचर्चिकासिध्मवातासृक्शमनं परम् ॥ ९४ ॥ मञ्जिष्ठाद्यं तैलम् । मञ्जिष्ठा पद्मकं कुष्ठं चन्दनं गैरिकं बला । हरिद्रे द्वे प्रियङ्गुश्च नागं यष्टी सबाकुची ॥ ९५ ॥ दारु प्रपौण्डरीकं च पिष्ट्वाऽर्धपलिकानि तु । तैलप्रस्थं गवां क्षीरं दत्त्वा क्वाथं तथासनात् ॥ ९६ ॥ चतुर्गुणं भृङ्गरसं शनैर्मृद्वग्निना पचेत् । अस्य तैलस्य पक्वस्य शृणु वीर्यमतः परम् ॥ ९७ ॥ केशशाते शिरोदुःखे मन्यास्तम्भे हनुग्रहे । दन्तकर्णाक्षिशूले च नस्येऽभ्यङ्गे च योजयेत् ॥ ९८ ॥ १९
३१८ आयुर्वेदीयग्रन्थमाला । [परिशिष्टे सुकुञ्चिताग्रान् सुस्निग्धान् केशान् संजनयेद्बहून् । पलिते चेन्द्रलुप्ते च तैलमेतत्प्रशस्यते ॥ ९९ ॥ मञ्जिष्ठाद्यमिदं नाम्ना शिरोरोगनिवारणम् । कुष्ठे सिद्धार्थकतैलम् । करवीरवचातुम्बूत्साञ्जनकरञ्जमुद्गलाक्षाभिः ॥ १०० ॥ सारुष्करसिद्धार्थकमूलकबीजाग्निगण्डीरैः । रजनीद्वयमञ्जिष्ठाश्वग्वविडङ्गमाक्षिकैः ॥ १०१ ॥ सैन्धवकटुकालाम्बुपिच्युमर्दास्फोटमालतीभिश्च । सर्षपतैलं कारञ्जं वा गवां मूत्रेण वै सिद्धम् ॥ १०२ ॥ द्विगुणेन साधितमचिरादभ्यङ्गाद्धन्ति कुष्ठानि । अष्टादशापि सिद्धं तैलं सिद्धार्थकं नाम ॥ १०३ ॥ इति श्रीसोढलग्रथिते गदनिग्रहे परिशिष्टे द्वितीयस्तैलाधिकारः । अथातः परिशिष्टस्तृतीयश्चूर्णाधिकारः । मन्दाग्नौ शुण्ठ्याद्यं चूर्णम् । शुण्ठीं ससौवर्चलचित्रकाभयां सरामठां दाडिमसैन्धवान्विताम् । खादन्ति ये मन्दहुताशना भुवि भवन्ति ते वाडवतुल्यवह्नयः॥१॥ हृद्रोगे तिक्तकं चूर्णम् । मुस्तैलाचन्दनोशीरं यवानी व्योषवत्सकौ । फलं त्वक् कटुका दारु दार्बी त्वक्पर्पटस्तथा ॥ २ ॥ पटोलपत्रं षड्ग्रन्था मूर्वाभूनिम्बशिग्रुकाः । त्रायमाणा च सौराष्ट्री सुरा प्रतिविषा समाः । तिक्तकं नाम हृदुल्लम्शूलघ्नं सन्निपातनुत् ॥ ३ ॥ कुष्ठे लाक्षाद्यं चूर्णम् । लाक्षा दन्ती च मूर्वा मधुरसवचाङ्गीपिपाठाद्रिकर्णी भल्लकङ्कुष्ठविडङ्गं त्रिकटुकराजनीससर्षपार्केरुबूकम् ।