गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 229, कुल 286 में से
संदर्भ में पढ़ेंतैलाधिकारः २.] गदनिग्रहः । २०९ क्षीणक्षतेऽल्पशुक्रे तद्रक्तपैत्तिकेषु रोगेषु । स्त्रीकामेषु च देयं बल्यं वृष्यं च घृतमेतत् ॥ १३० ॥ वातगुल्मे हिङ्ग्वाद्यं घृतम् । हिङ्गुसौवर्चलव्योषविडदाडिमदीपकैः । पुष्कराजाजिधान्याम्लवेतसक्षारचित्रकैः ॥ १३१ ॥ शठीवचाजमोदाम्लसुरसैर्दधिसंयुतैः । शूलानाहहरं सर्पिः साधयेद्वातगुल्मिनाम् ॥ १३२ ॥ इति श्रीशौढलप्रथिते गदनिग्रहे परिशिष्टः प्रथमो घृताधिकारः समाप्तः । अथ परिशिष्टो द्वितीयस्तैलाधिकारः । बृहत्सहचरतैलम् । क्वाथे साहचरे शतावरियुते क्षुद्रामृतैरण्डजे श्योनाकारणिबिल्वगोक्षुरयुते सिंहाग्निमन्थोद्भवे । रास्नोशीरविशालदारुवरसैस्त्वक्पत्रमेदानखैः स्पृक्काभैलघनैर्नखैर्वालुसरलैः कङ्कोलकुष्ठोत्पलैः ॥ १ ॥ कौन्तीकेशीबलाद्विसारिविनिशारक्ष्मायासताहानतै- र्मञ्जिष्ठापुरसिंहचन्दनवरैश्चण्डाद्वहस्यौषेयकैः । श्रीवेष्टागुरुरोद्रकुङ्कुमवरैः कल्कैः समांशैरिमै- स्तैलं क्षीरसमं विपाच्य विधिना बस्तौ च नस्ये ध्रुवम्॥२॥ पानाभ्यङ्गविधौ नियोजितमिदं वातादिसर्वामयान् गुल्माष्ठीलशिरोऽर्त्तिजङ्गुलमुदरं श्वासामकासज्ज्वरम् । शोफं प्लीहगुदामयं च जठरं धातुक्षयाध्मानकं अर्शःकुष्ठभगन्दरं च क्षपयेत्सर्वान् व्रणान् हन्ति च ॥ ३॥ जयति पत्रकरोगान् कामलां विड्विबन्धं दिननिशितिमिरान्ध्यं गृध्रसीं मूर्द्धिवातम् ।