गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 228, कुल 286 में से
संदर्भ में पढ़ेंउन्मादे चापि बहुशः शोफे शूले गुदाश्रये । मूत्रग्रहे मूढवाते मन्देऽग्नावुरुचौ तथा ॥ ११८ ॥ प्रयोज्यं विधिवत्सर्पिर्बलवर्णाग्निवर्धनम् । विविधेष्वन्नपानेषु केवलं वा निरत्ययम् ॥ ११९ ॥ अपतन्त्रके शुकनासाद्यं घृतम् । शुकनासा नागवल्ली द्वे बृहत्यौ महौषधम् । निचुलश्चैव भार्गी च काकादन्युपचेलिका ॥ १२० ॥ पुनर्नवा चेति समैरक्षमात्रैः पचेद्भिषक् । तोयाढके घृतप्रस्थं सिद्धं तच्चापि पाययेत् ॥ १२१ ॥ कासं श्वासं महाहिक्कां हृद्रोगं सापतन्त्रकम् । नातिक्रामेदिदं सर्पिर्वेलामिव महोदधिः ॥ १२२ ॥ उन्मादे चेतसं घृतम् । श्यामा मधुरसा द्राक्षा दण्डमूलं शतावरी । श्वदंष्ट्रा शणमूलं च तैर्युक्त्या कार्षिकैल्किकैः ॥ १२३ ॥ साधितं चेतसं नाम घृतं चेतोविकारनुत् । उन्मादमदमूर्च्छायज्वरापस्मारभेषजम् ॥ १२४ ॥ क्षीणक्षते समदुग्धकं घृतम् । षोडशभिर्जलपात्रैर्मृद्वीकायाः पलानि दश षट् च । अष्टौ मधुकफलानि च्छागन्मांर्सात्तुलाधं च ॥ १२५ ॥ अवशिष्टपादतोयं पूतं शीतं कषायमवतार्य । दत्त्वा कषायतुल्यं पयोऽथ नवसर्पिषः प्रस्थम् ॥ १२६ ॥ ऋषभकजीवकमेदाविदारिवीरात्मगुप्तानाम् । भव्याक्षोटनिकोचकशृङ्गाटकपद्मकबीजानाम् ॥ १२७ ॥ भागानक्षसमानश्च संसाधयेत्तु मृद्वग्नौ । सम्यक् सिद्धे तस्मिन् सितशर्करापलान्यष्टौ ॥ १२८ ॥ मधुनश्च पलान्यष्टौ चत्वारि पलानि पिप्पलीचूर्णात् । संमिश्रयेत्तु सर्वं क्षीणक्षतहितं समुद्दिष्टम् ॥ १२९ ॥