भारतकोश
गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

पृष्ठ 227, कुल 286 में से

संदर्भ में पढ़ें
पृष्ठ 227

घृताधिकारः १.] गदनिग्रहः। २०७ आत्मगुप्तामहामेदातालखर्जूरमस्तकैः । मधुरापिण्डखर्जूरशृङ्गीजीवकपद्मकैः ॥ १०५ ॥ शतावरीविदारीक्षुबृहतीसारिवायुतैः । पुनर्नवातुगाक्षीरीकाकोलीधन्वयासकैः ॥ १०६ ॥ मधूकाक्षोटवाताममुञ्जातामिषुकैरपि । द्रव्यैरेभिर्यथालाभं घृतं सम्यग्विपाचयेत् ॥ १०७ ॥ तत्पकं नावनेऽभ्यङ्गे पाने बस्तौ च योजयेत् । शिरोरोगेषु सर्वेषु कासे श्वासे च दारुणे ॥ १०८ ॥ मन्यापृष्ठग्रहे शोषे स्वरभेदे तथाऽर्दिते । योनिशुक्रप्रदोषेषु शस्तं वन्ध्यासुतप्रदम् ॥ १०९ ॥ ऋतुस्नाता तथा नारी पीत्वा पुत्रं प्रसूयते । महामायूरमित्येतदमृतमात्रेयपूजितम् ॥ ११० ॥ अशोरोगेऽवाक्पुष्प्याद्यं घृतम् । अवाक्पुष्पी बला दार्वी पृश्निपर्णी त्रिकण्टकः । न्यग्रोधोदुम्बराश्वत्थशुङ्गाश्च द्विपलोन्मिताः ॥ १११ ॥ कषाय एतैः, पेष्यास्तु जीवन्ती कटुरोहिणी । पिप्पली पिप्पलीमूलं मरिचं देवदारु च ॥ ११२ ॥ कलिङ्गाः शाल्मलीपुष्पं वीरा चन्दनमञ्जनम् । कट्फलं चित्रको मुस्ता प्रियङ्गवतिविषे स्थिरा ॥ ११३ ॥ पद्मोत्पलानां किञ्जल्कः समङ्गा सनिदिग्धिका । बिल्वं मोचरसः पाठा भार्गीः कर्षसमाः पृथक् ॥ ११४ ॥ चतुःप्रस्थे शृतं प्रस्थं कषायमवतारयेत् । (त्रिंशत्पलान्वितः प्रस्थो विज्ञेयो द्विपलाधिकः ।) ॥११५॥ सुनिषण्णकचाङ्गेर्योः प्रस्थौ द्वौ स्वरसख च । सर्वैरेभिर्यथोद्दिष्टैर्घृतप्रस्थं विपाचयेत् ॥ ११६ ॥ एतदर्शःस्वतीसारे त्रिदोषे रुधिरस्रुतौ । प्रवा‍हणे गुदभ्रंशे पिच्छासु विविधासु च ॥ ११७ ॥