गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 226, कुल 286 में से
संदर्भ में पढ़ें२०६ आयुर्वेदग्रन्थमाला । [परिशिष्टे शुक्तिका बदरमूलपौष्करं पत्रकेण सह तुम्बरु स्मृतम् । कर्षभागसहितांस्तथा हरेत् श्लक्ष्णपिष्टमथ संनयेत्ततः ॥ ९४ ॥ अश्वमत्र तु घृतस्य दापयेत् दध्न एव च भवेत्तथाढकम् । सर्वमेतदभिभूश्य शास्त्रतः पाचयेत मृदुनाऽग्निना सुखम्॥९५॥ मारुतोपहतगात्रचेतसां पार्श्वपृष्ठहनुजत्रुरोगिणाम् । क्षयगरविषदूषितान् मनुष्यान् गतवयसो बलवर्णविप्रयुक्तान् । घृतमिदमगदान् करोति सद्यः पवनकृतान् शमयेच्च सर्वरोगान् ॥ शोषे जीवन्त्याद्यं घृतम् । जीवन्तीं मधुकं द्राक्षां फलानि कुटजस्य च । शठीं पुष्करमूलं च व्याघ्रीं गोक्षुरकं बलाम् ॥ ९७ ॥ नीलोत्पलं तामलकीं त्रायमाणां दुरालभाम् । पिप्पलीं च समां पिष्ट्वा घृतं वैद्यो विपाचयेत् ॥ ९८ ॥ एतद्व्याधिसमूहस्य रोगराज्ञः समुच्छ्रितम् । रूपमेकादशविधं सर्पिरम्यं व्यपोहति ॥ ९९ । शिरोरोगे मायूरं घृतम् । दशमूलीबलारास्नामधुकत्रिफलैः सह । मायूरं पक्षपादान्त्रशकृत्पित्तास्यवर्जितम् ॥ १०० ॥ जले पक्त्वा घृतप्रस्थं तस्मिन् क्षीरसमं पचेत् । मधुरैः कार्षिकैर्द्रव्यैः शिरोरोगादितापहम् ॥ १०१ ॥ कर्णनासाक्षिजिह्वास्यगल रोगविनाशनम् । मायूरमिति विख्यातमूर्ध्वजत्रुगदापहम् ॥ १०२ ॥ महामायूरं घृतम् । एतेनैव कषायेण घृतप्रस्थं विपाचयेत् । चतुर्गुणेन पयसा कल्कैरेभिश्च कार्षिकैः ॥ १०३ ॥ जीवन्तीत्रिफलामेदामृद्वीकर्द्धिपरूषकैः । समङ्गाचविकाभार्गीकाश्मरीसुरदारुभिः ॥ १०४ ॥