गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 230, कुल 286 में से
संदर्भ में पढ़ें२१० आयुर्वेदग्रन्थमाला । सहचरमिति नाम्ना तैलमेतत्प्रसिद्धं धनपतिनृपयोग्यं भाषितं शम्भुनैव ॥ ४ ॥ तरक्षाद्यं तैलम् । तरक्षस्य शृगालस्य पादावत्राणि संत्यजेत् । कोष्ठसारादिकं सर्वमुत्क्वाथ्य बहुलेऽम्भसि ॥ ५ ॥ पादशेषं परिगृह्य छागगव्यपयोन्वितम् । तैलं रससमं दत्त्वा मदिरामस्तुकाञ्जिकम् ॥ ६ ॥ देवदारु हरिद्रे द्वे मांसी कुष्ठं सचन्दनम् । करञ्जस्त्रिवृता मुस्ता पत्राङ्गं रेणुकं त्वचम् ॥ ७ ॥ क्षारद्वयं त्रिकटुकं पञ्चैव लवणानि च । वचा तुरगगन्धा च मञ्जिष्ठा सर्जगुग्गुलू ॥ ८ ॥ मेदा रास्ना च वर्षाभूरेला शैलेयकं बला । एतैरर्धपलैर्द्रव्यैः शनैर्मृद्वग्निना पचेत् ॥ ९ ॥ तैलं तेनैव नश्यन्ति रोगा देहे शरीरिणाम् । अशीतिं वातजान् रोगान् शोफं शूलं कटिग्रहम् ॥ १० मांसमेदःश्रितं वायुं हर्षं चैव भगन्दरम् । लूतां सद्योव्रणं चैव नाडीदुष्टव्रणानि च ॥ ११ ॥ भूतग्रहमपस्मारमुन्मादं च नियच्छति । हन्ति वातमसाध्यं च पामादद्रुविचर्चिकाः ॥ १२ ॥ एतत्तैलं सदाभ्यङ्गात्सर्वरोगहरं नृणाम् । व्याघ्रतैलम् । व्याघ्रं शिरः समादाय क्वाथयित्वा जले बहु ॥ १३ ॥ उदूखले क्षोदयित्वा रसं नीत्वा सुगालितम् । दद्यात्कटाहे सुदृढे पचेत्पाकं विधानतः ॥ १४ ॥ द्रव्याण्येतानि मतिमान् पादमानेन दापयेत् । देवदारु नखाकुष्ठी तगरं चन्दनं घनः ॥ १५ ॥