गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 231, कुल 286 में से
संदर्भ में पढ़ेंवातव्याधिकारः २.] गदनिग्रहः । २११ मञ्जिष्ठा पुष्करं रास्ना चातुर्जातकसैन्धवम् । पिप्पली मरिचं शुण्ठी मांसी सहचरो जलम् ॥ १६ ॥ अश्वगन्धात्मगुप्ते च क्रमुकश्च शतावरी । श्वदंष्ट्रा केतकी मूर्वा मधुकं चागुरुस्तथा ॥ १७ ॥ जातीफलं च सुमनापत्री कटुकरोहिणी । ग्रन्थिकं शुक्लकन्दा च शतपुष्पा पुनर्नवा ॥ १८ ॥ जीवनीयो गणश्चैव रालाकेसरबोलकम् । नखं च कृष्णसारश्च वत्सनाभस्तथैव च ॥ १९ ॥ अस्य तैलस्य सिद्धस्य शृणु वीर्यमतः परम् । अशीतिवातजान् रोगान् हन्यादाशु प्रयोजितः ॥ २० ॥ अश्वानां वातभग्नानां गजानां शिशूनामपि । अंशशोषे खुडे वाते क्रोष्टुशीर्षे कटिग्रहे ॥ २१ ॥ मन्यास्तम्भे हनुश्रोत्रवाते मन्दे तथाऽनले । व्यन्ध्यानां पुत्रजननं षण्ढानां कामवर्धनम् ॥ २२ ॥ अश्विभ्यां निर्मितं चैव प्रजानां हितकारकम् । अनेनैव विधानेन तैलं तारक्षजं पचेत् ॥ २३ ॥ शतावर्यास्तुलामेकां तुलां गोक्षुरकस्य च । तुलार्धं तिलतैलस्य चैरण्डस्य पलानि षट् ॥ २४ ॥ एरण्डपत्रस्वरसपलानि नव कारयेत् । वृकशिशुकतर्कारीसिन्दुवारसुवर्णकात् ॥ २५ ॥ नीलिकाग्रन्थिपर्णाभ्यां करञ्जकेशरशृङ्गात् । षट्पलं गुग्गुलोर्दत्त्वा तैलं मृद्वग्निना पचेत् ॥ २६ कौब्ज्याक्षेपकपङ्गुत्वसुप्तत्वस्तन्दभामिताः । पक्षाघातहनुस्तम्भसन्धिरोमादिकानपि ॥ २७ ॥ नाशयेत्तत्क्षणादेव तमः सूर्योदये यथा । तैलं वातारिनामेदं सर्ववातहरं परम् ॥ २८ ॥