गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 234, कुल 286 में से
संदर्भ में पढ़ें२१४ आयुर्वेदीयग्रन्थमाला । [परिशिष्टे मदयन्ती बाकुंचिका रोध्रं चैतैस्तु समभागैः । तुलसीपत्रं बीजं सणस्य सूर्यभक्ता च ॥ ५० ॥ काकमाचीदारुकयष्टीमधुमार्कवं च सैरेयः । एतैर्द्विगुणैः कल्कीकृतैर्बिभीतमज्जतैलं च ॥ ५१ ॥ कल्काच्चतुर्गुणितं, तच्चतुर्गुणोऽथ धात्रीस्वरसः । सूर्यातपे विपाच्यं नाम्ना तैलं महानीलम् ॥ पलितादिषु प्रयोज्यं जत्रूर्ध्वगेषु च निपुणतरैः ॥ ५२ ॥ पलिते नील्याद्यं तैलम् । नीलीदलं भृङ्गरजोऽर्जुनत्वक् पिण्डीतकं कृष्णमयोरजश्च । बीजोद्भवं साहचरं च पुष्पं पथ्याक्षधात्रीसहितं विपाच्य ५३ एकीकृतं सर्वमदः प्रमाय पङ्केन तुल्यं नलिनीभवेन । संयोज्य पक्षं कलशे निधाय लौहे दृढे सद्मनि सापिधाने ५४ एतेन तैलं विपचेद्विमृश्य रसेन भृङ्गात्त्रिफलाभवेन । आसन्नपाके च परीक्षणार्थं पक्षं बलाकाभवमाक्षिपेच्च ॥ ५५ ॥ भवेद्यदा तद्भ्रमराङ्गनीलं तदा विपक्वं विनिधाय पात्रे । कृष्णायसे मासमवस्थितं तदभ्यङ्गयोगात्पलितानि हन्यात् ५६ उरुस्तम्भे द्विपञ्चमूल्याद्यं तैलम् । द्वे पञ्चमूल्यौ त्रिफला चित्रको देवदारु च । एकाष्ठीला त्वपामार्गः श्रेयसी वायसी सुधा ॥ ५७ ॥ काला भार्गी पृथकपर्णी सुवहा मदयन्तिका । विशल्योशीरकाश्मर्यहिंस्रादावस्तथाऽम्लिका ॥ ५८ ॥ चिरबिल्वो विशोकश्च बला चांशुमती तथा । पयस्या पीलुपर्णी च संगुडूची शतावरी ॥ ५९ ॥ एषां पञ्चपलान् भागान् जलद्रोणेषु सप्तसु । अष्टभागावशेषेण पचेत्तैलं शनैः शनैः ॥ ६० ॥ कुष्ठं च शतपुष्पा च चित्रकव्यूषणं वचा । देवदार्वगरु श्रेष्ठं विडङ्गं मुस्तमेव च ॥ ६१ ॥