भारतकोश
गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

पृष्ठ 237, कुल 286 में से

संदर्भ में पढ़ें
पृष्ठ 237

तैलाधिकारः २.] गदनिग्रहः । २१० पृथक् दशपलांशानि पिप्पली त्रिफलाञ्जनम् । प्रपौण्डरीकं मञ्जिष्ठा रोध्रं कृष्णागरूत्पलम् ॥ ८६ ॥ आम्रास्थि कर्दमः कृष्णो मृणालं रक्तचन्दनम् । नीली भल्लातकास्थीनि कासीसं मदयन्तिका ॥ ८७ ॥ सोमराज्यसनात्पुष्पं कृष्णपिण्डितचित्रकौ । पुष्पाण्यर्जुनकाश्मर्योः श्यामा जम्बूफलानि च ॥ ८८ ॥ पृथक् पञ्चपलांशानि तैः पिष्टैराढकं पचेत् । बिभीतकस्य तैलस्य धात्रीरसचतुर्गुणम् ॥ ८९ ॥ कुर्यादादित्यपाकं च यावत् शुष्को भवेद्रसः । लोहपात्रे ततः पूतं संशुद्धमथ योजयेत् ॥ ९० ॥ कुष्ठे गुञ्जामूलाद्यं तैलम् । गुञ्जिकामूलत्रिफलात्रिशूलीपुरतालकैः । पुत्रञ्जीवास्थिसिन्दूरमधूच्छिष्टनिशायुगैः ॥ ९१ ॥ विशानलशिखाकन्दवचापरशुच्छिन्नकैः । पृथक्पलार्धकैः पिष्टैस्तैलमर्धाढकं कटोः ॥ ९२ ॥ समालोड्य पचेत्सम्यग्गवां मूत्रे चतुर्गुणे । विपाच्य मतिमान् वैद्यः सर्वकुष्ठव्रणापहम् ॥ ९३ ॥ तैलं कुष्ठहरं वर्ण्यं फणिकीटविषापहम् । कण्डूविचर्चिकासिध्मवातासृक्शमनं परम् ॥ ९४ ॥ मञ्जिष्ठाद्यं तैलम् । मञ्जिष्ठा पद्मकं कुष्ठं चन्दनं गैरिकं बला । हरिद्रे द्वे प्रियङ्गुश्च नागं यष्टी सबाकुची ॥ ९५ ॥ दारु प्रपौण्डरीकं च पिष्ट्वाऽर्धपलिकानि तु । तैलप्रस्थं गवां क्षीरं दत्त्वा क्वाथं तथासनात् ॥ ९६ ॥ चतुर्गुणं भृङ्गरसं शनैर्मृद्वग्निना पचेत् । अस्य तैलस्य पक्वस्य शृणु वीर्यमतः परम् ॥ ९७ ॥ केशशाते शिरोदुःखे मन्यास्तम्भे हनुग्रहे । दन्तकर्णाक्षिशूले च नस्येऽभ्यङ्गे च योजयेत् ॥ ९८ ॥ १९