गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 224, कुल 286 में से
संदर्भ में पढ़ें२०४ आयुर्वेदीयग्रन्थमाला । [ परिशिष्टे कासे बृहत्कण्टकारीघृतम् । समूलपत्रशाखायाः कण्टकार्या रसाढके । घृतप्रस्थं बलान्योपविडङ्गशठिचित्रकैः ॥ ७५ ॥ सौवर्चलयवक्षारबिल्वामलकपौष्करैः । सैन्धवग्रन्थिकपर्णीद्राग्रेवदारुपयोधरैः ॥ ७६ ॥ वृश्चीवबृहतीपथ्यायवानीदाडिमर्द्धिभिः । द्राक्षापुनर्नवाचव्यदुरालम्भाम्लवेतसैः ॥ ७७ ॥ शृङ्गीतामलकीभार्गीरास्नागोक्षुरकैः पचेत् । कल्कैश्च सर्वकांसेषु हिक्काश्वासेषु शस्यते । कण्टकारीघृतं सिद्धं कफव्याधिविनाशनम् ॥ ७८ ॥ व्रणे जात्याद्यं घृतम् । जातीनिम्बपटोलपत्रकटुकादार्वांनिशासारिवा- मञ्जिष्ठामयसिक्थतुत्थमधुकैर्नक्ताह्वबीजैः समैः । सर्पिः सिद्धमनेन सूक्ष्मवदना मर्माश्रिताः स्राविणो गम्भीराः सरुजो व्रणाः सगतिकाः शुद्ध्यन्ति रोहन्ति च ७९ प्रवाहिकायां त्र्यूषणाद्यं घृतम् । त्र्यूषणं त्रिफला निम्बं चित्रको गजपिप्पली । बिल्वं कर्कोटिका हिंस्रा विडङ्गानि निदिग्धिका ॥ ८० ॥ घृतप्रस्थं पचेदेभिर्गवां मूत्रे चतुर्गुणे । पीतं प्रयोगतः काले हन्यादेतत्प्रवाहिकाम् ॥ ८१ ॥ रक्तपित्ते कसेरुकं घृतम् । द्राक्षेक्षुकाश्मर्यशतावरीणां तथा विदार्याः स्वरसस्य चैव । कसेरुकाणां तु तथा कषायं प्रस्थं पृथक् क्षीरचतुर्गुणं च ॥८२ घृतं तु शेफालिशतावरीणां त्रायन्तिकाया अपि कल्कसिद्धम् । प्रायोगिकं सर्पिरुदाहरन्ति कसेरुकं मारुतपित्तघाति । विसर्पदाहज्वररक्तपित्ते क्षीणक्षतानां च रसानीयम् ॥ ८३ ॥