गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 239, कुल 286 में से
संदर्भ में पढ़ेंचूर्णाधिकारः ३.] गदनिग्रहः । २१९ रक्ता निम्बं सुरतरु वचा पञ्चमूल्यौ च चूर्णं . पीत्वा मासं जयति मितभुक् गव्यमूत्रेण कुष्ठम् ॥ ४ ॥ ग्रहण्यां पञ्चामृतरसः । कर्षे रसाद्गन्धकतस्तथैव विमर्द्य खल्वेऽभ्रकमेव तावत् । दद्यात्तथा ताप्यमयोरजश्च गव्येन चाज्येन विमृश्य किञ्चित् ५ पात्रे मन्दं वह्निना ज्वालयेत्तद्ध्यान्मात्रां रक्तिकैकप्रवृद्ध्या । यावन्माषो नाधिकं मानवेभ्यः कृत्वा वह्नेर्दीपनं हन्ति रोगान् ६ पाण्डुप्रीहोन्माददुर्नाममेहान् पित्तं साम्लं सातिसारं ज्वरं च । सद्यः शूलान् त्वग्ग्रहण्यामयं च तथैव रोगान् खलु सूतिकायाः७ अयं हि पञ्चामृतनामधेयो रसेन्द्रराजः क्षयरोगहारी । वातास्रमग्रं श्वयथुं च हन्यात्स्वयोग्ययुक्तः सकलान्विकारान् ८ पञ्चसमं चूर्णम् । पथ्यानागरजीरकारुय्यरुचकैः श्यामान्वितैः पञ्चभि- श्चूर्णं पञ्चसमं समस्तरुजहृत्कायाग्निसंदीपनम् । घ्राणोत्साहविवर्धनं रुचिकरं गुल्मप्लीहापहं प्रत्याध्मानकरादिशमनं सामानिले पूजितम् ॥ ९ ॥ छर्द्यां बदराद्यं चूर्णम् । बदरत्रिफलानां च व्योषस्य च पलद्वयम् । कर्पूरकर्षो लाजानां पलद्वादशकं भवेत् ॥ १० ॥ एलात्वक्पत्रकाणां तु पलं स्याद्वंशरोचना । पलाष्टका, वेतसाम्लश्चतुष्पलमुदाहृतः ॥ ११ ॥ चूर्णं द्विगुणखण्डं तु हृद्यं वमिहरं परम् । यक्ष्माणं रक्तपित्तं च ज्वरं कासं च नाशयेत् ॥ १२ ॥ उदरे नवक्षारकं चूर्णम् । तुवरीटङ्गणव्योषसामुद्रं सैन्धवं बिडम् । काचं सौवर्चलं चव्यं क्षारश्चेशुरकोद्भवः ॥ १३ ॥